अध्यायः 087
भीष्मेण युधिष्ठिरम् प्रति राष्ट्रगुप्तिप्रकारादिकथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
राष्ट्रगुप्तिं च मे राजन्राष्ट्रस्यैव तु सङ्ग्रहम् । 001a
सम्यग्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥ 001c
भीष्म उवाच 002
राष्ट्रगुप्तिं च ते सम्यग्राष्ट्रस्यैव तु सङ्ग्रहम् । 002a
हन्त सर्वं प्रवक्ष्यामि तत्त्वमेकमनाः शृणु ॥ 002c
ग्रामस्याधिपतिः कार्यो दशग्रामपतिस्तथा । 003a
विंशतित्रिंशतीशं च सहस्रस्य च कारयेत् ॥ 003c
ग्रामेयान्ग्रामदोषांश्च ग्रामिकः प्रतिभावयेत् । 004a
तानाचक्षीत दशिने दशिको विंशिने पुनः ॥ 004c
विंशाधिपस्तु तत्सर्वं वृत्तं जानपदे जने । 005a
ग्रामाणां शतपालाय सर्वमेव निवेदयेत् ॥ 005c
यानि ग्राम्याणि भोज्यानि ग्रामिकस्तान्युपाश्नियात् । 006a
दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः ॥ 006c
ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः । 007a
महान्तं भरतश्रेष्ठ सुस्फीतं जनसङ्कुलम् । 007c
तत्र ह्यनेकपायत्तं राज्ञो भवति भारत ॥ 007e
शाखानगरमर्हस्तु सहस्रपतिरुत्तमः । 008a
धान्यहैरण्यभोगेन भोक्तुं राष्ट्रीयसङ्गतः ॥ 008c
तेषां सङ्ग्रामकृत्यं स्याद्ग्रामकृत्यं च तेषु यत् । 009a
धर्मज्ञः सचिवः कश्चित्तत्तत्पश्येदतन्द्रितः ॥ 009c
नगरेनगरे वा स्यादेकः सर्वार्थचिन्तकः । 010a
उच्चैः स्थाने घोररूपो नक्षत्राणामिव ग्रहः ॥ 010c
भवेत्स तान्परिक्रामेत्सर्वानेव सभासदः । 011a
तेषां वृत्तिं परिणयेत्कश्चिद्राष्ट्रेषु तच्चरः ॥ 011c
जिघांसवः पापकामाः परस्वादायिनः शठाः । 012a
रक्षाभ्यधिकृता नाम तेभ्यो रक्षेदिमाः प्रजाः ॥ 012c
विक्रयं क्रयमध्वानं भक्तं च सपरिव्ययम् । 013a
योगक्षेमं च सम्प्रेक्ष्य वणिजां कारयेत्करान् ॥ 013c
उत्पत्तिं दानवृत्तिं च शिल्पं सम्प्रेक्ष्य चासकृत् । 014a
शिल्पं प्रति करानेवं शिल्पिनः प्रति कारयेत् ॥ 014c
उच्चावचकरन्यायाः पूर्वराज्ञां युधिष्ठिर । 015a
यथायथा न सीदेरंस्तथा कुर्यान्महीपतिः ॥ 015c
फलं कर्म च सम्प्रेक्ष्य ततः सर्वं प्रकल्पयेत् । 016a
फलं कर्म च निर्हेतु न कश्चित्सम्प्रवर्तते ॥ 016c
यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ । 017a
संवेक्ष्य तु तथा राज्ञा प्रणेयाः सततं कराः ॥ 017c
नोच्छिद्यादात्मनो मूलं परेषां चापि तृष्णया । 018a
ईहाद्वाराणि संरुध्य राजा संवृतदर्शनः ॥ 018c
प्रद्विषन्ति परिख्यातं राजानमतिखादिनम् । 019a
प्रद्विष्टस्य कुतः श्रेयो संवृतो लभते श्रियम् ॥ 019c
वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणबुद्धिना । 020a
भृतो वत्सो जातबलः पीडां सहति भारत ॥ 020c
न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर । 021a
राष्ट्रमप्यतिदुग्धं हि न कर्म कुरुते महत् ॥ 021c
यो राष्ट्रमनुगृह्णाति परिरक्षन्स्वयं नृपः । 022a
सञ्जातमुपजीवन्स लभते सुमहत्फलम् ॥ 022c
आपदर्थं च निचयान्राजानो हि चिचिन्वते । 023a
राष्ट्रं च कोशभूतं स्यात्कोशो वेश्मगतस्तथा ॥ 023c
पौरजानपदान्सर्वान्संश्रितोपाश्रितांस्तथा । 024a
यथाशक्त्यनुकम्पेत सर्वान्स्वल्पधनानपि ॥ 024c
बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम् । 025a
एवं नास्य प्रकुप्यन्ति जनाः सुखितदुःखिताः ॥ 025c
प्रागेव तु धनादानमनुभाष्य ततः पुनः । 026a
सन्निपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत् ॥ 026c
इयमापत्समुत्पन्ना परचक्रभयं महत् । 027a
अपि चान्ताय कल्पन्ते वेणोरिव फलागमाः ॥ 027c
अरयो मे समुत्थाय बहुभिर्दस्युभिः सह । 028a
इदमात्मवधायैव राष्ट्रमिच्छन्ति बाधितुम् । 028c
अस्यामापदि घोरायां सम्प्राप्ते दारुणे भये । 029a
परित्राणाय भवतः प्रार्थयिष्ये धनानि वः ॥ 029c
प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये । 030a
नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः ॥ 030c
कलत्रमादितः कृत्वा सर्वं वो विनशेदिति । 031a
शरीरपुत्रदारार्थमर्थसञ्चय इष्यते ॥ 031c
नन्दामि वः प्रभावेण पुत्राणामिव चोदये । 032a
यथाशक्त्युपगृह्णामि राष्ट्रस्यापीडया च वः ॥ 032c
आपत्स्वेव निवोढव्यं भवद्भिः सङ्गतैरिह । 033a
न वः प्रियतरं कार्यं धनं कस्याञ्चिदापदि ॥ 033c
इति वाचा मधुरया श्लक्ष्णया सोपचारया । 034a
स्वरश्मीनभ्यवसृजेद्योगमाधाय कालवित् ॥ 034c
प्रचारं भृत्यभरणं व्ययं सङ्ग्रामतो भयम् । 035a
योगक्षेमं च सम्प्रेक्ष्य गोमिनः कारयेत्करम् ॥ 035c
उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः । 036a
तस्मात्तेषु विशेषेण मृदुपूर्वं समाचरेत् ॥ 036c
सान्त्वनं रक्षणं दानमवस्था चाप्यभीक्ष्णशः । 037a
गोमिनां पार्थ कर्तव्यः संविभागः प्रियाणि च ॥ 037c
अजस्रमुपयोक्तव्यं फलं गोमिषु भारत । 038a
प्रभावयन्ति राष्ट्रं च व्यवहारं कृषिं तथा ॥ 038c
तस्माद्गोमिषु यत्नेन प्रीतिं कुर्याद्विचक्षणः । 039a
दयावानप्रमत्तश्च करान्सम्प्रणयन्मृदून् ॥ 039c
सर्वत्र क्षेमचरणं सुलभं नाम गोमिषु । 040a
न ह्यतः सदृशं किञ्चिद्धनमस्ति युधिष्ठिर ॥ 040c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्ताशीतितमोऽध्यायः ॥ 87 ॥
12-87-3 दशग्राम्यास्तथा परः । द्विगुणायाः शतस्यैवमिति झ. पाठः ॥ 12-87-13 कारयेत् दापयेत् ॥ 12-87-16 फलं धान्यधनवृद्ध्यादि । वृद्ध्यनुरूपः करः कल्प्य इत्यर्थः ॥ 12-87-18 आत्मनो मूलं राष्ट्रम् । परेषां मूलं कृष्यादि । ईहा लोभः ॥ 12-87-19 अतिखादिनं बहुभक्षम् ॥ 12-87-24 संश्रिताः साक्षादाश्रिताः । उपाश्रिताः व्यवहिताः ॥ 12-87-25 आटवीको दस्युसङ्घो बाह्यजनस्तं यूयमुपतिष्ठध्वमिति भेदयित्वा मध्यमो ग्रामीणजनो भोक्तव्यस्ततो बहुलं धनमादद्यादित्यर्थः ॥ 12-87-26 तत्र प्रकारमाह प्रागिति । चोरनिग्रहार्थं कटकबन्धः कर्तव्यस्तदर्थं धनमपेक्षितमिति पूर्वमेव आभाष्य सूचनां कृत्वा ततः सन्निपत्य तेषु तेषु ग्रामेषु गत्वा भयं दर्शयेत् ॥ 12-87-33 आपत्स्वेव च वोढव्यं भवद्भिः पुङ्गवैरिवेति झ. पाठः ॥ 12-87-34 स्वरश्मीन्स्वस्य रश्मिभूतान् अधिकारिणः प्रजासु धनमुद्गुहीतुम् अभ्यवसृजेत्प्रेरयेत् । योगं धनग्रहणोपायम् ॥ 12-87-35 गोमिनः वैश्यान् । सम्प्रेक्ष्य सन्दर्शयित्वा ॥