अध्यायः 073

भीष्मेण युधिष्ठिरम्प्रति पुरोहितलक्षणादिवर्णनम् । ऐलकश्यपसंवादानुवादश्च ॥ 1 ॥ 'युधिष्ठिर उवाच 001
राज्ञा पुरोहितः कार्यः कीदृशो वर्णतो भवेत् । 001a
पुरोधा यादृशः कार्यः कथयस्व पितामह ॥ 001c
भीष्म उवाच 002
गौरो वा लोहितो वाऽपि श्यामो वा नीरुजः सुखी । 002a
अक्रोधनो ह्यचपलः सर्वतश्च जितेन्द्रियः ॥' 002c
राज्ञा पुरोहितः कार्यो भवेद्विद्वान्बहुश्रुतः । 003a
उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम् ॥ 003c
धर्मात्मा मन्त्रविद्येषां राज्ञां राजन्पुरोहितः । 004a
'तेषामर्थश्च कामश्च धर्मश्चेति विनिश्चयः ॥ 004c
श्लोकाश्चोशनसा गीतास्तान्निबोध युधिष्ठिर । 005a
उच्छिष्टः स भवेद्राजा यस्य नास्ति पुरोहितः ॥ 005c
रक्षसामसुराणां च पिशाचोरगपक्षिणाम् । 006a
शत्रूणां च भवेद्वध्यो यस्य नास्ति पुरोहितः ॥ 006c
ब्रह्मत्वं सर्वयज्ञेषु कुर्वीताथर्वणो द्विजः । 007a
राज्ञश्चाथर्ववेदेन सर्वकर्माणि कारयेत् ॥ 007c
ब्रूयाद्गर्ह्याणि सततं महोत्पातान्यघानि च । 008a
इष्टमङ्गलयुक्तानि तथाऽन्तः पुरिकाणि च ॥ 008c
गीतनृत्ताधिकारेषु सम्मतेषु महीपतेः । 009a
कर्तव्यं करणीयं वै वैश्वदेवबलिस्तथा ॥ 009c
पक्षसन्धिषु कुर्वीत महाशान्तिं पुरोहितः । 010a
रौद्रहोमसहस्रं च स्वस्य राज्ञः प्रियं हितम् ॥ 010c
राज्ञः पापमलाः सप्त यानृच्छति पुरोहितः । 011a
अमात्याश्च कुकर्माणो मन्त्रिणश्चाप्युपेक्षकाः ॥ 011c
चौर्यमव्यवहारश्च व्यवहारोपसेविनाम् । 012a
अदण्ड्यदण्डनं चैव दण्ड्यानां चाप्यदण्डनम् ॥ 012c
हिंसा चान्यत्र सङ्ग्रामाद्राज्ञश्च मल उच्यते । 013a
कुभृत्यैस्तु प्रजानाशः सप्तमस्तु महामलः ॥ 013c
रौद्रैर्होमैर्महाशान्त्या घृतकम्बलकर्मणा । 014a
भृग्वङ्गिरोविधिज्ञो वै पुरोधा निर्णुदे मलात् ॥ 014c
एतान्हित्वा दिवं याति राजा सप्त महामलान् । 015a
सामात्यः सपुरोधाश्च प्रजानां पालने रतः ॥ 015c
एतस्मिन्नेव कौरव्य पौरोहित्ये महामते । 016a
श्लोकानाह महेन्द्रस्य गुरुर्देवो बृहस्पतिः ॥ 016c
तान्निबोध महीपाल महाभाग हिताञ्शुभान् । 017a
ऋग्वेदे सामवेदे च यजुर्वेदे च वाजिनाम् ॥ 017c
न निर्दिष्टानि कर्माणि त्रिषु स्थानेषु भूभृताम् । 018a
शान्तिकं पौष्टिकं चैव अरिष्टानां च शातनम् ॥ 018c
शप्तास्ते याज्ञवल्क्येन यज्ञानां हितमीहता । 019a
ब्रह्मिष्ठानां वरिष्ठेन ब्रह्मणः सम्मते विभोः ॥ 019c
बह्वृचं सामगं चैव वाजिनं च विवर्जयेत् । 020a
बह्वृचो राष्ट्रनाशाय राजनाशाय सामगः । 020c
अध्वर्युर्बलनाशाय प्रोक्तो वाजसनेयकः ॥ 020e
अब्राह्मणेषु वर्णेषु मन्त्रान्वाजसनेयकान् । 021a
शान्तिके पौष्टिके चैव नित्यं कर्मणि वर्जयेत् ॥ 021c
ब्राह्मणस्य महीपस्य सर्वथा न विरोधिनः । 022a
वेदाश्चत्वार इत्येते ब्राह्मणा ये च तद्विदुः ॥ 022c
पौरोहित्ये प्रमाणं तु ब्राह्मणश्च महीपतेः । 023a
जात्या न क्षत्रियः प्रोक्तः क्षतत्राणं करोति यः ॥ 023c
चातुर्वर्ण्यबहिष्ठोऽपि स एव क्षत्रियः स्मृतः । 024a
भार्गवाङ्गिरसैर्मन्त्रैस्तेषां कर्म विधीयते ॥ 024c
वैतानं कर्म यच्चैव गृह्यकर्म च यत्स्मृतम् । 025a
द्विजातीनां त्रयाणां तु सर्वकर्म विधीयते ॥ 025c
राजधर्मप्रवृत्तानां हितार्थं त्रीमि कारयेत् । 026a
शान्तिकं पौष्टिकं चैव तथाऽभिचरणं च यत् ॥ 026c
अग्निष्टोममुखैर्यज्ञैर्दूषिता भूपकर्मभिः । 027a
न सम्यक्फलमृच्छन्ति ये यजन्ति द्विजातयः ॥ 027c
पौरोहित्यं तु कुर्वाणा नाशं यास्यन्ति भूभृताम् । 028a
यज्ञकर्माणि कुर्वाणा ऋत्विजस्तु विरोधिनः ॥ 028c
ब्रह्मक्षत्रविशः सर्वे पौरोहित्ये विवर्जिताः । 029a
तदभावे च पारक्यं निर्दिष्टं राजकर्मसु ॥ 029c
ऋषिणा याज्ञवल्क्येन तत्तथा न तदन्यथा । 030a
भार्गवाङ्गिरसां वेदे कृतविद्यः षडङ्गवित् ॥ 030c
यज्ञकर्मविधिज्ञस्तु विधिज्ञः पौष्टिकेषु च । 031a
अष्टादशविकल्पानां विधिज्ञः शान्तिकर्मणाम् ॥ 031c
सर्वरोगविहीनश्च संयतः संयतेन्द्रियः । 032a
श्वित्रकुष्ठक्षयक्षीणैर्ग्रहापस्मारदूषितैः ॥ 032c
अशस्तैर्वातदुष्टैश्च दूरस्थैः संवदेन्नृपः । 033a
रोगिणं ऋत्विजं चैव वर्जयेच्च पुरोहितम् ॥ 033c
नचान्यस्य कृतं येन पौरोहित्यं कदाचन । 034a
यस्य याज्यो मृतश्चैव भ्रष्टः प्रव्रजितो यथा ॥ 034c
युद्धे पराजितश्चैव सर्वांस्तान्वर्जयेन्नृपः । 035a
नक्षत्रस्यानुकूल्येन यः सञ्जातो नरेश्वरः ॥ 035c
राजशास्त्रविनीतश्च श्रेयान्राज्ञः पुरोहितः । 036a
अधन्यानां निमित्तानामुत्पातानामथार्थवित् ॥ 036c
शत्रुपक्षक्षयज्ञश्च श्रेयान्राज्ञः पुरोहितः । 037a
वाजिनं तदभावे च चरकाध्वर्यवानपि ॥ 037c
बह्वृचं सामगं चैव नीतिशास्त्रकृतश्रमान् । 038a
कृतिनोऽथर्वणो वेदे स्थापयेत्तु पुरोहितान् ॥ 038c
हिंसालिङ्गा हि निर्दिष्टा मन्त्रा वैतानिकैर्द्विजैः । 039a
न तानुच्चारयेत्प्राज्ञः क्षात्रधर्मविरोधिनः ॥ 039c
प्रजागुणाः पुरोधाश्च पुरोहितगुणाः प्रजाः । 040a
'राजा वै सगुणो येषां कुशलं तेषु सर्वशः ॥ 040c
उभौ प्रजा वर्धयतो देवान्पूर्वापरान्पितॄन् । 041a
यौ भवेतां स्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ ॥ 041c
परस्परस्य सुहृदौ विहितौ समचेतसौ । 042a
ब्रह्मक्षत्रस्य समानात्प्रजा सुखमवाप्नुयात् ॥ 042c
विमाननात्तयोरेव प्रजा नश्येयुरेव हि । 043a
ब्रह्मक्षत्रं हि सर्वासां प्रजानां मूलमुच्यते ॥ 043c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 044a
ऐलकश्यपसंवादं तं निबोध युधिष्ठिर ॥ 044c
ऐल उवाच 045
यदा हि ब्रह्म प्रजहाति क्षत्रङ्क्षत्रं यदा वा प्रजहाति ब्रह्म । 045a
अन्वग्बलं कतमेऽस्मिन्भजन्तेतथा बलं कतमेऽस्मिन्ध्रियन्ते ॥ 045c
कश्यप उवाच 046
द्विधा हि राष्ट्रं भवति क्षत्रियस्यब्रह्म क्षत्रं यत्र विरुध्यतीह । 046a
अन्वग्बलं दस्यवस्तद्भजन्तेतथा वर्णं तत्र विदन्ति सन्तः ॥ 046c
नैषां ब्रह्म च वर्धते नोत पुत्रान गर्गरो मथ्यते नो जयन्ते । 047a
नैषां पुत्रा देवमधीयते चयदा ब्रह्म क्षत्रियाः सन्त्यजन्ति ॥ 047c
नैषामर्थो वर्धते जातु गेहेनाधीयते तत्प्रजा नो यजन्ते । 048a
अपध्वस्ता दस्युभूता भवन्तिये ब्राह्मणान्क्षत्रियाः सन्त्यजन्ति ॥ 048c
एतौ हि नित्यं संयुक्तावितरेतरधारणे । 049a
क्षत्रं वै ब्रह्मणो योनिर्योनिः क्षत्रस्य वै द्विजः ॥ 049c
उभावेतौ नित्यमभिप्रपन्नौसम्प्रापतुर्महतीं सम्प्रतिष्ठाम् । 050a
तयोः सन्धिर्भिद्यते चेत्पुराणस्ततः सर्वं भवति हि सम्प्रमूढम् ॥ 050c
नात्र पारं लभते पारगामीमहोदधौ नौरिव सम्प्रभिन्ना । 051a
चातुर्वण्यं भवति हि सम्प्रमूढम्प्रजास्ततः क्षयसंस्था भवन्ति ॥ 051c
ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति । 052a
अरक्ष्यमाणः सततमश्रु पापं च वर्षति ॥ 052c
अब्रह्मचारी चरणादपेतोयदा ब्रह्म ब्रह्मणि त्राणमिच्छेत् । 053a
आश्चर्यतो वर्षति तत्र देवस्तत्राभीक्ष्णं दुष्प्रभाश्चाविशन्ति ॥ 053c
स्त्रियं हत्वा ब्राह्मणं वाऽपि पापःसभायां यत्र लभते साधुवादम् । 054a
राज्ञः सकाशे न विभेति चापिततो भयं विद्यते क्षत्रियस्य ॥ 054c
पापैः पापे क्रियमाणेऽतिवेलन्ततो रुद्रो जायते देव एषः । 055a
पापैः पापाः सञ्जनयन्ति रुद्रन्ततः सर्वान्साध्वसाधून्हिनस्ति ॥ 055c
ऐल उवाच 056
कुतो रुद्रः कीदृशो वाऽपि रुद्रःसत्वैः सत्वं दृश्यते वध्यमानम् । 056a
एतत्सर्वं कश्यप मे प्रचक्ष्वयतो रुद्रो जायते देव एषः ॥ 056c
कश्यप उवाच 057
आत्मा रुद्रो हृदये मानवानांस्वं स्वं देहं परदेहं च हन्ति । 057a
वातोत्पातैः सदृशं रुद्रमाहुर्देवं जीमूतैः सदृशं रूपमस्य ॥ 057c
ऐल उवाच 058
न वै वातः परिवृणोति कश्चिन्न जीमूतो वर्षति तत्र देवः । 058a
तथा युक्तो दृश्यते मानुषेषुकामद्वेषाद्वध्यते मुह्यते च ॥ 058c
कश्यप उवाच 059
यथैकगेहाज्जातवेदाः प्रदीप्तःकृत्स्नं ग्रामं दहते च त्वरावान् । 059a
विमोहनं कुरुते देव एपततः सर्वं स्पृश्यते पुण्यपापैः ॥ 059c
ऐल उवाच 060
यदि दण्डः स्पृशतेऽपुण्यपापम्पापं पापे क्रियमाणे विशेषात् । 060a
कस्य हेतोः सुकृतं नाम कुर्याद्दुष्कृतं वा कस्य हेतोर्न कुर्यात् ॥ 060c
कश्यप उवाच 061
असन्त्यागात्पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात् । 061a
शुष्केणार्द्रं दह्यते मिश्रभावान्न मिश्रः स्यात्पापकृद्भिः कथञ्चित् ॥ 061c
ऐल उवाच 062
साध्वसाधून्धारयतीह भूमिःसाध्वसाधूंस्तापयतीह सूर्यः । 062a
साध्वसाधूंश्चापि वातीह वायुरापस्तथा साध्वसाधून्वहन्ति ॥ 062c
कश्यप उवाच 063
एवमस्मिन्वर्तते लोक एषनामुत्रैवं वर्तते राजपुत्र । 063a
प्रेत्यैतयोरन्तरावान्विशेषोयो वै पुण्यं चरते यश्च पापम् ॥ 063c
पुण्यस्य लोको मधुमान्घृतार्चिर्हिरण्यज्योतिरमृतस्य नाभिः । 064a
तत्र प्रेत्य मोदते ब्रह्मचारीन तत्र मृत्युर्न जरा नोत दुःखम् ॥ 064c
पापस्य लोको निरयोऽप्रकाशोनित्यं दुःखं शोकभूयिष्ठमेव । 065a
तत्रात्मानं शोचति पापकर्मावह्वीः समाः प्रतपन्नप्रतिष्ठः ॥ 065c
मिथोभेदाद्ब्राह्मणक्षत्रियाणाम्प्रजा दुःखं दुःसहं चाविशन्ति । 066a
एवं ज्ञात्वा कार्य एवेह विद्वान्पुरोहितो नैकविद्यो नृपेण ॥ 066c
तं चैव लब्ध्वाभिषिञ्चेत्तथा धर्मो विधीयते । 067a
अग्रं हि ब्राह्मणः प्रोक्तं सर्वस्यैवेह धर्मतः ॥ 067c
पूर्वं हि ब्रह्मणः सृष्टिरिति ब्रह्मविदो विदुः । 068a
ज्येष्ठेनाभिजनेनास्य प्राप्तं पूर्वं यदुत्तमम् ॥ 068c
तस्मान्मान्यश्च पूज्यश्च ब्राह्मणः प्रसृताग्रभुक् । 069a
सर्वं श्रेष्ठं विशिष्टं च निवेद्यं तस्य धीमतः ॥ 069c
अवश्यमेतत्कर्तव्यं राज्ञा बलवताऽपि हि । 070a
ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते । 070c
राज्ञः सर्वस्य चान्यस्य स्वामी राज्ञः पुरोहितः ॥ 070e

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रिसप्ततितमोऽध्यायः ॥ 73 ॥

12-73-14 निर्णुदे मोचयेत् । राजानमिति शेषः ॥ 12-73-46 क्षत्र कर्तृ । तत्र क्षत्रे सन्तः वर्णं विन्दन्ति । ब्राह्मणानामवमन्ता म्लेच्छजातीयोऽयं राजेत्यनुमानाज्जानन्ति । यथोक्तम्भोगेन ज्ञायते कर्म कर्मणा ज्ञायते जनिरिति । तथा बलं तद्भियन्ते च सन्त इति ट. ड. थ. पाठः ॥ 12-73-50 अभिप्रपन्नौ अन्योन्यशरणौ । क्षत्रशरणं ब्रह्म तपस्यति ब्रह्मशरणं क्षत्रं जयतीति भावः ॥ 12-73-52 मधु सुखम् । अश्रु दुःखम् । पापं नरकम् ॥ 12-73-53 ब्रह्म ब्राह्मणजातिः । ब्रह्मचरणादपेतत्वादब्रह्मचारी वेदाध्ययनशून्यः सन् त्राणं रक्षणं इच्छेत्तदा देवस्तत्र आश्चर्यतो वर्षति । तत्र वर्षः अत्यन्तं दुर्लभमित्यर्थः ॥ 12-73-55 रुद्रो हिंस्रः । देवो राजा । रुद्रं कलिम् ॥ 12-73-57 मानवानां हृदये य आत्मा जीवोऽस्ति स एव रुद्रः संहर्ता भवति । ननु कुतः शान्तस्यात्मनो रुद्रत्वमत आह वातेति । यथा उत्पातवात आकाशोत्थ आकाशोत्थां मेघदेवतामितस्ततो नयति गर्जयति विद्युदशनिवारीणि च तत आविर्भावयत्येवमात्मोत्थिताः काप्नक्रोधादयः सर्वं हिंस्रं कारयन्तीत्यर्थः ॥ 12-73-58 यथा आकाशेन युक्तास्ततः पृथग्भूताः वातो मेघाश्च मेघप्रवर्तकदेवता च प्रत्यक्षेण शास्त्रज्ञानेन च दृश्यन्ते नैवं जीवो वा तदभिभावकः कामादिर्वा पृथक् दृश्यते किन्त्वात्मन्येव वह्यौष्ण्यवत्कामद्वेषौ वर्तेते तौ चैतस्य सम्बन्धकौ मोहको च भवत इत्यर्थः ॥ 12-73-59 यथाऽल्पोऽपि वह्निरधिकमधिकं काष्ठभारमुपारुह्य कृत्स्नं ग्रामं दहति तत्र न केवलं काष्ठानां दाहकत्वं नापि काष्ठान्यनुपारूढस्याग्नेः किन्तु तदुभयसङ्घातस्यैव । तत्रापि विवेके क्रियमाणे वह्नेरेवोपाध्यावेशाद्दाहकत्वम् । एवमात्मानमारुह्याहङ्कारवह्निः कामक्रोधादिवातैरुद्दीपितो रुद्रत्वं प्रतिपद्यते ॥ 12-73-60 अपुण्यपापमप्यात्मानं यदि विशेषात् क्रियमाणे पापे निमित्तभूते सति दण्डः पापं दण्डात्मकं पापं गालनताडनादि दुःखं कर्तृ स्पृशते मोहादिति ब्रवीषि तर्हि पुण्यकरणं पापवर्जनं च शास्त्रचोदितं वृथैव स्यात् ॥ 12-73-67 तं पुरोहितं लब्ध्वा आत्मानं राज्येऽभिषिञ्चेत् ॥ 12-73-70 एवं राज्ञा विशेषेण पूज्या वै ब्राह्मणाः सदा इति झ. पाठः ॥