अध्यायः 074

भीष्मेण युधिष्ठिरम्प्रति मुचुकुन्दचरितदृष्टान्तीकरणेन क्षत्रस्य ब्रह्माधीनत्वसमर्थनम् ॥ 1 ॥ 'युधिष्ठिर उवाच । 001
ब्रह्मक्षत्रस्य सामर्थ्यं कथितं ते पितामह । 001a
पुरोहितप्रभावश्च लक्षणं च पुरोधसः ॥ 001c
इदानीं श्रोतुमिच्छामि ब्रह्मक्षत्रविनिर्णयम् । 002a
ब्रह्मक्षत्रं हि सर्वस्य कारणं जगतः परम् । 002c
योगक्षेमो हि राष्ट्रस्य ताभ्यामायत्त एव च ॥' 002e
भीष्म उवाच । 003
योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते । 003a
योगक्षेमो हि राज्ञो हि समायत्तः पुरोहिते ॥ 003c
यत्रादृष्टं भयं ब्रह्म प्रजानां शमयत्युत । 004a
दृष्टं च राजा बाहुभ्यां तद्राज्यं सुखमेधते ॥ 004c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 005a
मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च ॥ 005c
मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः । 006a
जिज्ञासमानः स बलमभ्ययादलकाधिपम् ॥ 006c
ततो वैश्रवणो राजा राक्षसानसृजत्तदा । 007a
ते बलान्यवमृद्गन्त मुचुकुन्दस्य नैर्ऋताः ॥ 007c
स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः । 008a
गर्हयामास विद्वांसं पुरोहितमरिन्दमः ॥ 008c
तत उग्रं तपस्तप्त्वा वसिष्ठो धर्मवित्तमः । 009a
रक्षांस्युपावधीत्तत्र पन्थानं चाप्यविन्दत ॥ 009c
ततो वैश्रवणो राजा मुचुकुन्दमगर्हयत् । 010a
वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत् ॥ 010c
धनद उवाच । 011
बलवन्तस्त्वया पूर्वे राजानः सपुरोहिताः । 011a
न चैवं समवर्तन्त यथा त्वमिव वर्तसे ॥ 011c
ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः । 012a
आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः ॥ 012c
यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसि । 013a
किं ब्राह्मणबलेन त्वमतिमात्रं प्रवर्तसे ॥ 013c
मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम् । 014a
न्यायपूर्वमसंलब्धमसम्भ्रान्तमिदं वचः ॥ 014c
ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयम्भुवा । 015a
पृथग्बलविधानं च तल्लोकं परिपालयेत् ॥ 015c
तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम् । 016a
अस्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम् ॥ 016c
ताभ्यां सम्भूय कर्तव्यं प्रजानां परिपालनम् । 017a
तथा च मां प्रवर्तन्तं किं गर्हस्यलकाधिप ॥ 017c
ततोऽब्रवीद्वैश्रवणो राजानं सपुरोहितम् । 018a
नाहं राज्यमनिर्दिष्टं कस्मैचिद्विदधाम्युत ॥ 018c
नाच्छिन्दे वाऽप्यनिर्दिष्टमिति जानीहि पार्थिव । 019a
प्रशाधि पृथिवीं कृत्स्नां मद्दत्तामखिलामिमाम् । 019c
[एवमुक्तः प्रत्युवाच मुचुकुन्दो महीपतिः ॥] 019e
नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव । 020a
बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये ॥ 020c
भीष्म उवाच । 021
ततो वैश्रवणो राजा विस्मयं परमं ययौ । 021a
क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमरिन्दमम् ॥ 021c
ततो राजा मुचुकुन्दः सोन्वशासद्वसुन्धराम् । 022a
बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः ॥ 022c
एवं यो ब्रह्मविद्राजा ब्रह्मपूर्वं प्रवर्तते । 023a
स भुङ्क्ते विजितामुवीं यशश्च महदश्नुते ॥ 023c
नित्योदकी ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः । 024a
तयोर्हि सर्वमायत्तं यत्किञ्चिज्जगतीगतम् ॥ 024c
यशश्च तेजश्व महीं च कृत्स्नाम्प्राप्नोति राजन्विपुलां च कीर्तिम् । 025a
प्रधानधर्मं नृपते नियच्छतथा च धर्मस्य चतुर्थमंशम् ॥ 025c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥

12-74-7 असृजदतिसृष्टवान् । आज्ञापितवानिति यावत् ॥ 12-74-11 त्वया त्वत्तः ॥ 12-74-25 नियच्छ गृहाणेत्यर्थः ।