अध्यायः 082
भीष्मेण युधिष्ठिरम् प्रत्यमात्यपरीक्षार्थं कालकवृक्षीयोपाख्यानकथनम् ॥ 1 ॥
भीष्म उवाच 001
एषा प्रथमतो वृत्तिर्द्वितीयां शृणु भारत । 001a
यः कश्चिद्वेदयेदर्थं राज्ञा रक्ष्यः स मानवः ॥ 001c
ह्रियमाणममात्येन भृत्यो वा यदि वा भृतः । 002a
यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर ॥ 002c
श्रोतव्यमस्य च रहो रक्ष्यश्चामात्यतो भवेत् । 003a
अमात्या ह्यपहर्तारो भूयिष्ठं घ्नन्ति भारत ॥ 003c
राजकोशस्य गोप्तारं राजकोशविलोपकाः । 004a
समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः ॥ 004c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 005a
मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह ॥ 005c
कोसलानामाधिपत्यं सम्प्राप्तं क्षेमदर्शिनम् । 006a
मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् ॥ 006c
स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः । 007a
सर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनःपुनः ॥ 007c
अधीये वायसीं विद्यां शंसन्ति मम वायसाः । 008a
अनागतमतीतं च यच्च सम्प्रति वर्तते ॥ 008c
इति राष्ट्रे परिपतन्बहुभिः पुरुषैः सह । 009a
सर्वेषां राजयुक्तानां दुष्कृतं परिदृष्टवान् ॥ 009c
स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः । 010a
राजयुक्तापचारांश्च सर्वान्बुद्ध्वा ततस्ततः ॥ 010c
ततः स काकमादाय राजानं द्रष्टुमागमत् । 011a
सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः ॥ 011c
स स्म कौसल्यमागम्य राजामात्यमलङ्कृतम् । 012a
प्राह काकस्य वचनादमुत्रेदं त्वया कृतम् ॥ 012c
असौ चासौ च जानीते राजकेशस्त्वया हृतः । 013a
एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम् ॥ 013c
तथाऽन्यानपि स प्राह राजकोशहरांस्तदा । 014a
न चास्य वचनं किञ्चिदनृतं श्रूयते क्वचित् ॥ 014c
तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह । 015a
तमतिक्रम्य सुप्तं तु निशि काकमपोथयन् ॥ 015c
वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे । 016a
पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत् ॥ 016c
राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम् । 017a
अनुज्ञातस्त्वया ब्रूयां वचनं भवतो हितम् ॥ 017c
मित्रार्थमभिसन्तप्तो भक्त्या सर्वात्मनाऽऽगतः । 018a
ह्रियन्ते हि महार्थाश्च पुरुषे विक्रमत्यपि ॥ 018c
सम्बुबोधयिषुर्मित्रं सदश्वमिव सारथिः । 019a
अतिमन्युप्रसक्तो हि प्रसह्य हितकारणात् ॥ 019c
तथाविधस्य सुहृदा क्षन्तव्यं संविजानता । 020a
ऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता ॥ 020c
तं राजा प्रत्युवाचेदं यत्किञ्चिन्मां भवान्वदेत् । 021a
कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम् ॥ 021c
ब्राह्मण प्रतिजाने ते प्रब्रूहि यदिहेच्छसि । 022a
करिष्यामि हि ते वाक्यं यन्मां विप्र प्रवक्ष्यसि ॥ 022c
मुनिरुवाच 023
विद्वान्नयानपायांश्च भयाख्यातॄन्भयानि च । 023a
भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागतः ॥ 023c
प्रागेवोक्तं तु दोषोऽयमाचार्यैर्नृपसेवनम् । 024a
अगतेः कुगतिर्ह्येषा या राज्ञा सहजीविका ॥ 024c
आशीविषैश्च तस्याहुः सङ्गमं यस्य राजभिः । 025a
बहुमित्राश्च राजानो बह्वमित्रास्तथैव च ॥ 025c
तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपजीविनाम् । 026a
तथाऽस्य राजतो राजन्मुहुर्तादागतं भयम् ॥ 026c
नैकान्तेनाप्रमादो हि शक्यः कर्तुं महीपतौ । 027a
न तु प्रमादः कर्तव्यः कथञ्चिद्भूतिमिच्छता ॥ 027c
प्रमादात्स्खलते बुद्धिः स्खलतो नास्ति जीवितम् । 028a
अग्निं दीप्तमिवासीदेद्राजानमुपशिक्षितः ॥ 028c
आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम् । 029a
यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः ॥ 029c
दुर्व्याहृताच्छङ्कमानो दुःस्थिताद्दुरनुष्ठितात् । 030a
दुरासदाद्दुर्वृजिनादिङ्गिताद्ध्यायितादपि ॥ 030c
देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितः । 031a
वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत् ॥ 031c
इति राजन्यमः प्राह वर्तते च तथैव तत् । 032a
अथ भूयांसमेवार्थं करिष्यामि पुनःपुनः ॥ 032c
ददात्यस्मद्विधोऽऽमात्यो बुद्धिसाहाय्यमापदि । 033a
वायसस्त्वेष मे राजन्नन्तकायाभिसंहितः ॥ 033c
न च मेऽत्र भवान्गर्ह्यो न च येषां भवान्प्रियः । 034a
हिताहितांस्तु बुद्ध्येथा मापरोक्षमतिर्भव ॥ 034c
ये त्वादानपरा एव वसन्ति भवतो गृहे । 035a
अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम् ॥ 035c
यो वा भवद्विनाशेन राज्यमिच्छत्यनन्तरम् । 036a
आन्तरैरभिसन्धाय राजन्सिद्ध्यति नान्यथा ॥ 036c
तेषामहं भयाद्राजन्गमिष्याम्यन्यमाश्रमम् । 037a
तैर्हि मे सन्धितो बाणः काके निपतितः प्रभो ॥ 037c
छद्मना मम काकश्च गमितो यमसादनम् । 038a
दृष्टं ह्येतन्मया राजंस्तपोदीर्घेन चक्षुषा ॥ 038c
बहुनक्रझषग्राहां तिमिङ्गिलगणैर्युताम् । 039a
काकेन बालिशेनेमामतार्षमहमापगाम् ॥ 039c
स्थाण्वश्मकण्टकवतीं सिंहव्याघ्रसमाकुलाम् । 040a
दुरासदां दुष्प्रसहां गुहां हैमवतीमिव || 040c
अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते । 041a
राजदुर्गावतरणे नोपायं पण्डिता विदुः ॥ 041c
गहनं भवतो राज्यमन्धकारं तमोन्वितम् । 042a
नेह विश्वसितुं शक्यं भवताऽपि कुतो मया ॥ 042c
अतो नायं शुभो वासस्तुल्ये सदसती इह । 043a
वधो ह्येवात्र सुकृते दुष्कृते न च संशयः ॥ 043c
न्यायतो दुष्कृते घातः सुकृते न कथञ्चन । 044a
नेह युक्तं स्थिरं स्थातुं जवेनैवाव्रजेद्बुधः ॥ 044c
सीता नाम नदी राजन्प्लवो यस्यां निमज्जति । 045a
तयोपमामिमां मन्ये वागुरां सर्वघातिनीम् ॥ 045c
मधुप्रपातो हि भवान्भोजनं विषसंयुतम् । 046a
असतामिव ते भावो वर्तते न सतामिव ॥ 046c
आशीविषैः परिवृतः कूपस्त्वमसि पार्थिव ॥ 047ac
दुर्गतीर्था बृहत्कूला कावेरी चोरसंयुता । 048a
नदी मधुरपानीया यथा राजंस्तथा भवान् । 048c
श्वगृध्रगोमायुयुतो राजहंससमो ह्यसि ॥ 048e
यथाऽऽश्रित्य महावृक्षं कक्षः संवर्धते महान् । 049a
ततस्तं संवृणोत्येव तमतीत्य च वर्धते ॥ 049c
तेनैवोग्रेन्धनेनैनं दावो दहति दारुणः । 050a
तथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय ॥ 050c
त्वया चैव कृता राजन्भवता परिपालिताः । 051a
भवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम् ॥ 051c
उषितं शङ्कमानेन प्रमादं परिरक्षता । 052a
अन्तःसर्प इवागारे वीरपत्न्या इवालये । 052c
शीलं जिज्ञासमानेन राज्ञः साहसजीविनः ॥ 052e
कच्चिज्जितेन्द्रियो राजा कच्चिदस्यान्तरा जिताः । 053a
कच्चिदेषां प्रियो राजा कच्चिद्राज्ञः प्रियाः प्रजाः ॥ 053c
विजिज्ञासुरिह प्राप्तस्तवाहं राजसत्तम । 054a
तस्य मे रोचते राजन्क्षुधितस्येव भोजनम् ॥ 054c
अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम् । 055a
भवतोऽर्थकृदित्येवं मयि ते दोषमादधन् । 055c
विद्यते कारणं नान्यदिति मे नात्र संशयः ॥ 055e
न हि तेषामहं द्रोग्धा तत्तेषां द्रोहवद्गतम् । 056a
अरेर्हि दुर्हृदाद्भेयं भग्नपृष्ठादिवोरगात् ॥ 056c
राजोवाच 057
भूयसा परिहारेण सत्कारेण च भूयसा । 057a
पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम ॥ 057c
ये त्वां ब्राह्मण नेच्छन्ति ते न वत्स्यन्ति मे गृहे । 058a
भवतैव हि तज्ज्ञेयं यत्तदेषामनन्तरम् ॥ 058c
यथा स्यात्सुधृतो दण्डो यथा च सुकृतं कृतम् । 059a
तथा समीक्ष्य भगवञ्श्रेयसे विनियुङ्क्ष्व माम् ॥ 059c
मुनिरुवाच 060
अदर्शयन्निमं दोषमेकैकं दुर्बलं कुरु । 060a
ततः कारणमाज्ञाय पुरुषम्पुरुषं जहि । 060c
एकदोषा हि बहवो मृद्नीयुरपि कण्टकान् ॥ 060e
'अर्थे सर्वं जगद्बद्धमर्थेनैव निबध्यते । 061a
अर्थे दर्पो मनुष्याणां तस्मादर्थं विरोचय ॥ 061c
एकेनैकस्य दोषेण तद्विरुद्धं प्रचोदय । 062a
स तस्य दोषानुद्भाव्य तस्यार्थं ग्राहयिष्यति ॥ 062c
सामपूर्वं च केषाञ्चिद्भेदेन च परस्परम् । 063a
वैरं कारय भूपाल पश्चाद्दण्डं प्रचोदय ॥ 063c
बिल्वेन च यथा बिल्वमाकारं छाद्य बुद्धिमान् । 064a
अशुद्धं सचिवं राजन्नशुद्धेनैव नाशय ॥' 064c
मन्त्रभेदभयाद्राजंस्तस्मादेतद्ब्रवीमि ते ॥ 065ac
वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः । 066a
स्वस्ति चेच्छाम भवतः परेषां च यथाऽऽत्मनः ॥ 066c
राजन्नात्मानमाचक्षे सम्बन्धी भवतो ह्यहम् । 067a
मुनिः कालकवृक्षीय इत्येवमभिसञ्ज्ञितः । 067c
पितुः सखा च भवतः सम्मतः सत्यसङ्गरः ॥ 067e
व्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते । 068a
सर्वकामान्परित्यज्य तपस्तप्तं तदा मया ॥ 068c
स्नेहात्त्वां तु ब्रवीम्येतन्मा भूयो विभ्रमेदिति ॥ 069ac
उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया । 070a
राज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि ॥ 070c
भीष्म उवाच 071
ततो राजकुले नान्दी सञ्जज्ञे भूयसा पुनः । 071a
पुरोहितकुले चैव सम्प्राप्ते ब्राह्मणर्षभे ॥ 071c
एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने । 072a
मुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः ॥ 072c
हितं तद्वचनं श्रुत्वा कौसल्योऽप्यजयन्महीम् । 073a
तथा च कृतवान्राजा यथोक्तं तेन भारत ॥ 073c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्व्यशीतितमोऽध्यायः ॥ 82 ॥
12-82-7 प्रवृत्त्यर्थी अमात्यदोषदर्शने राजानं प्रवर्तयितुकामः ॥ 12-82-9 परिपतन्परितो भ्रमन् । राजयुक्तानां राज्ञा तेषु तेषु कार्येषु नियुक्तानाम् । दुष्कृतं स्वामिद्रव्यापहाररूपं पापम् ॥ 12-82-12 राजानमागम्य तत्समक्षमेवामात्यं प्राह । अमुत्रस्थाने त्वया इदं धनचौर्यं कृतमिति ॥ 12-82-13 अनुगम्यताम् आलोच्यताम् ॥ 12-82-18,19 ह्रियन्त इति मित्रं त्वां सम्बुबोधयिषुरागत इति श्लोकद्वयमेकान्वयम् ॥ 12-82-23 ज्ञात्वा पापानपापांश्च भृत्यतस्ते भयानि चेति झ. पाठः ॥ 12-82-29 नाहमस्मीति मत्वा जीवनाशां त्यक्त्वेत्यर्थः ॥ 12-82-35 आदानपराः कोशलोप्तारः । मे मयि । तादृशैरभिसंहितमभिसन्धिर्वैरं कृतम् । मदीयकाकहननादिति भावः ॥ 12-82-36 आन्तरैः सूदादिभिः अभिसन्धायाऽन्नादौ विषं प्रक्षेप्तव्यमिति स्नेहं कृत्वा । तेषामभीप्सितो भवद्विनाशः सिध्यति चाऽन्यथा न सिध्यति च । आयुःशेषे सतीति भावः ॥ 12-82-37 तेषां त्वद्वैरिणाम् ॥ 12-82-39 इमां राजनीतिनदीम् । नक्रादितुल्यैरधिकारिपुरुषैर्व्याप्ताम् । बालिशेन स्वमृत्युं सम्पादयता विरुद्धलक्षणया तन्मरणान्मृतोऽस्मीति भावः ॥ 12-82-41 अग्निना दीपेन आप्यं जलरूपम् ॥ 12-82-42 गहनं कपटम् । अन्धकारमिव तमोन्वितं धर्माधर्मदर्शनशून्यम् ॥ 12-82-52 उषितं मयेति शेषः ॥ 12-82-53 जिज्ञासामेवाह कच्चिदिति ॥ 12-82-54 रोचते भवानिति शेषः ॥ 12-82-56 भेयं भेतव्यम् । भग्नपृष्ठात् पृष्ठभङ्गेन कोपितात् ॥ 12-82-60 तेषामकस्मात् युगपच्च वधे दोषमाह एकेति । संहताः कण्टकानपि मृद्नीयुः किमुत मादृशान्मृदूनित्यर्थः ॥ 12-82-68 पितरि त्वदीये संस्थिते मृते ॥ 12-82-69 विभ्रमेत् अनाप्तेष्वाप्तबुद्धिं भवान्माकार्षीत् ॥ 12-82-71 नान्दी मङ्गलपाठः । ततस्तस्मिन्मन्त्रिणि वृते सति ॥ 12-82-72 कौसल्याय कौसल्यार्थे ॥