अध्यायः 094
भीष्मेण युधिष्ठिरम् प्रति वसुमनसे वामदेवोक्तराजधर्मकथनम् ॥ 1 ॥
वामदेव उवाच 001
अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः । 001a
जघन्यमाहुर्विजयं युद्धेन च नराधिप ॥ 001c
न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति । 002a
न हि दुर्बलमूलस्य राज्ञो लाभो विवर्धते ॥ 002c
यस्य स्फीतो जनपदः सम्पन्नप्रियराजकः । 003a
सन्तुष्टः पुष्टसचिवो दृढमूलः स पार्थिवः ॥ 003c
यस्य योधाः सुसन्तुष्टाः स्वनुरक्ताः सुपूजिताः । 004a
अल्पेनापि स दण्डेन महीं जयति पार्थिवः ॥ 004c
'दण्डो हि बलवान्यत्र तत्र साम प्रयुज्यते । 005a
प्रदानं सामपूर्वं च भेदमूलं प्रशस्यते ॥ 005c
त्रयाणां विफलं कर्म यदा पश्येत भूमिपः । 006a
रन्ध्रं ज्ञात्वा ततो दण्डं प्रयुञ्जीताविचारयन् ॥ 006c
अभिभूतो यदा शत्रुः शत्रुभिर्बलवत्तरैः । 007a
उपेक्षा तत्र कर्तव्या वध्यता बलिनां बलम् ॥ 007c
दुर्बलो हि महीपालो यदा भवति भारत । 008a
उपेक्षा तत्र कर्तव्या चतुर्णामविरोधिनी । 008c
उपायः पञ्चमः सोऽपि सर्वेषां बलवत्तरः ॥ 008e
भार्गवेण च गीतानां श्लोकानां कोसलाधिप । 009a
विज्ञाय तत्वं तत्वज्ञ तत्वतस्तत्करिष्यति ॥ 009c
यदि रक्षःपिशाचेन हन्यते यत्रकुत्रचित् । 010a
उपेक्षा तत्र कर्तव्या वाच्यतां बलिनां बलम् ॥ 010c
दुर्बलोऽपि महीपाल शत्रूणां शत्रुमुद्धरेत् । 011a
पादलग्नं करस्थेन कण्टकेनैव कण्टकम् ॥ 011c
शठानां सचिवानां च म्लेच्छानां च महीपते । 012a
एष उक्त उपायानामुपेक्षा बलवत्तम ॥ 012c
अश्मना नाशयेल्लोहं लोहेनाश्मानमेव तु । 013a
बिल्वानि वा परैर्बिल्वैर्म्लेच्छैर्म्लेच्छान्प्रसादयेत् ॥ 013c
दासानां च प्रदृप्तानामेतदेव हि कारयेत् । 014a
चण्डालम्लेच्छजातीनां दण्डेनैव निवारणम् । 014c
शठानां दुर्विनीतैश्च पूर्वमुक्तं समाचरेत् ॥ 014e
अन्त्याः शठाश्च सचिवास्तथा कुब्राह्मणादयः । 015a
उपायैः पञ्चभिः साध्याश्चतुर्वर्गविरोधिनः ॥ 015c
पौरजानपदा यस्य स्वनुरक्ता अपीडिताः । 016a
राष्ट्रकर्मकरा ह्येते राष्ट्रस्य च विरोधिनः ॥ 016c
दुर्विनीता विनीताश्च सर्वे साध्याः प्रयत्नतः । 017a
चण्डालम्लेच्छजात्याश्च पाषण्डाश्च विकर्मिणः । 017c
बलिनश्चाश्रमाश्चैव तथा गायकनर्तकाः ॥' 017e
पौरजानपदा यस्य भूतेषु च दयालवः । 018a
सधना धान्यवन्तश्च दृढमूलः स पार्थिवः ॥ 018c
प्रतापकालमधिकं यदा मन्येत चात्मनः । 019a
तदा लिप्सेत मेधावी परभूमिधनान्युत ॥ 019c
भोगेषूदयमानस्य भूतेषु च दयावतः । 020a
वर्धते त्वरमाणस्य विषयो रक्षितात्मनः ॥ 020c
तक्षेदात्मानमेवं स वनं परशुना यथा । 021a
यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते ॥ 021c
नैव द्विषन्तो हीयन्ते राज्ञो नित्यमनिघ्नतः । 022a
क्रोधं निहन्तुं यो वेद तस्य द्वेष्टा न विद्यते ॥ 022c
यदार्यजनविद्विष्टं कर्म तन्नाचरेद्बुधः । 023a
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ॥ 023c
नैवमन्येऽवजानन्ति नात्मना परितप्यते । 024a
कृत्यशेषेण यो राजा सुखान्यनुबुभूषति ॥ 024c
इदं वृत्तं मनुष्येषु वर्तते यो महीपतिः । 025a
उभौ लोकौ विनिर्जित्य विजये सम्प्रतिष्ठते ॥ 025c
भीष्म उवाच 026
इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः । 026a
तथा कुर्वंस्त्वमप्येतौ लोकौ जेता न संशयः ॥ 026c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुर्नवतितमोऽध्यायः ॥ 94 ॥
12-94-2 नातिदृढे अनतिदृढे ॥ 12-94-4 दण्डेन सैन्येन ॥ 12-94-24 कृत्यशेषेण परकृत्यं कार्स्त्न्येन न समापयेत् । समापिते तु परोऽवमन्यते स्वस्य च तापो भवतीत्यर्थः ॥ 12-94-26 नृपो वसुमनाः ॥