अध्यायः 090

भीष्मेण युधिष्ठिरम् प्रति उचथ्यमान्धातृसंवादानुवादः ॥ 1 ॥ भीष्म उवाच 001
यानङ्गिराः क्षत्रधर्मानुचथ्यो ब्रह्मवित्तमः । 001a
मान्धात्रे यौवनाश्चाय प्रीतिमानभ्यभाषत ॥ 001c
स यथाऽनुशशासैनमुचथ्यो ब्रह्मवित्तमः । 002a
तत्तेऽहं सम्प्रवक्ष्यामि निखिलेन युधिष्ठिर ॥ 002c
उचथ्य उवाच 003
धर्माय राजा भवति न कामकरणाय तु । 003a
मान्धातरभिजानीहि राजा लोकस्य रक्षिता ॥ 003c
राजा चरति चेद्धर्मं देवत्वायैव कल्पते । 004a
स चेदधर्मं चरति नरकायैव गच्छति ॥ 004c
धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति । 005a
तं राजा साधु यः शास्ति स राजा श्रियमश्नुते ॥ 005c
राजापराधान्मान्धातर्लक्ष्मीवान्पाप उच्यते । 006a
देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते ॥ 006c
अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते । 007a
तदेव मङ्गलं लोकः सर्वः समनुवर्तते ॥ 007c
उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् । 008a
भयमाहुर्दिवारात्रं यदा पापो न वार्यते ॥ 008c
इदं मम इदं नेति साधूनां तात धर्मतः । 009a
न वै व्यवस्था भवति यदा पापो न वार्यते ॥ 009c
नैव भार्या न पशवो न क्षेत्रं न निवेशनम् । 010a
सन्दृश्येत मनुष्याणां यदा पापबलं भवेत् ॥ 010c
देवाः पूजां न जानन्ति न स्वधां पितरस्तदा । 011a
न पूज्यन्ते ह्यतिथयो यदा पापो न वार्यते ॥ 011c
न वेदानधिगच्छन्ति व्रतवन्तो द्विजातयः । 012a
न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते ॥ 012c
वध्यानामिव सत्वानां मनो भवति विह्वलम् । 013a
मनुष्याणां महाराज यदा पापो न वार्यते ॥ 013c
उभौ लोकावभिप्रेक्ष्य राजानमसृजंस्तथा । 014a
मुनयोऽथ महद्भूतमयं धर्मो भविष्यति ॥ 014c
यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते । 015a
यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः ॥ 015c
वृषो हि भगवान्धर्मो यस्तस्य कुरुते लयम् । 016a
वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥ 016c
धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा । 017a
तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं विवर्धयेत् ॥ 017c
धनानि स्रौति धर्मो हि धारणाद्वेति निश्चयः । 018a
मानवानां मनुष्येन्द्र स सीमान्तकरः स्मृतः ॥ 018c
प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयम्भुवा । 019a
तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात् ॥ 019c
तस्माद्धि राजशार्दूल धर्मः श्रेष्ठतरः स्मृतः । 020a
स राजा यः प्रजाः शास्ति साधुकृत्पुरुषर्षभ ॥ 020c
कामक्रोधावनादृत्य धर्ममेवानुपालयेत् । 021a
धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम ॥ 021c
धर्मस्य ब्राह्मणो योनिस्तस्मात्तान्पूजयेत्सदा । 022a
ब्राह्मणानां च मान्धातः कुर्यात्कामानमत्सरी ॥ 022c
तेषां ह्यकामकरणाद्राज्ञः सञ्जायते भयम् । 023a
मित्राणि न च वर्धन्ते तथाऽमित्रीभवन्त्यपि ॥ 023c
ब्राह्मणानां सदासूयन्बाल्याद्वैरोचनिर्बलिः । 024a
अथास्माच्छ्रीरपाक्रामद्याऽस्मिन्नासीत्प्रतापिनी ॥ 024c
ततस्तस्मादपाक्रम्य साऽगच्छत्पाकशासनम् । 025a
अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरन्दरे ॥ 025c
एतत्फलमसूयाया अभिमानस्य चाभिभो । 026a
तस्माद्बुध्यस्व मान्धातर्मा त्वां जह्यात्प्रतापिनी ॥ 026c
दर्पोनाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः । 027a
तेन देवासुरा राजन्नीताः सुबहवोऽव्ययम् ॥ 027c
राजर्षयश्च बहवस्तथा बुध्यस्व पार्थिव । 028a
राजा भवति तं जित्वा दासस्तेन पराजितः ॥ 028c
स यथा दर्पसहितमधर्मं नानुसेवते । 029a
तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि ॥ 029c
मत्तात्प्रमत्तात्पौगण्डादुन्मत्ताच्च विशेषतः । 030a
निन्दिताच्चासदाचाराद्दुर्हृदां चापि सेवनात् ॥ 030c
निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः । 031a
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् ॥ 031c
एतेभ्योऽनित्ययुक्तः स्यान्नक्तं चर्यां च वर्जयेत् । 032a
अत्याशां चाभिमानं च दम्भं क्रोधं च वर्जयेत् ॥ 032c
अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च । 033a
परभार्यासु कन्यासु नाचरेन्मैथुनं नृप ॥ 033c
कुलेषु पापरक्षांसि जायन्ते वर्णसङ्करात् । 034a
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः ॥ 034c
एते चान्ये च जायन्ते यदा राजा प्रमाद्यति । 035a
तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते ॥ 035c
क्षत्रियस्य प्रमत्तस्य दोषः सञ्जायते महान् । 036a
अधर्माः सम्प्रवर्धन्ते प्रजासङ्करकारकाः ॥ 036c
अशीते विद्यते शीतं शीते शीतं न विद्यते । 037a
अवृष्टिरतिवृष्टिश्च व्याधिश्चाप्याविशेत्प्रजाः ॥ 037c
नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथागते । 038a
उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः ॥ 038c
अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति । 039a
प्रजाश्च तस्य क्षीयन्ते ततः सोऽनु विनश्यति ॥ 039c
द्वावाददाते ह्येकस्य द्वयोः सुबहवोऽपरे । 040a
कुमार्यः सम्प्रलुप्यन्ते तदाहुर्नृपदूषणम् ॥ 040c
ममैतदिति नैतच्च मनुष्येष्ववतिष्ठति । 041a
त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति ॥ 041c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि नवतितमोऽध्यायः ॥ 90 ॥

12-90-1 अङ्गिराः आङ्गिरसः ॥ 12-90-12 न भार्यामधिगच्छन्तीति झ. पाठः ॥ 12-90-15 धर्मो धर्मपालः ॥ 12-90-16 कुरुते ह्यलमिति झ. पाठः । तत्र अलं वारणमित्यर्थः । तेन वृषं लुनाति च्छिनत्तीति वृषल इति योगो दर्शितः ॥ 12-90-18 धर्मपदस्य द्वेधा व्युत्पत्तिमाह धनानीति । धारणाद्वा धर्मः । सीमान्तकरः यावत्पापं तावद्यातनाकर इत्यर्थः ॥ 12-90-28 तं दर्पम् ॥ 12-90-30 पौगण्डाद्बालकादज्ञादित्यर्थः । कदभ्याशादुदावर्ताद्दुर्हृदां चापीति ट. पाठः ॥ 12-90-32 अनित्ययुक्तः स्यात् नित्यमयुक्तः स्यादित्यर्थः । एकचर्यां च वर्जयेदिति द. पाठः ॥ 12-90-34 अपुमांसः क्लीबाः । स्थूलजिह्वा मूकाः ॥ 12-90-38 नक्षत्राणि धूमकेत्वादयः ॥ 12-90-40 एकस्य धनं द्वावाददाते आच्छिद्य गृह्णीतः ॥