अध्यायः 099

भीष्मेण युधिष्ठिरम् प्रति जनकराजेन स्वयोधानां स्वर्गनरकप्रदर्शनेन युद्धे प्रोत्साहनकथनम् ॥ 1 ॥ भीष्म उवाच 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 001a
प्रतर्दनो मैथिलश्च सङ्ग्रामं यत्र चक्रतुः ॥ 001c
यज्ञोपवीती सङ्ग्रामे जनको मिथिलाधिपः । 002a
योधानुद्धर्षयामास तन्निबोध युधिष्ठिर ॥ 002c
जनको मैथिलो राजा महात्मा सर्वतत्त्ववित् । 003a
योधानां दर्शयामास स्वर्गं नरकमेव च ॥ 003c
अभीरूणामिमे लोका भास्वन्तो हन्त पश्यत । 004a
पूर्णा गन्धर्वकन्याभिः सर्वकामदुहोऽक्षयाः ॥ 004c
इमे पलायमानानां नरकाः प्रत्युपस्थिताः । 005a
अकीर्तिः शाश्वती चैव यतितव्यमनन्तरम् ॥ 005c
तान्दृष्ट्वाऽरीन्विजयत भूत्वा सन्त्यागबुद्धयः । 006a
नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः ॥ 006c
त्यागमूलं हि शूराणां स्वर्गद्वारमनुत्तमम् । 007a
इत्युक्तास्ते नृपतिना योधाः परपुरञ्जय ॥ 007c
अजयन्त रणे शत्रून्हर्षयन्तो नरेश्वरम् । 008a
तस्मात्त्यक्तात्मना नित्यं स्थातव्यं रणमूर्धनि ॥ 008c
गजानां रथिनो मध्ये रथानामनुसादिनः । 009a
सादिनामन्तरे स्थाप्यं पादातमपि दंशितम् ॥ 009c
य एवं व्यूहते राजा स नित्यं जयते रिपून् । 010a
तस्मादेतद्विधातव्यं नित्यमेव युधिष्ठिर ॥ 010c
स्वर्गे सुकृतमिच्छन्तः सुयुद्धेनातिमन्यवः । 011a
क्षोभयेयुरनीकानि सागरं मकरा यथा ॥ 011c
हर्षयेयुर्विषण्णांश्च व्यवस्थाप्य परस्परम् । 012a
तेषां च भूमिं रक्षेयुर्भग्नान्नात्यनुसारयेत् ॥ 012c
पुनरावर्तमानानां निराशानां च जीविते । 013a
वेगः सुदुःसहो राजंस्तस्मान्नात्यनुसारयेत् ॥ 013c
न हि प्रहर्तुमिच्छन्ति शूराः प्रद्रवतो भयात् । 014a
तस्मात्पलायमानानां कुर्यान्नात्यनुसारणम् ॥ 014c
चराणामचरा ह्यन्नमदंष्ट्रा दंष्ट्रिणामपि । 015a
अपाणयः पाणिमतामन्नं शूरस्य कातराः ॥ 015c
समानपृष्ठोदरपाणिपादाः पश्चाच्छरं भीरवोऽनुव्रजन्ति । 016a
अतो भयार्ताः प्रणिपत्य भूयः कृत्वाञ्जलीनुपतिष्ठन्ति शूरान् ॥ 016c
शूरबाहुषु लोकोऽयं लम्बते पुत्रवत्सदा । 017a
तस्मात्सर्वेषु लोकेषु शूरः सम्मानमर्हति ॥ 017c
न हि शौर्यात्परं किञ्चित्त्रिषु लोकेषु विद्यते । 018a
शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम् ॥ 018c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनशततमोऽध्यायः ॥ 99 ॥

12-99-1 अत्र शूरप्रोत्साहने विषये ॥ 12-99-3 दर्शयामास योगबलेन ॥ 12-99-5 पतितव्यमनन्तरमिति ड. द. पाठः ॥ 12-99-9 गजानां मध्ये रथिनः स्थाप्याः ॥ 12-99-12 नात्यनुसारयेन्नातिद्रावयेत् परावृत्तिभयात् ॥ 12-99-13 तदेवाह पुनरिति ॥