अध्यायः 076
भीष्मेण युधिष्ठिरम् प्रति ब्राह्मणानां निषिद्धकर्मकथनम् राजधर्मकथनञ्च ॥
युधिष्ठिर उवाच 001
स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि । 001a
तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह ॥ 001c
भीष्म उवाच 002
विद्यालक्षणसम्पन्नाः सर्वत्राम्नायदर्शिनः । 002a
एते ब्रह्मसमा राजन्ब्राह्मणाः परिकीर्तिताः ॥ 002c
ऋत्विगाचार्यसम्पन्नाः स्वेषु कर्मस्ववस्थिताः । 003a
एते देवसमा राजन्ब्राह्मणानां भवन्त्युत ॥ 003c
'गोऽजाविमहिषाणां च बडबानां च पोषकाः । 004a
वृत्त्यर्थं प्रतिपद्यन्ते तान्वैश्यान्सम्प्रचक्षते ॥ 004c
ऐश्वर्यकामा ये चापि सामिषा वाऽपि भारत । 005a
निग्रहानुग्रहरतांस्तान्द्विजान्क्षत्रियान्विदुः ॥ 005c
अश्वारोहा गजारोहा रथिनोऽथ पदातयः । 006a
एते वैश्यसमा राजन्ब्राह्मणानां भवन्त्युत ॥ 006c
जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः । 007a
एते शूद्रसमा राजन्ब्राह्मणानां भवन्त्युत ॥ 007c
अश्रोत्रियाः सर्वे एते सर्वे चानाहिताग्नयः । 008a
तान्सर्वान्धार्मिको राजा बलिं विष्टिं च कारयेत् ॥ 008c
आह्वायका देवलका नाक्षत्रा ग्रामयाजकाः । 009a
एते ब्राह्मणचाण्डाला महापथिकपञ्चमाः ॥ 009c
[ऋत्विक्पुरोहितो मन्त्री दूतो वार्तानुकर्षकः । 010a
एते क्षत्रसमा राजन्ब्राह्मणानां भवन्त्युत ॥] 010c
'म्लेच्छदेशाश्च ये केचित्पापैरध्युषिता नरैः । 011a
गत्वा तु ब्राह्मणस्तांश्च चण्डालः प्रेत्य चेह च ॥ 011c
व्रात्यान्म्लेच्छांश्च शूद्रांश्च याजयित्वा द्विजाधमः । 012a
अकीर्तिमिह सम्प्राप्य नरकं प्रतिपद्यते ॥ 012c
महावृन्दसमुद्राभ्यां पर्यायेणैकविंशतिम् । 013a
ब्राह्मणो ऋग्यजुः साम्नां मूढः कृत्वा तु विप्लवम् ॥ 013c
कल्पमेकं कृमिस्थोऽथ नानाविष्ठासु जायते । 014a
व्रात्ये म्लेच्छे तथा शूद्रे तस्करे पतितेऽशुचौ ॥ 014c
कुदेशे च सुरापे च ब्रह्मघ्ने वृषलीपतौ । 015a
अनधीतेषु सर्वत्र भुञ्जाने यत्र तत्र वा ॥ 015c
वालस्त्रीवृद्धहन्तुश्च मातापित्रोर्गुरोस्तथा । 016a
मित्रद्रुहि कृतघ्ने च गोघ्ने चैव कथञ्चन ॥ 016c
पुत्रघातिनि शत्रौ च न मन्त्राद्याजयेद्द्विजः । 017a
स तेषां विप्लवः प्रोक्तो मन्त्रविद्भिः सनातनैः ॥ 017c
यदि विप्रो विदेशस्थस्तीर्थयात्रां गतोऽपि वा । 018a
यदि भीतः प्रपन्नो वा कुदेशं शौचवर्जितम् ॥ 018c
सुसंयतः शुचिर्भूत्वा मन्त्रानुच्चारयेद्द्विजः । 019a
आर्तश्चोच्चारयेन्मन्त्रमार्तत्राणपरोऽथवा । 019c
हीनेष्वपि प्रयुञ्जानो नासौ विप्लावकः स्मृतः ॥ 019e
क्रूरकर्मा विकर्मा वा कर्मभिर्वञ्चितोऽथवा । 020a
तत्त्ववित्तरते पापं शीलवान्संयतेन्द्रियः ॥' 020c
एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिः । 021a
ऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च ॥ 021c
अब्राह्मणानां वित्तस्य स्वामी राजेति नः श्रुतिः । 022a
ब्राह्मणानां च ये केचिद्विकर्मस्था इति श्रुतिः | 022c
'प्रागुक्तांश्चाप्यनुक्तांश्च सर्वांस्तान्दापयेत्करान् ||' 022e
विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथञ्चन । 023a
नियम्याः संविभज्याश्च धर्मानुग्रहकाम्यया ॥ 023c
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः । 024a
राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः ॥ 024c
अवृत्त्या यो भवेत्स्तेनो वेदवित्स्नातकस्तथा । 025a
राजन्स राज्ञा भर्तव्य इति वेदविदो विदुः ॥ 025c
स चेन्नापि निवर्तेत कृतवृत्तिः परन्तप । 026a
ततो निर्वासनीयः स्यात्तस्माद्देशात्सबान्धवः ॥ 026c
'यज्ञः श्रुतमपैशुन्यमहिंसाऽतिथिपूजनम् । 027a
दमः सत्यं तपो दानमेतद्ब्राह्मणलक्षणम् ॥' 027c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षट्सप्ततितमोऽध्यायः ॥ 76 ॥
12-76-3 ऋग्यजुःसामसम्पन्नाः इति झ. पाठः ॥ 12-76-7 जन्मकर्मजन्मोचितकर्म तेन विहीनाः ॥ 12-76-8 बलिं करदानम् । विष्टिंविना वेतनं राजसेवाम् ॥ 12-76-9 आह्वायका धर्माधिकारिणः । देवलका वेतनेन देवपूजाकर्तारः । महापथिकः समुद्रे नौयानेन गच्छन् । यद्वा महापथि शुल्कग्राहकः ॥