अध्यायः 080

युधिष्ठिरम् प्रति भीष्मेण मित्रामित्रलक्षणकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
यदप्यल्पतरं कर्म तदप्येकेन दुष्करम् । 001a
पुरुषेणासहायेन किमु राज्यं पितामह ॥ 001c
किंशीलः किंसमाचारो राज्ञो यः सचिवो भवेत् । 002a
कीदृशे विश्वसेद्राजा कीदृशे न च विश्वसेत् ॥ 002c
भीष्म उवाच 003
चतुर्विधानि मित्राणि राज्ञां राजन्भवन्त्युत । 003a
सहार्थो भजमानश्च सहजः कृत्रिमस्तथा ॥ 003c
धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वयोः । 004a
यतो धर्मस्ततो वा स्यान्मध्यस्थो वा ततो भवेत् ॥ 004c
यो यस्यार्थो न रोचेत न तं तस्य प्रकाशयेत् । 005a
'मित्राणां प्रकृतिर्नास्ति त्वमित्राणां च भारत । 005c
उपकाराद्भवेन्मित्रमपकाराद्भवेदरिः ॥ 005e
यस्यैव हि मनुष्यस्य नरो मरणमृच्छति । 006a
तस्य पर्यागते काले पुनर्जीवितुमिच्छति ॥ 006c
धर्माधर्मेण राजानश्चरन्ति विजिगीषवः । 007a
चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथाऽपरौ । 007c
सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यमात्मनः ॥ 007e
न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे । 008a
प्रमादिनं हि राजानं लोकाः परिभवन्त्युत ॥ 008c
असाधुः साधुतामेति साधुर्भवति दारुणः । 009a
अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति ॥ 009c
अनित्यचित्तः पुरुषस्तस्मिन्को जातु विश्वसेत् । 010a
तस्मात्प्रधानं यत्कार्यं प्रत्यक्षं तत्समाचरेत् ॥ 010c
एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः । 011a
अविश्वासश्च सर्वत्र मृत्युर्नापि विशिष्यते ॥ 011c
अकालमृत्युर्विश्वासोऽविश्वसन्हि विपद्यते । 012a
यस्मिन्करोति विश्वासमिच्छतस्तस्य जीवति ॥ 012c
तस्माद्विश्वसितव्यं च शङ्कितव्यं च केषुचित् । 013a
एषा नीतिगतिस्तात लक्ष्मीश्चैषा सनातनी ॥ 013c
यं मन्येत ममाभावादिममर्थागमः स्पृशेत् । 014a
नित्यं तस्माच्छङ्कितव्यममित्रं तं विदुर्बुधाः ॥ 014c
यस्य क्षेत्रादप्युदकं क्षेत्रमन्यस्य गच्छति । 015a
न तत्रानिच्छतस्तस्य भिद्येरन्सर्वसेतवः ॥ 015c
तथैवात्युदकाद्भीतस्तस्य भेदनमिच्छति । 016a
यमेवंलक्षणं विद्यात्तममित्रं विदुर्बुधाः ॥ 016c
यस्तु वृद्ध्या न तप्येत क्षये दीनतरो भवेत् । 017a
एतदुत्तममित्रस्य निमित्तमभिचक्षते ॥ 017c
यन्मन्येत ममाभावादस्याभावो भवेदिति । 018a
तस्मिन्कुर्वीत विश्वासं यथा पितरि वै तथा ॥ 018c
तं शक्त्या वर्तमानं च सर्वतः परिबृंहयेत् । 019a
नित्यं क्षताद्वारयति यो धर्मेष्वपि कर्मसु ॥ 019c
क्षताद्भीतं विजानीयादुत्तमं मित्रलक्षणम् । 020a
ये यस्य क्षयमिच्छन्ति ते तस्य रिपवः स्मृताः ॥ 020c
व्यसनान्नित्यभीतो यः समृद्ध्या यो न दुष्यति । 021a
यत्स्यादेवंविधं मित्रं तदात्मसममुच्यते ॥ 021c
रूपवर्णस्वरोपेतस्तितिक्षुरनसूयकः । 022a
कुलीनः शीलसम्पन्नः स ते स्यात्प्रत्यनन्तरः ॥ 022c
मेधावी स्मृतिमान्दक्षः प्रकृत्या चानृशंस्यवान् । 023a
यो मानितोऽमानितो वा न सन्तुष्येत्कथञ्चन ॥ 023c
ऋत्विग्वा यदि वाऽऽचार्यः सखा वाऽत्यन्तसत्कृतः । 024a
गृहे वसेदमात्यस्ते स स्यात्परमपूजितः ॥ 024c
संविद्याः परमं मित्रं प्रकृतिं चार्थधर्मयोः । 025a
विश्वासस्ते भवेत्तत्र यथा पितरि वै तथा ॥ 025c
नैव द्वौ न त्रयः कार्या न मृष्येरन्परस्परम् । 026a
एकार्थे हेतुभूतानां भेदो भवति सर्वदा ॥ 026c
कीर्तिप्रधानो यस्त स्याद्यश्च स्यात्समये स्थितः । 027a
समर्थान्यश्च न द्वेष्टि नानर्थान्कुरुते च यः ॥ 027c
यो न कामाद्भयाल्लोभात्क्रोधाद्वा धर्ममुत्सृजेत् । 028a
दक्षः पर्याप्तवचनः स ते स्यात्प्रत्यनन्तरः ॥ 028c
कुलीनः शीलसम्पन्नस्तितिक्षुरविकत्थनः । 029a
शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः ॥ 029c
एते ह्यमात्याः कर्तव्याः सर्वकर्मस्ववस्थिताः । 030a
पूजिताः संविभक्ताश्च सुसहायाः स्वनुष्ठिताः ॥ 030c
कृत्स्नमेते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु । 031a
युक्ता महत्सु कार्येषु श्रेयांस्युत्पादयन्त्युत ॥ 031c
एते कर्माणि कुर्वन्ति स्पर्धमाना मिथः सदा । 032a
अनुतिष्ठन्ति चैवार्थमाचक्षाणाः परस्परम् ॥ 032c
ज्ञातिभ्यो बिभियाश्चैव मृत्योरिव यतस्तदा । 033a
उपराजेव राजर्धिं ज्ञातिर्न सहते सदा ॥ 033c
ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः । 034a
नान्यो ज्ञातेर्महाबाहो विनाशमभिनन्दति ॥ 034c
अज्ञातयोऽप्यसुखदा ज्ञातयोऽपि सुखावहाः । 035a
अज्ञातिमन्तं पुरुषं परे चाभिभवन्त्युत ॥ 035c
निकृतस्य नरैरन्यैर्ज्ञातिरेव परायणम् । 036a
नान्यो निकारं सहते ज्ञातिर्ज्ञातेः कदाचन ॥ 036c
आत्मानमेव जानाति निकृतं बान्धवैरपि । 037a
तेषु सन्ति गुणाश्चैव नैर्गुण्यं चैव लक्ष्यते ॥ 037c
नाज्ञातिरनुगृह्णाति नाज्ञातिर्वृद्धिमश्नुते । 038a
उभयं ज्ञातिवर्गेषु दृश्यते साध्वसाधु च ॥ 038c
सम्मानयेत्पूजयेच्च वाचा नित्यं च कर्मणा । 039a
कुर्याच्च प्रियमेतेभ्यो नाप्रियं किञ्चिदाचरेत् ॥ 039c
विश्वस्तवदविश्वस्तस्तेषु वर्तेत सर्वदा | 040a
न हि दोषो गुणो वेति निरूप्यस्तेषु दृश्यते ॥ 040c
अस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः । 041a
अमित्राः सम्प्रसीदन्ति ततो मित्रं भवन्त्यपि ॥ 041c
य एवं वर्तते नित्यं ज्ञातिसम्बन्धिमण्डले । 042a
मित्रेष्वमित्रे मध्यस्थे चिरं यशसि तिष्ठति ॥ 042c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अशीतितमोऽध्यायः ॥ 80 ॥

12-80-3 सहार्थः अयं शत्रुरुभाभ्यामुन्मूलनीयः अस्य राज्यम् उभाभ्यां विभज्य ग्राह्यमिति पणपूर्वं कृतः । भजमानः पितृपैतामहक्रमागतः सहजः मातृष्वस्रीयादिः कृत्रिमो धनादिना आवर्जितः ॥ 12-80-7 सर्वे पञ्चापि प्रत्यक्षं कार्यमुद्दिश्य मन्त्रितमपि दुष्टामात्यनिग्रहादिकं कार्यं पञ्चानामपि समक्षं न कुर्यादित्यर्थः ॥ 12-80-14 ममाभावात् मयि मृते अर्थागमः इमं स्पृशेत् इति यं मन्येत तस्माच्छङ्कितव्यमिति सम्बन्धः ॥ 12-80-18 यत् मित्रं कर्तृ ॥ 12-80-28 प्रत्यनन्तरः प्रतिनिधिः प्रधान इतियावत् ॥ 12-80-30 स्वनुष्ठिताः सुष्ट्वनुष्ठितं कर्तव्यं येषां ते ॥ 12-80-31 कृत्स्नमप्रतिकञ्चुकं यथा स्यात्तथा विनिक्षिप्ता अधिकृताः । प्रतिरूपेष्वनुरूपेषु कर्मस्वायव्ययसङ्कलनादिषु । कार्येषु पराभिभवादिषु ॥ 12-80-33 उपराजा समीपवर्ती सामन्तः ॥ 12-80-36 निकृतस्य लङ्घितस्य लङ्घितस्य ॥ 12-80-37 बान्धवैः सम्बन्धिभिर्निकृते कस्मिंश्चित्पुरुषे तज्ज्ञातिः आत्मानमेव निकृतं जानाति । तेषु ज्ञातिषु ॥ 12-80-41 तथा मित्रीभवन्त्यपीति झ. पाठः ॥