अध्यायः 077

भीष्मेण युधिष्ठिरम् प्रति केकयराजोपाख्यानकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
केषां प्रभवते राजा वित्तस्य भरतर्षभ । 001a
कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् । 002a
ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत ॥ 002c
विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथञ्चन । 003a
इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः ॥ 003c
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः । 004a
राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप ॥ 004c
अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा । 005a
तस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन् ॥ 005c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 006a
गीतं केकयराजेन ह्रियमाणेन रक्षसा ॥ 006c
केकयानामधिपतिं रक्षो जग्राह दारुणम् । 007a
स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम् ॥ 007c
राजोवाच 008
न मे स्तेनो जनपदे न कदर्यो न मद्यपः । 008a
नानाहिताग्निर्नायज्वा मा ममान्तरमाविशः ॥ 008c
न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः । 009a
द्विजातिर्विषये मह्यं मा ममान्तरमाविशः ॥ 009c
नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये मम । 010a
नाधीते चाव्रती कश्चिन्मा ममान्तरमाविशः ॥ 010c
अध्यापयन्त्यधीयन्ते यजन्ते याजयन्ति च । 011a
ददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः ॥ 011c
पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः । 012a
ब्राह्मणा मे स्वकर्मस्था मा ममान्तरमाविशः ॥ 012c
न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः । 013a
नाध्यापयन्त्यधीयन्ते यजन्ते याजयन्ति न ॥ 013c
ब्राह्मणान्परिरक्षन्ति सङ्ग्रामेष्वपलायिनः । 014a
क्षत्रिया मे स्वकर्मस्था मा ममान्तरमाविशः ॥ 014c
कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया । 015a
अप्रमत्ताः क्रियावन्तः सुवृत्ताः सत्यवादिनः ॥ 015c
संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः । 016a
मम वैश्याः स्वकर्मस्था मा ममान्तरमाविशः ॥ 016c
त्रीन्वर्णानुपतिष्ठन्ते यथावदनसूयकाः । 017a
मम शूद्राः स्वकर्मस्था मा ममान्तरमाविशः ॥ 017c
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् । 018a
संविभक्ताऽस्मि सर्वेषां मा ममान्तरमाविशः ॥ 018c
कुलानुरूपधर्माणां प्रस्थितानां यथाविधि । 019a
अव्युच्छेत्ताऽस्मि सर्वेषां मा ममान्तरमाविशः ॥ 019c
तपस्विनो मे विषये पूजिताः परिपालिताः । 020a
संविभक्ताश्च सत्कृत्य मा ममान्तरमाविशः ॥ 020c
नासंविभज्य भोक्ताऽस्मि न विशामि परस्त्रियम् । 021a
स्वतन्त्रो जातु न क्रीडे मा ममान्तरमाविशः ॥ 021c
नाब्रह्मचारी भिक्षावान्भिक्षुर्वा ब्रह्मचर्यवान् । 022a
अनृत्विजा हुतं नास्ति मा ममान्तरमाविशः ॥ 022c
'कृतं राज्यं मया सर्वं राज्यस्थेनापि कार्यवत् । 023a
नाहं व्युत्क्रामितः सत्यान्मा ममान्तरमाविशः ॥' 023c
नावजानाम्यहं वैद्यान्न वृद्धान्न तपस्विनः । 024a
राष्ट्रे स्वपति जागर्मि मा ममान्तरमाविशः ॥ 024c
'शुक्लकर्मास्मि सर्वत्र न दुर्गतिभयं मम । 025a
धर्मचारी गृहस्थश्च मा ममान्तरमाविशः ॥' 025c
वेदाध्ययनसम्पन्नस्तपस्वी सत्यधर्मवित् । 026a
स्वामी सर्वस्य राष्ट्रस्य धीमान्मम पुरोहितः ॥ 026c
दानेन दिव्यानभिवाञ्छामि लोकान्सत्येनाथ ब्राह्मणानां च गुप्त्या । 027a
शुश्रूषया चापि गुरूनुपैमि न मे भयं विद्यते राक्षसेभ्यः ॥ 027c
न मे राष्ट्रे विधवा ब्रह्मबन्धुर्न ब्राह्मणः कितवो नोत चोरः । 028a
नायाज्ययाजी न च पापकर्मा न मे भयं विद्यते राक्षसेभ्यः ॥ 028c
न मे शस्त्रैरनिर्भिन्नं गात्रे व्द्यङ्गुलमन्तरम् । 029a
धर्मार्थं युध्यमानस्य मा ममान्तरमाविशः ॥ 029c
गोब्राह्मणेभ्यो यज्ञेभ्यो नित्यं स्वस्त्ययनं मम । 030a
आशासते जना राष्ट्रे मा ममान्तरमाविशः ॥ 030c
राक्षस उवाच 031
'नारीणां व्यभिचाराच्च अन्यायाच्च महीक्षिताम् । 031a
विप्राणां कर्मदोषाच्च प्रजानां जायते भयम् ॥ 031c
अवृष्टिर्मारको दोषः सततं क्षुद्भयानि च । 032a
विग्रहश्च सदा तस्मिन्देशे भवति दारुणः ॥ 032c
यक्षरक्षःपिशाचेभ्यो नासुरेभ्यः कथञ्चन । 033a
भयमुत्पद्यते तत्र यत्र विप्राः सुसंयताः ॥ 033c
गन्धर्वाप्सरसः सिद्धाः पन्नगाश्च सरीसृपाः । 034a
मानवान्न जिघांसन्ति यत्र नार्यः पतिव्रताः ॥ 034c
ब्राह्मणाः क्षत्रिया वैश्या यत्र शूद्राश्च धार्मिकाः । 035a
नाऽनावृष्टिभयं तत्र न दुर्भिक्षं न विभ्रमः ॥ 035c
धार्मिको यत्र भूपालो न तत्रास्ति पराभवः । 036a
उत्पाता न च दृश्यन्ते न दिव्या न च मानुषाः ॥ 036c
यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे । 037a
तस्मात्प्राप्नुहि कैकेय गृहं स्वस्ति व्रजाम्यहम् ॥ 037c
येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय । 038a
न रक्षोऽभ्यो भयं तेषां कुत एव तु पातकम् ॥ 038c
येषां पुरोगमा विप्रा येषां ब्रह्म परं बलम् । 039a
सुरक्षितास्तथा विप्रास्ते वै स्वर्गजितो नृपाः ॥ 039c
भीष्म उवाच 040
तस्माद्द्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताः । 040a
आशीरेषां भवेद्राजन्राज्ञां सम्यक्प्रवर्तताम् ॥ 040c
तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः । 041a
नियम्याः संविभज्याश्च प्रजानुग्रहकारणात् ॥ 041c
एवं यो वर्तते राजा पौरजानपदेष्विह । 042a
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ॥ 042c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तसप्ततितमोऽध्यायः ॥ 77 ॥

12-77-8 मामकान्तरमाविभः इति ट. ड. थ. पाठः । मामकान्तरमाविशः इति झ. पाठः ॥ 12-77-27 न पापकारी न च पापवक्ता इति ट. ड. थ. द. पाठः ॥