अध्यायः 088
भीष्मेण युधिष्ठिरम् प्रति प्रजाभ्यः करग्रहणादिप्रकारकथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते । 001a
कथं प्रवर्तेत करस्तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
यथादेशं यथाकालं यथाबुद्धि यथाबलम् । 002a
अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः ॥ 002c
यथा तासां च मन्येत श्रेय आत्मन एव च । 003a
तथा धर्माणि सर्वाणि राजा राष्ट्रेषु वर्तयेत् ॥ 003c
मधुदोहं दुहेद्राष्ट्रं भ्रमरान्न प्रपातयेत् । 004a
वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत् ॥ 004c
जलौकावत्पिबेद्राष्ट्रं मृदुनैव नराधिपः । 005a
व्याघ्रीव च हरेत्पुत्रान्सन्दशेन्न च पीडयेत् ॥ 005c
यथा शल्यकवानाखुः पदं धूनयते सदा । 006a
अतीक्ष्णेनाभ्युपायेन तथा राष्ट्रं समापिबेत् ॥ 006c
अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत् । 007a
ततो भूयस्ततो भूयः क्रमवृद्धिं समाचरेत् ॥ 007c
दमयन्निव दम्यानि शश्वद्भारं विवर्धयेत् । 008a
मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत् ॥ 008c
सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाः । 009a
उचितेनैव भोक्तव्यास्ते भविष्यन्त्ययत्नतः ॥ 009c
तस्मात्सर्वसमारम्भो दुर्लभः पुरुषं प्रति । 010a
यथा मुख्यान्सान्त्वयित्वा भोक्तव्या इतरे जनाः ॥ 010c
ततस्तान्भेदयित्वा तु परस्परविवक्षितान् । 011a
भुञ्जीत सान्त्वयंश्चैव यथासुखमयत्नतः ॥ 011c
न चास्थाने न चाकाले करांस्तेभ्यो निपातयेत् । 012a
आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि ॥ 012c
उपायान्प्रब्रवीम्येतान्न मे माया विवक्षिता । 013a
अनुपायेन दमयन्प्रकोपयति वाजिनः ॥ 013c
पानागारनिवेशाश्च वेश्याः प्रापणिकास्तथा । 014a
कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः ॥ 014c
नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः । 015a
एते राष्ट्रेऽभितिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः ॥ 015c
न केनचिद्याचितव्यः कश्चित्किञ्चिदनापदि । 016a
इति व्यवस्था भूतानां पुरस्तान्मनुना कृता ॥ 016c
सर्वे तथाऽनुजीवेयुर्न कुर्युः कर्म चेदिह । 017a
सर्व एव इमे लोका न भवेयुरसंशयम् ॥ 017c
प्रभुर्नियमने राजा य एतान्न नियच्छति । 018a
भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः ॥ 018c
भोक्ता तस्य तु पापस्य सुकृतस्य यथातथा । 019a
नियन्तव्याः सदा राज्ञा पापा ये स्युर्नराधिप ॥ 019c
कृतपापस्त्वसौ राजा य एतान्न नियच्छति । 020a
तथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते । 020c
स्थानान्येतानि संयम्य प्रसङ्गो भूतिनाशनः । 021a
कामे प्रसक्तः पुरुषः किमकार्यं विवर्जयेत् ॥ 021c
मद्यमांसपरस्वानि तथा दारधनानि च । 022a
आहरेद्रागवशगस्तथा शास्त्रं प्रदर्शयेत् ॥ 022c
आपद्येव तु याचन्ते येषां नास्ति परिग्रहः । 023a
दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्भयान्न तु ॥ 023c
मा ते राष्ट्रे याचनका भवेयुर्मा च दस्यवः । 024a
उपादातार एवैते नैते भूतस्य भावकाः ॥ 024c
ये भूतान्यनुगृह्णन्ति वर्धयन्ति च ये प्रजाः । 025a
तेते राष्ट्रेषु वर्तन्तां मा भूतानां प्रबाधकाः ॥ 025c
दण्ड्यास्ते च महाराज धनादानप्रयोजकाः । 026a
प्रयोगं कारयेथास्ते यथा दद्युः करांस्तथा ॥ 026c
कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किञ्चिदीदृशम् । 027a
पुरुषैः कारयेत्कर्म बहुभिः कर्मभेदतः ॥ 027c
नरश्चेत्कृषिगोरक्ष्यं वाणिज्यं चाप्यनुष्ठितः । 028a
संशयं लभते किञ्चित्तेन राजा विगर्ह्यते ॥ 028c
धनिनः पूजयेन्नित्यं पानाच्छादनभोजनैः । 029a
वक्तव्याश्चानुगृह्णीध्वं प्रजाः सह मयेति वै ॥ 029c
अङ्गमेतन्महद्राज्ये धनिनो नाम भारत । 030a
ककुदं सर्वभूतानां धनस्थो नात्र संशयः ॥ 030c
प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव च । 031a
तपस्वी सत्यवादी च बुद्धिमांश्चापि रक्षति ॥ 031c
तस्मात्सर्वेषु भूतेषु प्रीतिमान्भव पार्थिव । 032a
सत्यमार्जवमक्रोधमानृशंस्यं च पालय ॥ 032c
एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसि । 033a
सत्यार्जवपरो राजन्मित्रकोशबलान्वितः ॥ 033c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टाशीतितमोऽध्यायः ॥ 88 ॥
12-88-4 भ्रमरा इव पादपमिति झ. पाठः ॥ 12-88-6 शल्यकवांस्तीक्ष्णतुण्ड आखुविशेषः । सहि निद्रितस्य मनुष्यस्य पादतलस्थं मांसमतीक्ष्णेनैवोपायेन भक्षयति । यथा विलेखकः कर्णमाखुः पादत्वचं यथेति ड. थ. पाठः ॥ 12-88-8 दम्यानि वत्सतरकुलानि यथा क्रमेण दमयेत्तद्वत्प्रजा अपीत्याह दमयन्निवेति । अभ्यवहारयेद्वाहयेत् ॥ 12-88-9 सकृत्सद्यः पाशावकीर्णाः सन्तो नभविष्यन्ति मरिष्यन्ति । यतो दुर्दमा अत उचितेन क्रमेण ते भोक्तव्या दम्याः प्रजाश्च । असत्पाशावकीर्णास्ते भविष्यन्तीह दुर्मदाः । इति ड. थ. पाठः ॥ 12-88-10 पुरुषं प्रतीत्यस्य प्रतिपुरुषमित्यर्थः ॥ 12-88-11 ततो मुख्यद्वारा तानितरान् विवक्षितान्वोढुमिष्टान् । ततस्तान्भोजयित्वाथ परस्परविवर्जितान् । इति थ. द. पाठः ॥ 12-88-14 मद्यशालाः सन्देशहराः कुट्टन्यः । कुत्सितेन शीलेन वान्ति गच्छन्ति धर्मं हिंसन्ति वा कुशीलवा विटाः । कितवा द्यूतकाराश्च निग्राह्या इत्याह पानेति ॥ 12-88-15 भद्रिकाः कल्याणः ॥ 12-88-16 याचितव्यः दत्तमृणं करं वेति शेषः ॥ 12-88-17 अनुजीवेयुरनुसरेयुः । अन्यथा दोषमाह नेति ॥ 12-88-20 तथा तथाभूतः नियच्छन्नित्यर्थः ॥ 12-88-21 स्थानानि मद्यादीनाम् ॥ 12-88-22 शास्त्रमाज्ञां प्रदर्शयेत्प्रवर्तयेत् ॥ 12-88-28 संशयं चोरेभ्यो राजकीयेभ्यो वा भयात् ॥