अध्यायः 079
भीष्मेण युधिष्ठिरम् प्रति ऋत्विग्लक्षणादिकथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
क्व समर्थाः कथंशीला ऋत्विजः स्युः पितामह । 001a
कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर ॥ 001c
भीष्म उवाच 002
प्रतिकर्मपरा राजन्वृत्तिरस्य विधीयते । 002a
छन्दः सामादि विज्ञाय द्विजानां श्रुतमेव च ॥ 002c
ये त्वेकरतयो नित्यं धीराश्च प्रियवादिनः । 003a
परस्परस्य सुहृदः समन्तात्समदर्शिनः ॥ 003c
आनृशंस्यं सत्यवाक्यमहिंसा दम आर्जवम् । 004a
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः ॥ 004c
'यस्मिन्नेतानि दृश्यन्ते स पुरोहित उच्यते ।' 005a
धीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः । 005c
अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः ॥ 005e
अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति । 006a
एते महर्त्विजस्तात सर्वे मान्या यथार्हतः ॥ 006c
युधिष्ठिर उवाच 007
यदिदं वेदवचनं दक्षिणासु विधीयते । 007a
इदं देयमिदं देयं न क्वचिद्व्यवतिष्ठते ॥ 007c
देयं प्रतिधनं शास्त्रमापद्धर्मा न शास्त्रतः । 008a
आज्ञा शास्त्रस्य घोरे यं न शक्तिं समवेक्षते ॥ 008c
श्रद्धामालम्ब्य यष्टव्यमित्येषा वैदिकी श्रुतिः । 009a
मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति ॥ 009c
भीष्म उवाच 010
न वेदानां परिभवान्न शाठ्येन न मायया । 010a
कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी ॥ 010c
यज्ञाङ्गं दक्षिणा तात मन्त्राणां परिबृंहणम् । 011a
न मन्त्रा दक्षिणाहीनास्तारयन्ति कथञ्चन ॥ 011c
शक्तिस्तु पूर्णपात्रेण सम्मिता नावमा भवेत् । 012a
अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्यथाबलम् ॥ 012c
सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः । 013a
तं च विक्रेतुमिच्छन्ति न तथा वृत्तिरिष्यते ॥ 013c
तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते । 014a
इत्येवं धर्ममाख्यातमृषिभिर्धर्मकोविदैः ॥ 014c
पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यदा भवेत् । 015a
अन्यायवृत्तः पुरुषो न परस्य न चात्मनः ॥ 015c
शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिः । 016a
तानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम् ॥ 016c
तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः । 017a
तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु ॥ 017c
अहिंसा सत्यवचनमानृशंस्यं दमो घृणा । 018a
एतत्तपो विदुर्धीरा न शरीरस्य शोषणम् ॥ 018c
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् । 019a
अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः ॥ 019c
निबोध दशहोतॄणां विधानं पार्थ यादृशम् । 020a
चित्तिः स्रुक् चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम् । 020c
'न शाठ्यं न च जिह्मत्वं कालो देशश्च ते दश ॥' 020e
सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम् । 021a
एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति ॥ 021c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनाशीतितमोऽध्यायः ॥ 79 ॥
12-79-2 राज्ञां शान्तिकपौष्टिकादिकर्मप्रयोगशुद्ध्याख्यं प्रतिकर्म ऋत्विग्भिः कर्तव्यमित्यर्थः ॥ 12-79-5 त्रिभिः श्रुतवृत्तवंशैः । शुक्लैर्निर्दोषैः ॥ 12-79-7 इदं देयमिदं देयमिति यदिदं वेदवचनमिति इति शब्दाध्याहारेण योज्यम् । व्यवतिष्ठते व्यवस्थां प्राप्नोति । अल्पेऽप्यपच्छेदनिमित्ते सर्वस्वदक्षिणाविधानादुत्तरक्रतुकलापलोपप्राप्तेः ॥ 12-79-9 गोःस्थाने चरुमात्रदानरूपोऽनुकल्पो मिथ्याचारस्तदुपेतो यज्ञः श्रद्धयापि न सम्पूर्यत इत्यर्थः ॥ 12-79-21 जिह्मं शाठ्यम् । आर्जवम् अवक्रत्वम् ॥