अध्यायः 075
राज्यस्वीकारे अधर्माशङ्किनं युधिष्ठिरं प्रति भीष्मेण तस्य धार्मिकत्वसमर्थनेन तद्विधानम् ॥ 1 ॥
युधिष्ठिर उवाच 001
यया वृत्त्या महीपालो विवर्धयति मानवान् । 001a
पुण्यांश्च लोकाञ्जयति तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
दानशीलो भवेद्राजा यज्ञशीलश्च भारत । 002a
उपवासतपः शीलः प्रजानां पालने रतः ॥ 002c
सर्वाश्चैव प्रजा नित्यं राजा धर्मेण पालयन् । 003a
उत्थानेन प्रदानेन पूजयेच्चापि धार्मिकान् ॥ 003c
राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते । 004a
यद्यदाचरते राजा तत्प्रजानां स्म रोचते ॥ 004c
नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु । 005a
निहन्यात्सर्वतो दस्यून्न राज्ञो दस्युषु क्षमा ॥ 005c
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः । 006a
चतुर्थं तस्य धर्मस्य राजा भागं च विन्दति ॥ 006c
यदधीते यद्ददाति यञ्जुहोति यदर्चति । 007a
राजा चतुर्थभाक्तस्य प्रजा धर्मेण पालयन् ॥ 007c
यद्राष्ट्रोऽकुशलं किञ्चिद्राज्ञो रक्षयतः प्रजाः । 008a
चतुर्थं तस्य पापस्य राजा भारत विन्दति ॥ 008c
अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः । 009a
कर्मणा पृथिवीपाल नृशंसोऽनृतवागपि ॥ 009c
तादृशात्किल्बिपाद्राजा शृणु येन प्रमुच्यते । 010a
प्रत्याहर्तुमशक्यं स्याद्धनं चोरैर्हृतं यदि । 010c
तत्स्वकोशात्प्रदेयं स्यादशक्तेनोपजीवतः ॥ 010e
सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणा यथा । 011a
न स्थेयं विषये तेन योऽपकुर्याद्द्विजातिषु ॥ 011c
ब्रह्मस्वे रक्ष्यमाणे तु सर्वं भवति रक्षितम् । 012a
तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन्नृपः ॥ 012c
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः । 013a
नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम् ॥ 013c
न हि कामात्मना राज्ञा सततं शठबुद्धिना । 014a
नृशन्नेनातिलुब्धेन शक्यं पालयितुं प्रजाः ॥ 014c
युधिष्ठिर उवाच 015
नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम् । 015a
धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते ॥ 015c
तदल मम राज्येन यत्र धर्मो न विद्यते । 016a
वनमेव गमिष्यामि तस्माद्धर्मचिकीर्षया ॥ 016c
तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः । 017a
धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः ॥ 017c
भीष्म उवाच 018
वेदाहं तव या बुद्धिरानृशंस्येऽगुणैव सा । 018a
न च नित्यानृशंसेन शक्यं राज्यमुपासितुम् ॥ 018c
सदैव त्वां मृदुप्रज्ञमत्यार्यमतिधार्मिकम् । 019a
क्लीबं धर्मघृणायुक्तं न लोको बहुमन्यते ॥ 019c
राजधर्ममवेक्षस्व पितृपैतामहोचितम् । 020a
नैतद्राज्ञामथो वृत्तं यथा त्वं स्थातुमिच्छसि ॥ 020c
न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः । 021a
प्रजापालनसम्भूतं प्राप्तो धर्मफलं ह्यसि ॥ 021c
न ह्येतामाशिषं पाण्डुर्न च कुन्त्यभ्यभाषत । 022a
'विचित्रवीर्यो धर्मात्मा चित्रवीर्यो नराधिपः ॥ 022c
शन्तनुश्च महीपालः सर्वक्षत्रस्य पूजितः । 023a
'तवैतां प्राज्ञतां तात यथा चरसि मेधया ॥ 023c
शौर्यं बलं च सत्यं च पिता तव सदाऽब्रवीत् । 024a
महत्त्वं बलमौदार्यं भवतः कुन्त्ययाचत ॥ 024c
नित्यं स्वाहा स्वधा नित्यं चोभे मानुषदैवते । 025a
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च ॥ 025c
दानमध्ययनं यज्ञं प्रजानां परिपालनम् । 026a
धर्म्यमेतदधर्म्यं वा जन्मनैवाभ्यजायथाः ॥ 026c
कुले धुरि च युक्तानां वहतां भारमीदृशम् । 027a
सीदतामपि कौन्तेय कीर्तिर्न परिहीयते ॥ 027c
समन्ततो विनीतो यो वहत्यस्खलितो हि सः । 028a
निर्दोषकर्मवचनात्सिद्धिः कर्मण एव सा ॥ 028c
नैकान्ते विनिपातेऽपि विहरेदिह कश्चन । 029a
धर्मी गृही वा राजा वा ब्रह्मचार्यथवा द्विजः ॥ 029c
अल्पं हि सारभूयिष्ठं यत्कर्मोदारमेव तत् । 030a
कृतमेवाकृताच्छ्रेयो न पापीयोऽस्य कर्मणः ॥ 030c
यदा कुलीनो धर्मज्ञः प्राप्नोत्यैश्वर्यमुत्तमम् । 031a
योगक्षेमस्तदा राज्ञः कुशलायैव कल्पते ॥ 031c
दानेनान्यं बलेनान्यमन्यं सूनृतया गिरा । 032a
सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः ॥ 032c
यं हि वैद्याः कुले जाता ह्यवृत्तिभयपीडिताः । 033a
प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः कोऽभ्यधिकस्ततः ॥ 033c
युधिष्ठिर उवाच 034
किं न्वतः परमं स्वर्ग्यं का ततः प्रीतिरुत्तमा । 034a
किं ततः परमैश्वर्यं ब्रूहि मे यदि पश्यसि ॥ 034c
भीष्म उवाच 035
यस्मिन्भयार्दिताः सन्तः क्षेमं विन्दन्त्यपि क्षणम् । 035a
स स्वर्गजित्तमोऽस्माकं सत्यमेतद्ब्रवीमि ते ॥ 035c
त्वमेव प्रीतिमांस्तस्मात्कुरूणां कुरुसत्तम । 036a
भव राजा जय स्वर्गं सतो रक्षाऽसतो जहि ॥ 036c
अनु त्वां तात जीवन्तु सुहृदः साधुभिः सह । 037a
पर्जन्यमिव भूतानि स्वादुद्रुममिव द्विजाः ॥ 037c
धृष्टं शूरं प्रहर्तारमनृशंसं जितेन्द्रियम् । 038a
वत्सलं संविभक्तारमुपजीवन्तु बान्धवाः ॥ 038c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥
12-75-5 न कामात्कस्यचित्क्षमेदिति झ.पाठः ॥ 12-75-7 यदधीते ब्राह्मणादिः ॥ 12-75-10 अशक्तेन राज्ञा उपजीवतः धनोपजीविनो वणिजादेः ॥ 12-75-32 प्रतिगृह्णीयाद्वशीकुर्यात् ॥