अध्यायः 078
भीष्मेण युधिष्ठिरम् प्रति ब्राह्मणादीनामापद्धर्मकथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
व्याख्याता राजधर्मेण वृत्तिरापत्सु भारत । 001a
कथञ्चिद्वैश्यधर्मेण जीवेद्वा ब्राह्मणो न वा ॥ 001c
भीष्म उवाच 002
अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत् । 002a
कृषिं गोरक्ष्यमास्थाय व्यसने वृत्तिसङ्क्षये ॥ 002c
युधिष्ठिर उवाच 003
कानि पण्यानि विक्रीणन्स्वर्गलोकान्न हीयते । 003a
ब्राह्मणो वैश्यधर्मेण वर्तयन्भरतर्षभ ॥ 003c
भीष्म उवाच 004
सुरालवणमित्येतत्तिलान्केसरिणः पशून् । 004a
वृषभान्मधु मांसं च कृतान्नं च युधिष्ठिर ॥ 004c
सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत् । 005a
एतेषां विक्रयात्तात ब्राह्मणो नरके पतेत् ॥ 005c
अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट् । 006a
धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथञ्चन ॥ 006c
पक्वेनामस्य निमयं न प्रशंसन्ति साधवः । 007a
निमयेत्पक्वमामेन भोजनार्थाय भारत ॥ 007c
वयं सिद्धमशिष्यामो भवान्साधयतामिदम् । 008a
एवं संवीक्ष्य समयं नाधर्मोऽस्ति कथञ्चन ॥ 008c
अत्र ते वर्तयिष्यामि यथा धर्मः सनातनः । 009a
व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर ॥ 009c
भवतेऽहं ददानीदं भवानेतत्प्रयच्छतु । 010a
उचितो वर्तते धर्मो न बलात्सम्प्रवर्तते ॥ 010c
इत्येवं सम्प्रवर्तन्ते व्यवहाराः पुरातनः । 011a
ऋषीणामितरेषां च साधु चैतदसंशयम् ॥ 011c
युधिष्ठिर उवाच 012
अथ तात यदा सर्वाः शस्त्रमाददते प्रजाः । 012a
व्युत्क्रमन्ते स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम् ॥ 012c
तदा त्राता तु को नु स्यात्को धर्मः किं परायणम् । 013a
एतं मे संशयं ब्रूहि विस्तरेण पितामह ॥ 013c
भीष्म उवाच 014
दानेन तपसा यज्ञैरद्रोहेण दमेन च । 014a
ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः ॥ 014c
तेषां ये वेदबलिनस्त उत्थाय समन्ततः । 015a
राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः ॥ 015c
राज्ञो हि क्षीयमाणस्य ब्रह्मैवाहुः परायणम् । 016a
तस्माद्ब्राह्मबलेनैव समुत्थेयं विजानता ॥ 016c
यदा तु विजयी राजा क्षेमं राष्ट्रेऽभिसन्दधेत् । 017a
तदा वर्णा यथाधर्मं निविशेयुः स्वकर्मसु ॥ 017c
उन्मर्यादे प्रवृत्ते तु दस्युभिः सङ्करे कृते । 018a
सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर ॥ 018c
युधिष्ठिर उवाच 019
अथ चेत्सर्वतः क्षत्रं प्रदुष्येद्ब्राह्मणं प्रति । 019a
कस्तत्र ब्राह्मणांस्त्राता को धर्मः किं परायणम् ॥ 019c
भीष्म उवाच 020
तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च । 020a
अमायया मायया च नियन्तव्यं तदा भवेत् ॥ 020c
क्षत्रियस्यातिवृत्तस्य ब्राह्मणेषु विशेषतः । 021a
ब्रह्मैव सन्नियन्तृ स्यात्क्षत्रं हि ब्रह्मसम्भवम् ॥ 021c
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । 022a
तेषां सर्वत्रगं तेजः स्वस्वयोनिषु शाम्यति ॥ 022c
यदा छिनत्त्ययोऽश्मानमग्निश्चापोऽभिहन्ति च । 023a
क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः ॥ 023c
तस्माद्ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर । 024a
समुदीर्णान्यजेयानि तेजांसि च बलानि च ॥ 024c
युधिष्ठिर उवाच 025
ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले । 025a
दुष्टेषु सर्ववर्णेषु ब्राह्मणान्प्रति भारत ॥ 025c
ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितमात्मनः । 026a
'ब्राह्मणान्परिरक्षन्ति तेषां लोका भवन्ति के ॥ 026c
भीष्म उवाच 027
ब्राह्मणान्परिरक्षन्तो धर्ममात्मानमेव च । 027a
मनस्विनो मन्युमन्तः पुण्याँल्लोकान्व्रजन्त्यमी । 027c
ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणमिष्यते ॥ 027e
अतिस्विष्टमधीतानां लोकानतितपस्विनाम् । 028a
अनाशकाग्न्याहितानां शूरा यान्ति परां गतिम् ॥ 028c
ब्राह्मणस्त्रिषु वर्णेषु शस्त्रं गृह्णन्न दुष्यति । 029a
एष एवात्मनस्त्यागो नान्यं धर्मं विदुर्जनाः ॥ 029c
तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वति । 030a
ब्रह्मद्विषो जिघांसन्तस्तेषां नोऽस्तु सलोकता ॥ 030c
ब्रह्मलोकजितः स्वर्ग्यान्वीरांस्तान्मनुरब्रवीत् । 031a
यथाऽश्वमेधावभृथे स्नाताः पूता भवन्त्युत । 031c
दुष्कृतः सुकृतश्चैव तथा शस्त्रहता रणे ॥ 031e
भवत्यधर्मो धर्मो हि धर्मोऽधर्मो भवत्युत । 032a
कारणाद्देशकालस्य देशः कालः स तादृशः ॥ 032c
मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गमुत्तमम् । 033a
धर्म्याः पापानि कुर्वाणा गच्छन्ति परमां गतिम् ॥ 033c
ब्राह्मणस्त्रिषु कालेषु शस्त्रं गृह्णन्न दुष्यति । 034a
आत्मत्राणे दस्युदोषे सर्वस्वहरणे तथा ॥ 034c
युधिष्ठिर उवाच 035
अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसङ्करे । 035a
सम्प्रमूढेषु वर्णेषु यदन्योऽभिभवेद्बली ॥ 035c
ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम । 036a
दस्युभ्यो यः प्रजा रक्षेद्दण्डं धर्मेण धारयेत् ॥ 036c
कार्यं कुर्यान्न वा कुर्यात्स वार्यो वा भवेन्न वा । 037a
भीष्म उवाच 037
न स्म शस्त्रं गृहीतव्यमन्यत्र क्षत्रबन्धुतः ॥ 037c
अपारे यो भवेत्पारमप्लवे यः प्लवो भवेत् । 038a
शूद्रो वा यदि वाऽप्यन्यः सर्वथा मानमर्हति ॥ 038c
यमाश्रित्य नरा राजन्वर्तयेयुर्यथासुखम् । 039a
अनाथास्तप्यमानाश्च दस्युभिः परिपीडिताः ॥ 039c
तमेव पूजयेयुस्ते प्रीत्या स्वमिव बान्धवम् । 040a
महद्ध्यभीष्टं कौरव्य कर्ता सन्मानमर्हति ॥ 040c
किमनडुहा यो न वहेत्किं धेन्वा वाऽप्यदुग्धया । 041a
वन्ध्यया भार्यया कोऽर्थः कोऽर्थो राज्ञाऽप्यरक्षता ॥ 041c
यथा दारुमयो हस्ती यथा चर्ममयो मृगः । 042a
यथा ह्यदक्षः पुरुषः पथि क्षेत्रं यथोषरम् ॥ 042c
यथा विप्रोऽनधीयानो राजा यश्च न रक्षिता । 043a
मेघो न वर्षते यश्च सर्व एव निरर्थकाः ॥ 043c
नित्यं यस्तु सतो रक्षेदसतश्च निवर्तयेत् । 044a
स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम् ॥ 044c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टसप्ततितमोऽध्यायः ॥ 78 ॥
12-78-4 केसरिणः अश्वान् । पशून्गोजाविमहिषादीन् । कृतान्नं पक्वमन्नम् ॥ 12-78-6 विराट् अन्नम् ॥ 12-78-7 पक्वेनामस्य विनिमये पक्वदो दुष्यति नत्वामद इत्यर्थः ॥ 12-78-8 इदमप्यपवदति वयमिति । निमयम् इति झ. पाठः ॥ 12-78-19 कस्तस्य ब्राह्मणस्त्रातेति झ. पाठः ॥ 12-78-29 एवमेवात्मनस्त्यागान्नान्यम् इति झ. पाठः ॥ 12-78-30 नोऽस्माकम् ॥ 12-78-33 मैत्रा उत्तङ्कपराशरादयः । क्रूराणि सर्पराक्षससत्रादीनि । धर्म्या धर्मादनपेताः क्षत्रियाः । पापानि परराष्ट्रावमर्दादीनि । अधर्मस्य धर्मत्वे उदाहरणद्वयमुक्तम् । इदमेवाऽहिंसाख्यधर्माश्रयेऽधर्मरूपमपि भवतीति ज्ञेयम् ॥ 12-78-41 किं तैर्येऽनडुहो नोह्याः इति झ. पाठः ॥ 12-78-42 यदाह्यनर्थः षण्ढो वा पार्थ क्षेत्रम् इति झ. पाठः ॥