अध्यायः 084

भीष्मेण युधिष्ठिरम् प्रति इन्द्रबृहस्पतिसंवादानुवादः ॥ 1 ॥ भीष्म उवाच 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 001a
बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर ॥ 001c
शक्र उवाच 002
किंस्विदेकपदं ब्रह्मन्पुरुषः सम्यगाचरन् । 002a
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् ॥ 002c
बृहस्पति उवाच 003
सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन् । 003a
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् ॥ 003c
एतदेकपदं शक्र सर्वलोकसुखावहम् । 004a
आचरन्सर्वभूतेषु प्रियो भवति सर्वदा ॥ 004c
यो हि नाभाषते किञ्चित्सर्वदा भ्रुकुटीमुखः । 005a
द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन् ॥ 005c
यस्तु सर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते । 006a
स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति ॥ 006c
दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम् । 007a
न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम् ॥ 007c
आददन्नपि भूतानां मधुरामीरयन्गिरम् । 008a
सर्वलोकमिमं शक्र सान्त्वेन कुरुते वशे ॥ 008c
तस्मात्सान्त्वं प्रयोक्तव्यं दण्डमाधित्सताऽपि हि । 009a
प्रीतिं च जनयत्येवं न चास्योद्विजते जनः ॥ 009c
सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च । 010a
सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते ॥ 010c
भीष्म उवाच 011
इत्युक्तः कृतवान्सर्वं यथा शक्रः पुरोधसा । 011a
तथा त्वमपि कौन्तेय सम्यगेतत्समाचर ॥ 011c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुरशीतितमोऽध्यायः ॥ 84 ॥

12-84-1 अत्र मन्त्रमूलभूते प्रजासङ्ग्रहणे विषये ॥ 12-84-2 एकपदं यत्र सर्वे गुणाः अन्तर्भवन्ति तदेव कर्तव्यं वस्तु । प्रमाणं सम्मतम् ॥ 12-84-3 सान्त्वं निष्कपटं प्रियवचनम् ॥ 12-84-5 नाभाषते तूष्णीमास्ते । नाचरन् अनाचरन् ॥