अध्यायः 089

युधिष्ठिरम् प्रति राजनीतिकथनम् ॥ 1 ॥ भीष्म उवाच 001
वनस्पतीन्भक्ष्यफलान्न च्छिन्द्युर्विषये तव । 001a
ब्राह्मणानां मूलफलं धर्ममाहुर्मनीषिणः ॥ 001c
ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरन्नितरे जनाः । 002a
न ब्राह्मणोपरोधेन हरेदन्यः कथञ्चन ॥ 002c
विप्रश्चेत्त्यागमातिष्ठेदाख्याया वृत्तिकर्शितः । 003a
परिकल्प्यास्य वृत्तिः स्यात्सदारस्य नराधिप ॥ 003c
स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि । 004a
कस्मिन्निदानीं मर्यादामयं लोकः करिष्यति ॥ 004c
असंशयं निवर्तेत न चेत्त्यक्ष्यत्यतः परम् । 005a
पूर्वं परोक्षं वक्तव्यमेतत्कौन्तेय शाश्वतम् ॥ 005c
आहुरेतज्जना ब्रह्मन्न चैतच्छ्रद्दधाम्यहम् । 006a
निमन्त्र्यश्च भवेद्भोगैरवृत्त्या च तदा चरेत् ॥ 006c
कृषिगोरक्ष्यवाणिज्यं लोकानामिह जीवनम् । 007a
ऊर्ध्वं चैव त्रयी विद्या सा भूतान्भावयत्युत ॥ 007c
तस्यां प्रपतमानायां ये स्युस्तत्परिपन्थिनः । 008a
दस्यवस्तद्वधायेह ब्रह्मा क्षत्रमथासृजत् ॥ 008c
शत्रूञ्जय प्रजा रक्ष यजस्व क्रतुभिर्नृप । 009a
युध्यस्व समरे वीरो भूत्वा कौरवनन्दन ॥ 009c
संरक्ष्यान्रक्षते राजा स राजा राजसत्तमः । 010a
ये केचित्तान्न रक्षन्ति तैरर्थो नास्ति कश्चन ॥ 010c
सदैव राज्ञा योद्धव्यं सर्वलोकाद्युधिष्ठिर । 011a
तस्माद्धेतोर्हि भुञ्जीत मनुष्यानेव मानवः ॥ 011c
आन्तरेभ्यः परान्रक्षन्परेभ्यः पुनरान्तरान् । 012a
परान्परेभ्यः स्वान्स्वेभ्यः सर्वान्पालय नित्यदा ॥ 012c
आत्मानं सर्वतो रक्षन्राजन्रक्षस्व मेदिनीम् । 013a
आत्ममूलमिदं सर्वमाहुर्वै विदुषो जनाः ॥ 013c
किं छिद्रं कोनु सङ्गो मे किंवाऽस्त्यविनिपातितम् । 014a
कुतो मामाश्रयेद्दोष इति नित्यं विचिन्तयेत् ॥ 014c
अतीतदिवसे वृत्तं प्रशंसन्ति न वा पुनः । 015a
गुप्तैश्चारैरनुमतैः पृथिवीमनुसारयेत् ॥ 015c
जानीत यदि मे वृत्तं प्रशंसन्ति न वा पुनः । 016a
कच्चिद्रोचेज्जनपदे कच्चिद्राष्ट्रे च मे यशः ॥ 016c
धर्मज्ञानां धृतिमतां सङ्ग्रामेष्वपलायिनाम् । 017a
राष्ट्रे तु येऽनुजीवन्ति ये तु राज्ञोऽनुजीविनः ॥ 017c
अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः । 018a
ये च त्वाऽभिप्रशंसेयुर्निन्देयुरथवा पुनः ॥ 018c
सर्वान्सुपरिणीतांस्तान्कारयेथा युधिष्ठिर । 019a
एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम् । 019c
मित्रामित्रमथो मध्यं सर्वभूतेषु भारत ॥ 019e
युधिष्ठिर उवाच 020
तुल्यबाहुबलानां च तुल्यानां च गुणैरपि । 020a
कथं स्यादधिकः कश्चित्स च भुञ्जीत मानवान् ॥ 020c
भीष्म उवाच 021
यच्चरा ह्यचरानद्युरदंष्ट्रान्दंष्ट्रिणस्तथा । 021a
आशीविषा इव क्रुद्धा भुजङ्गान्भुजगा इव ॥ 021c
एतेभ्यश्चाप्रमत्तः स्यात्सदा शत्रोर्युधिष्ठिर । 022a
भारुण्डसदृशा ह्येते निपतन्ति प्रमादतः ॥ 022c
कच्चित्ते वणिजो राष्ट्रे नोद्विजन्ति करार्दिताः । 023a
क्रीणन्तो बहुनाऽल्पेन कान्तारकृतविश्रमाः ॥ 023c
कच्चित्कृषिकरा राष्ट्रं न जहत्यतिपीडिताः । 024a
ये वहन्ति धुरं राज्ञां ते भरन्तीतरानपि ॥ 024c
'आलस्येन हृतः पादः पादः पाषण्डमाश्रितः । 025a
राजानं सेवते पादः पादः कृषिमुपाश्रितः ॥ 025c
एकपादं त्रयः पादा भक्षयन्ति दिनेदिने । 026a
तस्मात्सर्वप्रयत्नेन पादं रक्ष युधिष्ठिर ॥' 026c
इतो दत्तेन जीवन्ति देवाः पितृगणास्तथा । 027a
मानुषोरगरक्षांसि वयांसि पशवस्तथा ॥ 027c
एषा ते राष्ट्रवृत्तिश्च राज्ञां गुप्तिश्च भारत । 028a
प्रोक्तोद्दिश्यैतमेवार्थं भूयो वक्ष्यामि पाण्डव ॥ 028c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोननवतितमोऽध्यायः ॥ 89 ॥

12-89-1 मूलफलं ब्राह्मणानां स्वमिति धर्ममाहुरतो न च्छिन्द्युः ॥ 12-89-3 त्यागं राष्ट्रस्य ॥ 12-89-6 भोगार्थी चेद्राष्ट्रं त्यजति तदा भोगैरपि निमन्त्र्यः । अवृत्त्या चेत्तदावृत्त्यापि निमन्त्र्य इत्याह आहुरिति ॥ 12-89-7 ऊर्ध्वं स्वर्गम् ॥ 12-89-11 लोकात् लोकहितार्थं योद्धव्यम् । मनुष्यांश्चारानिति चार्थः ॥ 12-89-13 विदुषो विद्वांसः ॥ 12-89-14 सङ्गो व्यसनस्येति शेषः ॥ 12-89-19 सुपरिणीतान् सत्कृतान् 12-89-21 बलवानेव दुर्बलं भुञ्जीत तुल्यात्तु आत्मानं रक्षेच्छलेन च तं भुञ्जीतेत्युत्तरमाह यदित्यादिना ॥ 12-89-22 भारुण्डः गृध्रः ॥