अध्यायः 086

भीष्मेण युधिष्ठिरम् प्रति पुरलक्षणादिकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
कथंविधं पुरं राजा स्वयमावस्तुमर्हति । 001a
कृतं वा कारयित्वा वा तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
वस्तव्यं यत्र कौन्तेय सपुत्रज्ञातिबन्धुना । 002a
न्याय्यं च परिप्रष्टुं वृत्तिं गुप्तिं च भारत ॥ 002c
तस्मात्ते वर्तयिष्यामि दुर्गकर्म विशेषतः । 003a
श्रुत्वा तथा विधातव्यमनुष्ठेयं च यत्नतः ॥ 003c
षड्विधं दुर्गमास्थाय पुराण्यथ निवेशयेत् । 004a
सर्वसम्पत्प्रधानं च बाहुल्यं चापि सम्भवेत् ॥ 004c
धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च । 005a
मनुष्यदुर्गं मृद्दुर्गं वनदुर्गं च तानि षट् ॥ 005c
यत्पुरं दुर्गसम्पन्नं धान्यायुधसमन्वितम् । 006a
दृढप्राकारपरिखं हस्त्यश्वरथसङ्कुलम् ॥ 006c
विद्वांसः शिल्पिनो यत्र निचयाश्च सुसञ्चिताः । 007a
धार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः ॥ 007c
ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम् । 008a
प्रसिद्धव्यवहारं च प्रशान्तमकुतोभयम् ॥ 008c
सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम् । 009a
शूराढ्यं प्राज्ञसम्पूर्णं ब्रह्मघोषानुनादितम् ॥ 009c
समाजोत्सवसम्पन्नं सदापूजितदैवतम् । 010a
वश्यामात्यबलो राजा तत्पुरं स्वयमाविशेत् ॥ 010c
तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत् । 011a
पुरे जनपदे चैव सर्वदोषान्निवर्तयेत् ॥ 011c
भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत् । 012a
निचयान्वर्धयेत्सर्वांस्तथा यन्त्रकटङ्कटान् ॥ 012c
काष्ठलोहतुषाङ्गारदारुशृङ्गास्थिवैणवान् । 013a
मज्जास्नेहवसाक्षौद्रमौषधग्राममेव च ॥ 013c
शणं सर्जरसं धान्यमायुधानि शरांस्तथा । 014a
चर्म स्नायुं तथा वेत्रं मुञ्जवल्वजदन्ध्वनान् ॥ 014c
आशयाश्चोदपानाश्च प्रभूतसलिलाकराः । 015a
निरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुहाः ॥ 015c
सत्कृताश्च प्रयत्नेन आचार्यर्त्विक्पुरोहिताः । 016a
महेष्वासाः स्थपतयः सांवत्सरचिकित्सकाः ॥ 016c
प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः । 017a
कुलीनाः सत्वसम्पन्ना युक्ताः सर्वेषु कर्मसु ॥ 017c
पूजयेद्धार्मिकान्राजा निगृह्णीयादधार्मिकान् । 018a
नियुञ्ज्याच्च प्रयत्नेन सर्ववर्णान्स्वकर्मसु ॥ 018c
बाह्यमाभ्यन्तरं चैव पौरजानपदं तथा । 019a
चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत् ॥ 019c
चरान्मन्त्रं च कोशं च दण्डं चैव विशेषतः । 020a
अनुतिष्ठेत्स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम् ॥ 020c
उदासीनारिमित्राणां सर्वमेव चिकीर्षितम् । 021a
पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा ॥ 021c
ततस्तेषां विधातव्यं सर्वमेवाप्रमादतः । 022a
भक्तान्पूजयता नित्यं द्विषतश्च निगृह्णता ॥ 022c
यष्टव्यं क्रतुभिर्नित्यं दातव्यं चाप्यपीडया । 023a
प्रजानां रक्षणं कार्यं न कार्यं धर्मबाधकम् ॥ 023c
कृपणानाथवृद्धानां विधवानां च योषिताम् । 024a
योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पयेत् ॥ 024c
आश्रमेषु यथाकालं चैलभाजनभोजनम् । 025a
सदैवोपहरेद्राजा सत्कृयाभ्यर्च्य मान्य च ॥ 025c
आत्मानं सर्वकार्याणि तापसे राष्ट्रमेव च । 026a
निवेदयेत्प्रयत्नेन तिष्ठेत्प्रह्वश्च सर्वदा ॥ 026c
'ते कस्याञ्चिदवस्थायां शरणं शरणार्थिने । 027a
राज्ञे दद्युर्यथाकामं तापसाः शंसितव्रताः ॥' 027c
सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम् । 028a
पूजयेत्तादृशं दृष्ट्वा शयनासनभोजनैः ॥ 028c
तस्मिन्कुर्वीत विश्वासं राजा कस्याञ्चिदापदि । 029a
तापसेषु हि विश्वासमपि कुर्वन्ति दस्यवः ॥ 029c
तस्मिन्निधीनादधीत पुनः प्रत्याददीत च । 030a
न चाप्यभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत् ॥ 030c
अन्यः कार्यः स्वराष्ट्रेषु परराष्ट्रेषु चापरः । 031a
अटवीषु परः कार्यः सामन्तनगरेष्वपि ॥ 031c
तेषु सत्कारमानाभ्यां संविभागांश्च कारयेत् । 032a
परराष्ट्राटवीस्थेषु यथा स्वविषये तथा ॥ 032c
ते कस्याञ्चिदवस्थायां शरणं शरणार्थिने । 033a
राज्ञे दद्युर्यथाकामं तापसाः संशितव्रताः ॥ 033c
एष ते लक्षणोद्देशः सङ्क्षेपेण प्रकीर्तितः । 034a
यादृशे नगरे राजा स्वयमावस्तुमर्हति ॥ 034c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षडशीतिममोऽध्यायः ॥ 86 ॥

12-86-5 धन्वा निर्जलदेशस्तदेव परितश्च दुर्गं धन्वदुर्गम् । महीदुर्गं कोटः ॥ 12-86-9 सानुनादं गीतवादित्रध्वनिमत् ॥ 12-86-12 निचयान् धान्यादिसङ्ग्रहान् । तथा यन्त्रालयायुधान् । इति झ. पाठः ॥ 12-86-14 दन्ध्वनान् ध्वनिमतो निःसाणादीन् । बन्धनानिति पाठान्तरे स्पष्टोऽर्थः ॥ 12-86-15 आशयाः निपानानि । उदपानाः कूपाः । निरोद्धव्या रक्षणीयाः ॥ 12-86-17 प्रज्ञा ग्रन्थार्थग्रहणसामर्थ्यम् । मेधा ऊहापोहकौशलम् ॥ 12-86-20 अनुतिष्ठेदालोचयेत् ॥ 12-86-22 विधातव्यं प्रतिकर्तव्यम् ॥ 12-86-26 तापसे तपस्विजने ॥ 12-86-29 विश्वासं नाधिकुर्वन्ति दस्यव इति ड. थ. पाठः ॥ । 12-86-30 निधीन् धनभाण्डानि । अभीक्ष्णं न सेवेत । दस्यूनां तत्सूचने तपस्विनाशापत्तेः न प्रतिपूजयेच्च ॥ 12-86-31 अन्यस्तापसः कार्यः सखित्वेन सम्पादनीयः ॥ 12-86-32 तेषु तत्तत्स्थानस्थेषु तापसेषु ॥