अध्यायः 091
भीष्मेण युधिष्ठिरम् प्रति उचथ्यमान्धातृसंवादानुवादः ॥ 1 ॥
उचथ्य उवाच 001
कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः । 001a
सम्पद्यदेषा भवति सा बिभर्ति सुखं प्रजाः ॥ 001c
यो न जानाति निर्हर्तुं वस्त्राणां रजको मलम् । 002a
रत्नानि वा शोधयितुं यथा नास्ति तथैव सः ॥ 002c
एवमेतद्द्विजेन्द्राणां क्षत्रियाणां विशां तथा । 003a
शूद्रश्चतुर्थो वर्णानां नानाकर्मस्ववस्थितः ॥ 003c
कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि । 004a
ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु ॥ 004c
तेषां यः क्षत्रियो वेद पात्राणामिव शोधनम् । 005a
शीलदोषान्विनिर्हर्तुं स पिता स प्रजापतिः ॥ 005c
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ । 006a
राजवृत्तानि सर्वाणि राजैव युगमुच्यते ॥ 006c
चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च । 007a
सर्वमेतत्प्रमुह्येत यदा राजा प्रमाद्यति ॥ 007c
अग्नित्रेता त्रयी विद्या यज्ञाश्च सहदक्षिणाः । 008a
सर्व एव प्रमुह्यन्ते यदा राजा प्रमाद्यति ॥ 008c
राजैव कर्ता भूतानां राजैव च विनाशकः । 009a
धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः ॥ 009c
राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा । 010a
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति ॥ 010c
हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः । 011a
अधर्मवृत्ते नृपतौ सर्वे सीदन्ति जन्तवः ॥ 011c
[दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते । 012a
अबलं तु महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् ॥ 012c
यश्च भूतं सम्भजते ये च भूतास्तदन्वयाः । 013a
अधर्मस्थे हि नृपतौ सर्वे शोचन्ति पार्थिव ॥] 013c
दुर्बलस्य च यच्चक्षुर्मुनेराशीविषस्य च । 014a
अविषह्यतमं मन्ये मा स्म दुर्बलमासदः ॥ 014c
दुर्बलांस्तात मन्येथा नित्यमेवाविमानितान् । 015a
मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम् ॥ 015c
न हि दुर्बलदग्धस्य कुले किञ्चित्प्ररोहति । 016a
आमूलं निर्दहन्त्येव मा स्म दुर्बलमासद ॥ 016c
अबलं वै बलाच्छ्रेयो यच्चातिबलवद्बलम् । 017a
बलस्याबलदग्धस्य न किञ्चिदवशिष्यते ॥ 017c
विमानितो हतः क्लिष्टस्त्रातारं चेन्न विन्दति । 018a
अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम् ॥ 018c
मा स्म तात बलस्थस्त्वं भुञ्जीथा दुर्बलं जनम् । 019a
मा त्वां दुर्बलचक्षूंषि दहन्त्वग्निरिवाशयम् ॥ 019c
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम् । 020a
तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशंसिनाम् ॥ 020c
यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु । 021a
न हि पापं कृतं कर्म सद्यः फलति गौरिव ॥ 021c
यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति । 022a
महान्दैवकृतस्तत्र दण्डः पतति दारुणः ॥ 022c
युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव । 023a
अभीक्ष्णं भिक्षुरूपेण राजानं घ्नन्ति तादृशाः ॥ 023c
राज्ञो यदा जनपदे बहवो राजपूरुषाः । 024a
अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत् ॥ 024c
यदा युक्त्या नयेदर्थान्कामादर्थवशेन वा । 025a
कृपणं याचमानानां तद्राज्ञो वैशसं महत् ॥ 025c
महान्वृक्षो जायते वर्धते च तं चैव भूतानि समाश्रयन्ति । 026a
यदा वृक्षश्छिद्यते दह्यते च तदाश्रया अनिकेता भवन्ति ॥ 026c
यदा राष्ट्रे धर्ममग्र्यं चरन्ति संस्कारं वा राजगुणं ब्रुवाणाः । 027a
तैश्चाधर्मश्चरितो धर्ममोहात्तूर्णं जह्यात्सुकृतं दुष्कृतं च ॥ 027c
यत्र पापा ज्ञायमानाश्चरन्ति सभां कलिर्विन्दते तत्र राज्ञः । 028a
यत्र राजा शास्ति नरान्न शक्त्या न तद्राज्यं वर्धते भूमिपस्य ॥ 028c
यश्चामात्यान्मानयित्वा यथा हि मन्त्रे च युद्धे च नृपोऽनुयुञ्ज्यात् । 029a
विवर्धते तस्य राष्ट्रं नृपस्य भुङ्क्ते महीं चाप्यखिलां चिराय ॥ 029c
अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् । 030a
समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम् ॥ 030c
संविभज्य यदा भुङ्क्ते नचान्यानवमन्यते । 031a
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते ॥ 031c
त्रायते हि यदा सर्वं वाचा कायेन कर्मणा । 032a
पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते ॥ 032c
संविभज्य यदा भुङ्क्ते नृपतिर्दुर्बलान्नरान् । 033a
तदा भवन्ति बलिनः स राज्ञो धर्म उच्यते ॥ 033c
यदा रक्षति राष्ट्राणि यदा दस्यूनपोहति । 034a
यदा जयति सङ्ग्रामे स राज्ञो धर्म उच्यते ॥ 034c
पापमाचरतो यत्र कर्मणा व्याहृतेन वा । 035a
प्रियस्यापि न मृष्येत स राज्ञो धर्म उच्यते ॥ 035c
यदा सारणिकान्राजा पुत्रवत्परिरक्षति । 036a
भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते ॥ 036c
यदाप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयाऽन्वितः । 037a
कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते ॥ 037c
कृपणानाथवृद्धानां यदाऽश्रु परिमार्जति । 038a
हर्षं सञ्जनयन्नॄणां स राज्ञो धर्म उच्यते ॥ 038c
विवर्धयति मित्राणि तथाऽरींश्चापि कर्षति । 039a
सम्पूजयति साधूंश्च स राज्ञो धर्म उच्यते ॥ 039c
सत्यं पालयति प्रीत्या नित्यं भूमिं प्रयच्छति । 040a
पूजयेदतिथीन्भृत्यान्स राज्ञो धर्म उच्यते ॥ 040c
निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ । 041a
अस्मिल्ँलोके परे चैव राजा स प्राप्नुते फलम् ॥ 041c
यमो राजा धार्मिकाणां मान्धातः परमेश्वरः । 042a
संयच्छन्यमवत्प्राणानसंयच्छंस्तु पावकः ॥ 042c
ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमत्य च । 043a
यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते ॥ 043c
यमो यच्छति भूतानि सर्वाण्येवाविशेषतः । 044a
तथा राज्ञाऽनुकर्तव्यं यन्तव्या विधिवत्प्रजाः ॥ 044c
सहस्राक्षेण राजा हि सर्वथैवोपमीयते । 045a
स पश्यति च यं धर्मं स धर्मः पुरुषर्षभ ॥ 045c
अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् । 046a
भूतानां तत्त्वजिज्ञासा साध्वसाधु च सर्वदा ॥ 046c
सङ्ग्रहः सर्वभूतानां दानं च मधुरा च वाक् । 047a
पौरजानपदाश्चैव गोप्तव्याः स्वप्रजा यथा ॥ 047c
न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् । 048a
भारो हि सुमहांस्तात राज्यं नाम सुदुर्वहम् ॥ 048c
तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् । 049a
न हि शक्यमदण्डेन क्लीबेनाबुद्धिनाऽपि वा ॥ 049c
अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः । 050a
सर्वं बुद्ध्या परीक्षेथास्तापसाश्रमिणामपि ॥ 050c
अतस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् । 051a
स्वदेशे परदेशे वा न ते धर्मो विनङ्क्ष्यति ॥ 051c
धर्मे चार्थे च कामे च धर्म एवोत्तरो भवेत् । 052a
अस्मिंल्लोके परे चैव धर्मात्मा सुखमेधते ॥ 052c
त्यजन्ति दारान्पुत्रांश्च मनुष्याः परिपूजिताः । 053a
सङ्ग्रहश्चैव भूतानां दानं च मधुरा च वाक् ॥ 053c
अप्रमादश्च शौचं च राज्ञो भूतिकरं महत् । 054a
एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः ॥ 054c
अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः । 055a
नास्य च्छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ॥ 055c
एतद्वॄत्तं वासवस्य यमस्य वरुणस्य च । 056a
राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय ॥ 056c
तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम् । 057a
आतिष्ठ दिव्यं पन्थानमह्नाय पुरुषर्षभ ॥ 057c
धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत । 058a
देवर्षिपितृगन्धर्वाः कीर्तयन्ति महौजसः ॥ 058c
भीष्म उवाच 059
स एवमुक्तो मान्धाता तेनोचथ्येन भारत । 059a
कृतवानविशङ्कश्च एकः प्राप च मेदिनीम् ॥ 059c
भवानपि तथा सम्यङ्मान्धातेव महीपते । 060a
धर्मं कृत्वा महीं रक्ष स्वर्गे स्थानमवाप्स्यसि ॥ 060c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकनवतितमोऽध्यायः ॥ 91 ॥
12-91-3 द्विजादीनां मध्ये यः कश्चिच्छूद्रो वा नानाकर्मस्ववस्थितः स्वकर्मच्युतो मूढः एवं रजकतुल्य इत्यर्थः ॥ 12-91-8 अग्नित्रेता वह्नित्रयम् ॥ 12-91-12 अबलस्य पालनान्महत्पुण्यमपालनाच्च महत्पापमित्यर्थः । 12-91-13 भूतं दुर्बलं सम्भजतेऽन्नादिना सेवते । तदन्वयाः दातृसम्बन्धिनः ॥ 12-91-21 यदि आत्मनि फलं पापं न फलति तर्हि पुत्रादिषु फलति नतु सद्यः फलतीत्यर्थः ॥ 12-91-22 मोहाद्दैवकृत इति ड. थ. पाठः ॥ 12-91-25 नयेत् अपहरेत् ॥ 12-91-27 महानिति दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह यदेति । यदा धर्मं चरति तदा राजा वर्धत इति भावः । दुष्कृतं चापयातीत्यर्थः । राजपुत्रं ब्रुवाणा इति ट. ड. थ. पाठः ॥ 12-91-28 यदा राजा शास्ति नरानशिष्टांस्तदा राज्यं वर्धते भूमिपस्येति झ. पाठः ॥ 12-91-31 नामात्यानवमन्यत इति झ. पाठः ॥ 12-91-33 संविभज्य यदा भुङ्क्ते नृपतिर्यदि पार्थिव । दुर्बलानां बलं चैवेति ट. ड. छ. पाठः ॥ 12-91-36 सारणिकान् प्रसारिणीप्रधानान्वणिजः ॥ 12-91-42 धार्मिकाणां परमेश्वरोऽनुग्राहकः । प्राणान् इन्द्रियाणि संयच्छन् भवेत् । अनियच्छंस्तु पावकः स्वाश्रयदाही भवतीत्यर्थः ॥ 12-91-50 अभिरूपैरमात्यैः सहेति शेषः ॥ 12-91-54 प्रमादिथाः प्रमाद्येथाः ॥