अध्यायः 098
भीष्मेण युधिष्ठिरम् प्रति सुदेवस्य युद्धेन देवलोकप्राप्तिप्रतिपादकेन्द्राम्बरीषसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
के लोका युध्यमानानां शूराणामनिवर्तिनाम् । 001a
भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
अम्बरीषस्य संवादमिन्द्रस्य च युधिष्ठिर ॥ 002c
अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम् । 003a
ददर्श सुरलोकस्थं शक्रेण सचिवैः सह ॥ 003c
सर्वतेजोमयं दिव्यं विमानवरमास्थितम् । 004a
उपर्युपरिगच्छन्तं स्थानं सेनापतिं शुभम् ॥ 004c
स दष्ट्वोपरि गच्छन्तं सेनापतिमुदारधीः । 005a
'शूरस्थानमनुप्राप्तं सुदेवं नाम नामतः ।' 005c
ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम् ॥ 005e
अम्बरीष उवाच 006
सागरान्तां महीं कृत्स्नामनुशास्य यथाविधि । 006a
चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया ॥ 006c
ब्रह्मचर्येण घोरेण गुर्वाचारेण सेवया । 007a
वेदानधीत्य धर्मेण राजशास्त्रं च केवलम् ॥ 007c
अतिथीनन्नपानेन पितॄंश्च स्वधया तथा । 008a
ऋषीन्स्वाध्यायदीक्षाभिर्देवान्यज्ञैरनुत्तमैः ॥ 008c
क्षत्रधर्मे स्थितो भूत्वा यथाशास्त्रं यथाविधि । 009a
उदीक्षमाणः पृतनां जयामि युधि वासव ॥ 009c
देवराज सुदेवोऽयं मम सेनापतिः पुरा । 010a
आसाद्योधःप्रशान्तात्मा सोऽयं कस्मादतीव माम् । 010c
विमानं सूर्यसङ्काशमास्थितो मोदते दिवि ॥ 010e
अनेन ऋतुभिर्मुख्यैर्नेष्टं नापि द्विजातयः । 011a
तर्पिता विधिवच्छक्र सोऽयं कस्मादतीत्य माम् ॥ 011c
ऐश्वर्यमीदृशं प्राप्तः सर्वदेवैः सुदुर्लभम् । 012a
इन्द्र उवाच 012
'यदनेन कृतं कर्म प्रत्यक्षं ते महीपते । 012c
पुरा पालयतः सम्यक्पृथिवीं धर्मतो नृप ॥ 012e
शत्रवो निर्जिताः सर्वे ये तवाहितकारिणः । 013a
संयमो वियमश्चैव सुयमश्च महाबलः ॥ 013c
राक्षसा दुर्जया लोके त्रयस्ते युद्धदुर्मदाः । 014a
पुत्रास्ते शतशृङ्गस्य राक्षसस्य महीपतेः ॥ 014c
तथा तस्मिञ्शुभे काले तव यज्ञं वितन्वतः । 015a
अश्वमेधं महायागं देवानां हितकाम्यया ॥ 015c
तस्य ते खलु विघ्नार्थमागता राक्षसास्त्रयः । 016a
कोटीशतपरीवारां राक्षसानां महाचमूम् । 016c
परिगृह्य ततः सर्वाः प्रजा वन्दीकृतास्तव ॥ 016e
विह्वलाश्च प्रजाः सर्वाः सर्वे च तव सैनिकाः । 017a
निराकृतस्तु यच्चासीत्सुदेवः सैन्यनायकः ॥ 017c
तत्रामात्यवचः श्रुत्वा निरस्तः सर्वकर्मसु । 018a
श्रुत्वा तेषां वचो भूयः सोपधं वसुधाधिपः ॥ 018c
सर्वसैन्यसमायुक्तः सुदेवः प्रेरितस्त्वया । 019a
साक्षसानां वधार्थाय दुर्जयानां नराधिप ॥ 019c
नाजित्वा राक्षसीं सेनां पुनरागमनं तव । 020a
वन्दीमोक्षमकृत्वा च न चागमनमिष्यते ॥ 020c
सुदेवस्तद्वचः श्रुत्वा प्रस्थानमकरोन्नृप । 021a
सम्प्राप्तश्च स तं देशं यत्र वन्दीकृताः प्रजाः ॥ 021c
पश्यति स्म महाघोरां राक्षसानां महाचमूम् । 022a
दृष्ट्वा सुचिन्तयामास सुदेवो वाहिनीपतिः ॥ 022c
नेयं शक्या चमूर्जेतुमपि सेन्द्रैः सुरासुरैः । 023a
नाम्बरीषः कलामेकामेषां क्षपयितुं क्षमः । 023c
दिव्यास्त्रबलभूयिष्ठः किमहं पुनरीदृशः ॥ 023e
ततः सेनां पुनः सर्वां प्रेषयामास पार्थिव । 024a
यत्र त्वं सचिवैः सर्वैर्मन्त्रिभिः सोपधैर्नृप ॥ 024c
ततो रुद्रं महादेवं प्रपन्नो जगतः पतिम् । 025a
श्मशाननिलयं देवं तुष्टाव वृषभध्वजम् ॥ 025c
स्तुत्वा शस्त्रं समादाय स्वशिरश्छेत्तुमुद्यतः ॥ 026ac
कारुण्याद्देवदेवेन गृहीतस्तस्य दक्षिणः । 027a
स पाणिः सह शस्त्रेण दृष्ट्वा चेदमुवाच ह ॥ 027c
किमिदं साहसं पुत्र कर्तुकामो वदस्व मे । 028a
स उवाच महादेवं शिरसा त्ववनीं गतः ॥ 028c
भगवन्वाहिनीमेनां राक्षसानां सुरेश्वर । 029a
अशक्तोऽहं रणे जेतुं तस्मात्त्यक्ष्यामि जीवितम् । 029c
गतिर्भव महादेव ममार्तस्य जगत्पते ॥ 029e
नागन्तव्यमजित्वा च मामाह जगतीपतिः । 030a
अम्बरीषो महादेव क्षारितः सचिवैः सह ॥ 030c
तमुवाच महादेवः सुदेवं पतितं क्षितौ । 031a
अधोमुखं महात्मानं सत्वानां हितकाम्यया ॥ 031c
धनुर्वेदं समाहूय सगणं सहविग्रहम् । 032a
रथनागाश्वकलिलं दिव्यास्त्रसमलङ्कृतम् ॥ 032c
रथं च सुमहाभागं येन तन्त्रिपुरं हतम् । 033a
धनुः पिनाकं खड्गं च रौद्रमस्त्रं च शङ्करः । 033c
निजघानासुरान्सर्वान्येन देवस्त्रियम्बकः ॥ 033e
उवाच च महादेवः सुदेवं वाहिनीपतिम् । 034a
रथादस्मात्सुदेव त्वं दुर्जयः स सुरासुरैः ॥ 034c
मायया मोहितो भूमौ न पदं कर्तुमर्हसि । 035a
रथस्थस्त्रिदशान्सर्वाञ्जेष्यसि त्वं सदानवान् ॥ 035c
राक्षसाश्च पिशाचाश्च न शक्ता द्रष्टुमीदृशम् । 036a
रथं सूर्यसहस्राभं किमु योद्धुं त्वया सह ॥ 036c
स जित्वा राक्षसान्सर्वान्कृत्वा वन्दीविमोक्षणम् । 037a
घातयित्वा च तान्सर्वान्बाहुयुद्धे त्वयं हतः । 037c
वियमं प्राप्य भूपाल वियमश्च निपातितः ॥' 037e
तस्य विक्रमतस्तात सुदेवस्य बभूव ह । 038a
सङ्ग्रामयज्ञः सुमहान्यश्चान्यो युध्यते नरः ॥ 038c
सन्नद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम् । 039a
युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः ॥ 039c
अम्बरीष उवाच 040
कानि यज्ञे हवींष्यस्मिन्किमाज्यं का च दक्षिणा । 040a
ऋत्विजश्चात्र के प्रोक्तास्तन्मे ब्रूहि शतक्रतो ॥ 040c
इन्द्र उवाच 041
ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा । 041a
हवींषि परमांसानि रुधिरं त्वाज्यमुच्यते ॥ 041c
शृगालगृध्रकाकोलाः सदस्यास्तत्र पन्त्रिणः । 042a
आज्यशेषं पिबन्त्येते हविः प्राश्नन्ति चाध्वरे ॥ 042c
प्रासतोमरसङ्घाताः खड्गशक्तिपरश्वथाः । 043a
ज्वलन्तो निशिताः पीताः स्रुचस्तस्याथ सत्रिणः ॥ 043c
चापवेगायतस्तीक्ष्णः परकायावभेदनः । 044a
ऋजुः सुनिशितः पीतः सायकश्च स्रुवो महान् ॥ 044c
द्वीपिचर्मावनद्धश्च नागदन्तकृतत्सरुः । 045a
हस्तिहस्तहरः खड्गः स्फ्यो भवेत्तस्य संयुगे ॥ 045c
ज्वलितैर्निशितैः प्रासशक्त्यृष्टिसपरश्वथैः । 046a
शैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद्वसु ॥ 046c
[सङ्ख्यासमयविस्तीर्णमभिजातोद्भवं बहु ।] 047a
आवेधाद्यच्च रुधिरं सङ्ग्रामे स्रवते भुवि । 047c
साऽस्य पूर्णाहुतिर्होत्रैः समृद्धा सर्वकामधुक् ॥ 047e
छिन्धि भिन्धीति यः शब्दः श्रूयते वाहिनीमुखे । 048a
सामानि सामगास्तस्य गायन्ति यमसादने ॥ 048c
हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम् ॥ 049ac
कुञ्जराणां हयानां च वर्मिणां च समुच्चयः । 050a
अग्निः श्येनचितो नाम यज्ञे तस्य विधीयते ॥ 050c
उत्तिष्ठते कबन्धोऽत्र सहस्रे पतिते तु यः । 051a
स यूपस्तस्य शूरस्य खादिरोऽष्टाश्रिरुच्यते ॥ 051c
इडोपहूताः क्रोशन्ति कुञ्जरास्त्वङ्कुशेरिताः । 052a
ज्याघुष्टतलतालेन वषट्कारेण पार्थिव ॥ 052c
उद्गाता तत्र सङ्ग्रामे त्रिसामा दुन्दुभिर्नृप । 053a
ब्रह्मस्वे ह्रियमाणे तु त्यक्त्वा युद्धे प्रियां तनुम् । 053c
आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ॥ 053e
भर्तुरर्थे च यः शूरो निष्क्रामेद्वाहिनीमुखात् । 054a
न भयाद्विनिवर्तेत तस्य लोका यथा मम ॥ 054c
द्वीपिचर्मावृतैः खड्गैर्बाहुभिः परिघोपमैः । 055a
यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम ॥ 055c
यस्तु नापेक्षते कञ्चित्सहायं विषमे स्थितः । 056a
विगाह्य वाहिनीमध्यं तस्य लोका यथा मम ॥ 056c
यस्य शोणितसङ्घट्टा भेरीमण्डूककच्छपा । 057a
वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा ॥ 057c
असिचर्मप्लवा घोरा केशशैवलशाद्वला । 058a
अश्वनागरथैश्चैव सञ्छिन्नैः कृतसङ्क्रमा ॥ 058c
पताकाध्वजवानीरा हतवाहनवारणा । 059a
शोणितोदकसम्पूर्णा दुस्तरा पारगैर्नरैः ॥ 059c
हतनागमहानक्रा परलोकवहाऽशिवा । 060a
ऋष्टिखड्गमहामीना गृध्रकङ्कबलप्लवा ॥ 060c
पुरुषादानुचरिता भीरूणां कश्मलावहा । 061a
नदी योधस्य सङ्ग्रामे तदस्यावभृथं नृप ॥ 061c
वेदिर्यस्य त्वमित्राणां शिरोभिर्व्यवकीर्यते । 062a
अश्वस्कन्धैर्गजस्कन्धैस्तस्य लोका यथा मम ॥ 062c
पत्नी शालाकृता यस्य परेषां वाहिनीमुखम् । 063a
हविर्धानं स्ववाहिन्यास्तदस्याहुर्मनीषिणः ॥ 063c
सदस्या दक्षिणा योधा आग्नीध्रश्चोत्तरां दिशम् । 064a
शत्रुसेना कलत्रस्य सर्वलोकानदूरतः ॥ 064c
यस्य तूभयतो व्यूहे भवत्याकाशमग्रतः । 065a
सास्य वेदिस्तदा यज्ञैर्नित्यं व्यूहास्त्रयोऽग्नयः ॥ 065c
यस्तु योधः परावृत्तः सन्त्रस्तो हन्यते परैः । 066a
अप्रतिष्ठः स नरकं याति नास्त्यत्र संशयः ॥ 066c
यस्य शोणितवेगेण वेदिः स्यात्सम्परिप्लुता । 067a
केशमांसास्थिसम्पूर्णा स गच्छेत्परमां गतिम् ॥ 067c
यस्तु सेनापतिं हत्वा तद्यानमधिरोहति । 068a
स विष्णुविक्रमक्रामी बृहस्पतिसमः प्रभुः ॥ 068c
नायकं तत्कुमारं वा यो वा स्यात्तत्र पूजितः । 069a
जीवग्राहं प्रगृह्णाति तस्य लोका यथा मम ॥ 069c
आहवे तु हतं शूरं न शोचेत कथञ्चन । 070a
अशोच्यो हि हतः शूरः स्वर्गलोके महीयते ॥ 070c
न ह्यन्नं नोदकं तस्य न स्नानं नाप्यशौचकम् । 071a
हतस्य कर्तुमिच्छन्ति तस्य लोकाञ्शृणुष्व मे ॥ 071c
वराप्सरःसहस्राणि शूरमायोधने हतम् । 072a
त्वरमाणानि धावन्ति मम भर्ता भवेदिति ॥ 072c
एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः । 073a
चत्वारश्चाश्रमास्तस्य यो युद्धे न पलायते ॥ 073c
वृद्धबालौ न हन्तव्यौ न च स्त्री नैव पृष्ठतः । 074a
तृणपूर्णमुखश्चैव तवास्मीति च यो वदेत् ॥ 074c
अहं वृत्रं बलं पाकं महाकायं विरोचनम् । 075a
दुरावारं च नमुचिं शतमायं च शम्बरम् ॥ 075c
विप्रचित्तिं च दैतेयं दनोः पुत्रांश्च सर्वशः । 076a
प्रह्लादं च निहत्याजौ ततो देवाधिपोऽभवम् ॥ 076c
इत्येतच्छक्रवचनं निशम्य प्रतिपूज्य च । 077a
योधानामात्मनः सिद्धिमम्बरीषोऽभिपन्नवान् ॥ 077c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टनवतितमोऽध्यायः ॥ 98 ॥
12-98-3 नाभागिः नाभागपुत्रः ॥ 12-98-38 यश्चान्योऽक्षत्रियोऽपि युध्यते नरस्तस्याप्ययं च यज्ञोऽस्ति ॥ 12-98-43 पीताः क्षारपानीयेन सम्भाविताः ॥ 12-98-45 स्फ्यः यागीयोपकरणविशेषः ॥ 12-98-46 शैक्यायसमयैः सर्वलोहमयैः । वसु यत्किञ्चिद्यज्ञियं द्रव्यम् ॥ 12-98-49 हविर्धानं हविषः स्थापनस्थलम् ॥ 12-98-64 सदस्योत्तरयोधाग्निराग्नीध्रस्योत्तराथ दिक् । इति द. पाठः ॥ 12-98-68 बृहस्पतिसवः क्रतुः इति ड. द. पाठः ॥ 12-98-69 नायकं वा प्रमाणं वेति ड. द. पाठः ॥