अध्यायः 096
भीष्मेण युधिष्ठिरम् प्रति राजधर्मकथनम् ॥ 1 ॥
भीष्म उवाच 001
नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः । 001a
अधर्मविजयं लब्ध्वा को नु मन्येत भूमिपः ॥ 001c
अधर्मयुक्तो विजयो ह्यध्रुवोऽस्वर्ग्य एव च । 002a
पातयत्येव राजानं महीं च भरतर्षभ ॥ 002c
विशीर्णकवचं चैव तवास्मीति च वादिनम् । 003a
कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत् ॥ 003c
बलेन विजितो यश्च न तं युध्येत भूमिपः । 004a
संवत्सरं विप्रणयेत्तस्माज्जातः पुनर्भवेत् ॥ 004c
नार्वाक्संवत्सरात्कन्या प्रष्टव्या विक्रमाहृता । 005a
एवमेव धनं सर्वं यच्चान्यत्सहसा हृतम् ॥ 005c
न तु वध्ये धनं तिष्ठेत्पिबेयुर्ब्राह्मणाः पयः । 006a
युञ्जीरन्नप्यनडुहः क्षन्तव्यं वा पुनर्भवेत् ॥ 006c
राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते । 007a
नान्यो राजानमभ्यस्येदराजन्यः कथञ्चन ॥ 007c
अनीकयोः संहतयोर्यदीयाद्ब्राह्मणोऽन्तरा । 008a
शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत् ॥ 008c
मर्यादां शाश्वतीं भिन्द्याद्ब्राह्मणं योऽभिलङ्घयेत् । 009a
अथ चेल्लङ्घयेदेव मर्यादां क्षत्रियब्रुवः । 009c
असङ्ख्येयस्तदूर्ध्वं स्यादनादेयश्च संसदि ॥ 009e
यस्तु धर्मविलोपेन मर्यादाभेदनेन च । 010a
तां वृत्तिं नानुवर्तेत विजिगीषुर्महीपतिः ॥ 010c
धर्मलब्धाद्धि विजयाल्लाभः कोऽभ्यधिको भवेत् ॥ 011ac
सहसा न्याय्यभूतानि क्षिप्रमेव प्रसादयेत् । 012a
सान्त्वेन भोगदानेन स राज्ञां परमो नयः ॥ 012c
भुज्यमाना ह्यभोगेन स्वराष्ट्रादभितापिताः । 013a
अमित्रान्पर्युपासीरन्व्यसनौघप्रतीक्षिणः ॥ 013c
अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि । 014a
सन्तुष्टाः सर्वतो राजन्राजव्यसनकाङ्क्षिणः ॥ 014c
नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथञ्चन । 015a
जीवितं ह्यप्यतिच्छिन्नः सन्त्यजेदेकदा नरः ॥ 015c
अल्पेनापि च संयुक्तस्तुष्यते नापराधितः । 016a
शुद्धं जीवितमेवापि तादृशो बहुमन्यते ॥ 016c
यस्य स्फीतो जनपदः सम्पन्नः प्रियराजकः । 017a
सन्तुष्टभृत्यसचिवो दृढमूलः स पार्थिवः ॥ 017c
ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसत्तमाः । 018a
पूजार्हाः पूजिता यस्य स वै लोकविदुच्यते ॥ 018c
एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः । 019a
अन्येऽपि चैव विजयं विजिगीषन्ति पार्थिवाः ॥ 019c
भूमिवर्जं धनं राजा जित्वा राजन्महाहवे । 020a
अपि चान्नौषधीः शश्वदाजहार प्रतर्दनः ॥ 020c
अग्निहोत्राग्निशेषं च हविर्भोजनमेव च । 021a
आजहार दिवोदासस्ततो विप्रकृतोऽभवत् ॥ 021c
सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ । 022a
अन्यत्र श्रोत्रियस्वाच्च तापसार्थाच्च भारत ॥ 022c
उच्चावचानि वित्तानि धर्मज्ञानां युधिष्ठिर । 023a
आसन्राज्ञां पुराणानां सर्वं तन्मम रोचते ॥ 023c
सर्वविद्यातिरेकेण जयमिच्छेन्महीपतिः । 024a
न मायया न दम्भेन य इच्छेद्भूतिमात्मनः ॥ 024c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षण्णवतितमोऽध्यायः ॥ 96 ॥
12-96-4 विप्रणयेद्दासोऽस्मीति वदेति तं शिक्षयेत् । ततः संवत्सरादूर्ध्वं स एवाऽब्रुवन्नपि ततो जातो जेतुः पुत्रएव भवेत् । ततश्च मोक्तव्य इत्यर्थः ॥ 12-96-5 नच संवत्सरं कन्याः स्प्रष्टव्याः सहसाहृताः इति ड. पाठः ॥ 12-96-7 अभ्यस्येदभिमुखं शस्त्रं क्षिपेत् ॥ 12-96-9 क्षत्रियब्रुवः क्षत्रियाधमः ॥ 12-96-10 असङ्ख्येयः क्षत्रियेषु न गणनीयः ॥ 12-96-14 अमित्रोपग्रहं तद्वैरिणामानुकूल्यम् । ते बलाद्भुज्यमानाः ॥ 12-96-15 विनिकर्तव्यो निकृत्य वञ्चयितव्यः ॥ 12-96-21 अग्निशेषं यज्ञाङ्गभूतं हविः । भोजनं सिद्धान्नम् । एतन्न हर्तव्यमित्यर्थः । विप्रकृतो वञ्चितः ॥ 12-96-23 राज्ञा सर्वं हर्तव्यमित्यर्थः ॥