अध्यायः 081

भीष्मेण युधिष्ठिरम् प्रति कृष्णनारदसंवादानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
एवमग्राह्यके तस्मिञ्ज्ञातिसम्बन्धिमण्डले । 001a
मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
संवादं वासुदेवस्य महर्षेर्नारदस्य च ॥ 002c
वासुदेव उवाच 003
नासुहृत्परमं मन्त्रं नारदार्हति वेदितुम् । 003a
अपण्डितो वाऽपि सुहृत्पण्डितो वाप्यनात्मवान् ॥ 003c
स ते सौहृदमास्थाय किञ्चिद्वक्ष्यामि नारद । 004a
कृत्स्नां बुद्धिं च ते प्रेक्ष्य सम्पृच्छे त्रिदिवङ्गम ॥ 004c
दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम् । 005a
अर्धं भोक्ताऽस्मि भोगानां वाग्दुरुक्तानि च क्षमे ॥ 005c
अरणीमग्निकामो वा मथ्नाति हृदयं मम । 006a
वाचा दुरुक्तं देवर्षे तन्मां दहति नित्यदा ॥ 006c
बलं सङ्कर्षणे नित्यं सौकुमार्यं पुनर्गदे । 007a
रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद ॥ 007c
अन्ये हि सुमहाभागा बलवन्तो दुरासदाः । 008a
नित्योत्थानेन सम्पन्ना नारदान्धकवृष्णयः ॥ 008c
यस्य न स्युर्न वै स स्याद्यस्य स्युः कृत्स्नमेव तत् । 009a
द्वयोरेनं प्रचरतोर्वृणोम्येकतरं न च ॥ 009c
स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः । 010a
यस्य चापि न तौ स्यातां किं नु दुःखतरं ततः ॥ 010c
सोऽहं कितवमातेव द्वयोरपि महामुने । 011a
नैकस्य जयमाशंसे द्वितीयस्य पराजयम् ॥ 011c
ममैवं क्लिश्यमानस्य नारदोभयदर्शनात् । 012a
वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा ॥ 012c
नारद उवाच 013
आपदो द्विविधाः कृष्ण बाह्याश्चाभ्यन्तराश्च ह । 013a
प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वाऽन्यतः ॥ 013c
सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा । 014a
अक्रूरभोजप्रभवा सर्वे ह्येते तदन्वयाः ॥ 014c
अर्थहेतोर्हि कामाद्वा वीरबीभत्सयाऽपि वा । 015a
आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम् ॥ 015c
कृतमूलमिदानीं तद्राजशब्दसहायवत् । 016a
न शक्यं पुनरादातुं वान्तमन्नमिव स्वयम् ॥ 016c
बभ्रूग्रसेनतो राज्यं नाप्नुं शक्यं कथञ्चन । 017a
ज्ञातिभेदभयात्कृष्ण त्वया चापि विशेषतः ॥ 017c
तच्च सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम् । 018a
महाक्षयं व्ययो वा स्याद्विनाशो वा पुनर्भवेत् ॥ 018c
अनायसेन शस्त्रेण मृदुना हृदयच्छिदा । 019a
जिह्वामुद्धर सर्वेषां परिमृज्यानुमृज्य च ॥ 019c
वासुदेव उवाच 020
अनायसं मुने शस्त्रं मृदु विद्यामहं कथम् । 020a
येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च ॥ 020c
नारद उवाच 021
शक्त्याऽन्नदानं सततं तितिक्षाऽऽर्जवमार्दवम् । 021a
यथार्हप्रतिपूजा च शस्त्रमेतदनायसम् ॥ 021c
ज्ञातीनां वक्तुकामानां कटुकानि लघूनि च । 022a
गिरा त्वं हृदयं वाचं शमयस्व मनांसि च ॥ 022c
नामहापुरुषः कश्चिन्नानात्मा नासहायवान् । 023a
महतीं धुरमादाय समुद्यम्योरसा वहेत् ॥ 023c
सर्व एव गुरुं भारमनड्वान्वहते समे । 024a
दुर्गे प्रतीतः सुगवो भारं वहति दुर्वहम् ॥ 024c
भेदाद्विनाशः सङ्घानां सङ्घमुख्योऽसि केशव । 025a
यथा त्वां प्राप्य नोत्सीदेदयं सङ्घस्तथा कुरु ॥ 025c
नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात् । 026a
नान्यत्र धनसन्त्यागाद्गुणः प्राज्ञेऽवतिष्ठते ॥ 026c
धन्यं यशस्यमायुष्यं स्वपक्षोद्भावनं सदा । 027a
ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु ॥ 027c
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो । 028a
षाड्गुण्यस्य विधानेन यात्रा यानविधौ तथा ॥ 028c
यादवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः । 029a
त्वय्यायत्ता महाबाहो लोका लोकेश्वराश्च ये ॥ 029c
उपासन्ते हि त्वद्बुद्धिमृषयश्चापि माधव । 030a
त्वं गुरुः सर्वभूतानां जानीषे त्वं परां गतिम् ॥ 030c
त्वामासाद्य यदुश्रेष्ठ मेधन्ते यादवाः सुखम् ॥ 031ac

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकाशीतितमोऽध्यायः ॥ 81 ॥

12-81-1 अग्राह्यके वशीकर्तुमशक्ये ॥ 12-81-6 वाशब्द इवार्थः ॥ 12-81-9 ते यस्य पक्षे न स्युः स नस्यान्नश्येदेव । यस्य पक्षे ते स्युस्तत् तस्मात् कृत्स्नं फलं प्राप्नोतीति शेषः ॥ 12-81-11 कितवमातेव कितवयोर्द्यूतकारिणोरेका मातेव ॥ 12-81-13 अन्यतः बाह्याः आपदः स्वकृताः ज्ञातिकृताः अन्तरा आपदः ॥ 12-81-14 एते सङ्कर्षणादयः । तदन्वया अक्रूरान्वयाः ॥ 12-81-15 तत्र हेतुरर्थेति । तत्स्नेहप्रभवा इयं तव आपदिति सार्धः । स्वकर्मजेत्युक्तं तद्विवृणोति आत्मनेति सार्धेन । अन्यत्र आहुके ॥ 12-81-16 ज्ञातिशब्दं सहायवन् इति झ. पाठः । तत्र तत् ऐश्वर्यं कृतमूलं यतो ज्ञातिशब्दं ज्ञातित्वादनुच्छेदनीयमित्यर्थः ॥ 12-81-18 तच्च राज्यस्य पुनरादानं च ॥