अध्यायः 083

भीष्मेण युधिष्ठिरम् प्रति मन्त्र्यादिलक्षणकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
सभासदः सहायाश्च सुहृदश्च विशाम्पते । 001a
परिच्छदास्तथाऽमात्याः कीदृशाः स्युः पितामह ॥ 001c
भीष्म उवाच 002
ह्रीनिषेवास्तथा दान्ताः सत्यार्जवसमन्विताः । 002a
शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः ॥ 002c
अमात्याश्चातिशूराश्च ब्रह्मण्याश्च बहुश्रुताः । 003a
सुसन्तुष्टाश्च कौन्तेय महोत्साहाश्च कर्मसु ॥ 003c
एतान्सहायाल्ँलिप्सेथाः सर्वास्वापत्सु भारत ॥ 004ac
कुलीनः पूजितो नित्यं न हि शक्तिं निगूहति । 005a
प्रसन्नमप्रसन्नं वा पीडितं हतमेव वा । 005c
आवर्तयति भूयिष्ठं तदेव ह्यनुपालितम् ॥ 005e
कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः । 006a
प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः ॥ 006c
दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः । 007a
ते त्वां तात निषेवेयुर्यावदार्द्रकपाणयः ॥ 007c
कुलीनाञ्शीलसम्पन्नानिङ्गितज्ञाननिष्ठुरान् । 008a
देशकालविधानज्ञान्भर्तृकार्यहितैषिणः । 008c
नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः ॥ 008e
अर्थमानार्घसत्कारैर्भोगैरुच्चावचैः प्रियैः । 009a
यानर्थभाजो मन्येथास्तेते स्युः सुखभागिनः ॥ 009c
अभिन्नवृत्ता विद्वांसः सद्वृत्ताश्चरितव्रताः । 010a
न त्वां नित्यार्थिनो जह्युरक्षुद्राः सत्यवादिनः ॥ 010c
अनार्या ये न जानन्ति समयं मन्दचेतसः । 011a
तेभ्यः परिजुगुप्सेथा ये चापि समयच्युताः ॥ 011c
नैकमिच्छेद्गणं हित्वा स्याच्चेदन्यतरग्रहः । 012a
यस्त्वेको बहुभिः श्रेयान्कामं तेन गणं त्यजेत् ॥ 012c
श्रेयसो लक्षणं चैतद्विक्रमो यस्य दृश्यते । 013a
कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति ॥ 013c
समर्थान्पूजयेद्यश्च नास्पर्ध्यैः स्पर्धते च यः । 014a
न च कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत् ॥ 014c
अमानी सत्यवाक्शक्तो जितात्मा मानसंयुतः । 015a
स ते मन्त्रसहायः स्यात्सर्वावस्थापरीक्षितः ॥ 015c
कुलीनः कुलसम्पन्नस्तितिक्षुर्दश आत्मवान् । 016a
शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम् ॥ 016c
तस्यैवं वर्तमानस्य पुरुषस्य विजानतः । 017a
अमित्राः सम्प्रसीदन्ति तथा मित्रीभवन्त्यपि ॥ 017c
अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणम् । 018a
संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः ॥ 018c
सम्बन्धिपुरुषैराप्तैरभिजातैः स्वदेशजैः । 019a
अहार्यैरव्यभीचारैः सर्वशः सुपरीक्षितैः ॥ 019c
यौनाः श्रौतास्तथा मौलास्तथैवाप्यनहङ्कृताः । 020a
कर्तव्या भूतिकामेन पुरुषेण बुभूषता ॥ 020c
एषां वैनयिकी बुद्धिः प्रकृतिश्चैव शोभना । 021a
तेजो धैर्यं क्षमा शौचमनुरागः स्थितिर्धृतिः ॥ 021c
परीक्ष्य च गुणान्नित्यं प्रौढभावान्धुरन्धरान् । 022a
पञ्चोपधाव्यतीतांश्च कुर्याद्राजाऽर्थकारिणः ॥ 022c
पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान् । 023a
कुलीनान्सत्वसम्पन्नानिङ्गितज्ञाननिष्ठुरान् ॥ 023c
देशकालविधानज्ञान्भर्तृकार्यहितैषिणः । 024a
नित्यमर्थेषु सर्वेषु राजन्कुर्वीत मन्त्रिणः ॥ 024c
हीनतेजोभिसंसृष्टो नैव जातु व्यवस्यति । 025a
अवश्यं जनयत्येव सर्वकर्मसु संशयम् ॥ 025c
एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत । 026a
धर्मार्थकामसंयुक्तो नालं मन्त्रं परीक्षितुम् ॥ 026c
तथैवानभिजातोऽपि काममस्तु बहुश्रुतः । 027a
अनायक इवाचक्षुर्मुह्यत्यूह्येषु कर्मसु ॥ 027c
यो वाऽप्यस्थिरसङ्कल्पो बुद्धिमानागतागमः । 028a
उपायज्ञोऽपि नालं स कर्म प्रापयितुं चिरम् ॥ 028c
केवलात्पुनरादानात्कर्मणो नोपपद्यते । 029a
परामर्शो विशेषाणामश्रुतस्येह दुर्मतेः ॥ 029c
मन्त्रिण्यननुरक्ते तु विश्वासो नोपपद्यते । 030a
तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत् ॥ 030c
व्यथयेद्धि स राजानं मन्त्रिभिः सहितोऽनृजुः । 031a
मारुतोपहितच्छिद्रैः प्रविश्याग्निरिव द्रुमम् ॥ 031c
सङ्क्रुद्धश्चैकदा स्वामी स्थानाच्चैवापकर्षति । 032a
वाचा क्षिपति संरब्धः पुनः पश्चात्प्रसीदति ॥ 032c
तानितान्यनुरक्तेन शक्यानि हि तितिक्षितुम् । 033a
मन्त्रिणां च भवेत्क्रोधो विस्फूर्जितमिवाशनेः ॥ 033c
यस्तु संहरते तानि भर्तुः प्रियचिकीर्षया । 034a
समानसुखदुःखं तं पृच्छेदर्थेषु मानवम् ॥ 034c
अनृजुस्त्वनुरक्तोऽपि सम्पन्नश्चेतरैर्गुणैः । 035a
राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति ॥ 035c
योऽमित्रैः सह सम्बद्धो न परान्बहुमन्यते । 036a
असुहृत्तादृशो ज्ञेयो न मन्त्रं श्रोतुमर्हति ॥ 036c
अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः । 037a
असुहृत्क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति ॥ 037c
आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः । 038a
सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति ॥ 038c
विधर्मतो विप्रकृतः पिता यस्याभवत्पुरा । 039a
सत्कृतः स्थापितः सोऽपि न मन्त्रं श्रोतुमर्हति ॥ 039c
यः स्वल्पेनापि कार्येण सुहृदाक्षारितो भवेत् । 040a
पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति ॥ 040c
कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः । 041a
सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति ॥ 041c
ज्ञानविज्ञानसम्पन्नः प्रकृतिज्ञः परात्मनोः । 042a
सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति ॥ 042c
सत्यवाक्शीलसम्पन्नो गन्भीरः सत्रपो मृदुः । 043a
पितृपैतामहो यः स्यात्स मन्त्रं श्रोतुमर्हति ॥ 043c
सन्तुष्टः सम्मतः सद्भिः शौटीरो द्वेष्यपापकः । 044a
मन्त्रवित्कालविच्छूरः स मन्त्रं श्रोतुमर्हति ॥ 044c
सर्वलोकमिमं शक्तः सान्त्वेन कुरुते वशम् । 045a
तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप ॥ 045c
पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः । 046a
योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति ॥ 046c
तस्मात्सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः । 047a
मन्त्रिणः प्रकृतिज्ञाः स्युस्त्र्यवरा महदीप्सवः ॥ 047c
स्वासु प्रकृतिषु च्छिद्रं लक्षयेरन्परस्य च । 048a
मन्त्रिणां मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते ॥ 048c
नास्य च्छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् । 049a
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ 049c
मन्त्रग्राहा हि राज्यस्य मन्त्रिणो ये मनीषिणः । 050a
मन्त्रसंहननो राजा मन्त्राङ्गानीतरे जनाः ॥ 050c
राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते । 051a
स्वामिनं त्वनुवर्न्तते वृत्त्यर्थमिह मन्त्रिणः ॥ 051c
संविनीयमदक्रोधौ मानमीर्ष्यां च निर्वृताः । 052a
नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः ॥ 052c
तेषां त्रयाणां त्रिविधं विमर्शं विबुध्य चित्तं विनिवेश्य तत्र । 053a
स्वनिश्चयं तं परनिश्चयं च निदर्शयेदुत्तरमन्त्रकाले ॥ 053c
धर्मार्थकामज्ञमुपेत्य पृच्छेद्युक्तो गुरुं ब्राह्मणमुत्तरार्थम् । 054a
निष्ठा कृता तेन यदा सहः स्यात्तं मन्त्रमार्गं प्रणयेदसक्तः ॥ 054c
एवं सदा मन्त्रयितव्यमाहुर्ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः । 055a
तस्मात्तमेवं प्रणयेत्सदैव मन्त्रं प्रजासङ्ग्रहणे समर्थम् ॥ 055c
न वामनाः कुब्जकृशा न खञ्जा नान्धा जडाः स्त्री च नपुंसकाश्च । 056a
न चात्र तिर्यक्च पुरो न पश्चान्नोर्ध्वं न चाधः प्रचरेत्कथञ्चित् ॥ 056c
आरुह्य वा वेश्म तथैव शून्यं स्थलं प्रकाशं कुशकाशहीनम् । 057a
वागङ्गदोषान्परिहृत्य सर्वान्सम्मन्त्रयेत्कार्यमहीनकालम् ॥ 057c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्र्यशीतितमोऽध्यायः ॥ 83 ॥

12-83-1 सभासदः व्यवहारनिर्णायकाः । सहायाः युद्धादावुपयोगिनः । सुहृदो हितकर्तारः । परिच्छदाः सेनान्यादयः ॥ 12-83-2 क्रमेणैषां लक्षणान्याह हीति । कथयितुं न्यायान्यायौ वक्तुम् ह्रीनिषेधास्तथा दान्ताः सत्यलज्जासमन्विताः इति थ. पाठः ॥ 12-83-5 सुहृदमाह सार्धेन कुलीन इति ॥ 12-83-7 यावदार्द्रकपाणयः । शुष्कहस्तास्तु सद्यो विक्रियन्ते इत्यर्थः । ते त्वां जातु न सेवेयुर्यावत्ते स्वङ्गपाणयः । इति ड. थ. पाठः ॥ 12-83-9 अर्थो धनम् । मानः सन्मानः । अर्धो वस्त्रादिदानम् । सत्कार आदरः । यान्प्रियान्मन्येथास्तेऽर्थभाजः सुखभागिनश्च स्युः ॥ 12-83-11 समयं धर्माधर्ममर्यादाम् । जुगुप्सेथाः रक्षस्व ॥ 12-83-12 अन्यतरग्रहः गणैकयोरेकतरस्य ग्रहणप्रसङ्गः । एकश्चेद्गुणी तदा गणं त्यक्त्वा स एव ग्राह्यः ॥ 12-83-13 श्रेयसः साधोः ॥ 12-83-14 सत्यः सत्यवान् ॥ 12-83-18 भूमिपः परीक्षेतेति योजना ॥ 12-83-19 अभिजातैः कुलीनैः । अहार्यैः धनादिना वशीकर्तुमशक्यैः । सम्बन्धिपुरुषैर्येषां सम्बन्धोऽस्ति तादृशैः ॥ 12-83-20 यौना उत्तमयोनयः । मौलाः परम्परागताः कर्तव्याः । मन्त्रिण इति शेषः ॥ 12-83-21 प्रकृतिः पूर्वकर्मजः संस्कारः । तेजः पराभिभवसामर्थ्यम् । स्थितिरव्यभिचारिता । धृतिर्धारणसमार्थ्यम् ॥ 12-83-22 पञ्च मन्त्रिण इति तृतीयेनान्वयः । उपधाच्छलं तद्व्यतीतान् ॥ 12-83-23 पर्याप्तं कृत्स्नस्य विवित्सितस्यार्थस्य निर्वाहकं वचनं येषां तान् ॥ 12-83-25 हीनतेजसा मित्रेणाभिसंसृष्टः सम्बद्धः । न व्यवस्यति न कर्तव्याकर्तव्ये निश्चिनोति ॥ 12-83-28 प्रापयितुं समापयितुम् ॥ 12-83-29 आरम्भशूरोऽपि मूर्खः कर्मणः फलविशेषान् ज्ञातुं न शक्नोतीत्यर्थः ॥ 12-83-32 अनुरक्तलक्षणमाह शिभिः सङ्क्रुद्ध इत्यादिभिः ॥ 12-83-38 आगन्तुर्नूतनः । सोऽप्यविश्वास्य इत्यर्थः ॥ 12-83-39 विधर्मतोऽन्यायेन ॥ 12-83-40 आक्षारितो धनग्रहणेन रिक्तः कृतः ॥ 12-83-41 जानपदः स्वदेशजः ॥ 12-83-42 परस्य शत्रोः आत्मनश्च प्रकृतीः स्वाम्यमात्यादिका जानातीति प्रकृतिज्ञः ॥ 12-83-43 गम्भीरो मन्त्रगोपनसमर्थः ॥ 12-83-44 शौटीरः प्रगल्भः । द्वेष्यवद्धेयं पापं यस्य स द्वेष्यपापकः ॥ 12-83-45 आधित्सता आधातुमिच्छता ॥ 12-83-47 पञ्चानामभावे त्रयो वा कार्या इत्यर्थः ॥ 12-83-49 विवरं छिद्रम् ॥ 12-83-50 मन्त्रसंहननो मन्त्रकवचः ॥ 12-83-52 उपवाश्छलानि । तानि पञ्च ॥ 12-83-56 अत्र मन्त्रस्थाने ॥