अध्यायः 072

युधिष्ठिरम्प्रति भीष्मेण ब्राह्मणस्य श्रैष्ठयोपपादनपूर्वकं चातुर्वर्ण्यधर्मकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
'कीदृशो ब्राह्मणो राजा कार्याकार्यविचारणे । 001a
क्षमः कर्तुं समर्थो वा तन्मे ब्रूहि पितामह ॥' 001c
भीष्म उवाच 002
य एव तु सतो रक्षेदसतश्च निवर्तयेत् । 002a
स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः ॥ 002c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 003a
पुरूरवस ऐलस्य संवादं मातरिश्वना ॥ 003c
पुरूरवा उवाच 004
कुतः स्विद्ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयः । 004a
कस्माच्च भवति श्रेयांस्तन्मे व्याख्यातुमर्हसि ॥ 004c
मातरिश्वोवाच 005
ब्राह्मणो मुखतः सृष्टो ब्रह्मणो राजसत्तम । 005a
बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य एव च ॥ 005c
वर्णानां परिचर्यार्यं त्रयाणां भरतर्षभ । 006a
वर्णश्चतुर्थः पश्चात्तु पभ्द्यां शूद्रो विनिर्मितः ॥ 006c
ब्राह्मणो जायमानो हि पृथिव्यामनुजायते । 007a
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥ 007c
'सर्वस्वं ब्राह्मणस्येदं यत्किञ्चिदिह दृश्यते । 008a
धर्मयुक्तं प्रशस्तं च जगत्यस्मिन्नृपात्मज ॥' 008c
ततः पृथिव्या यन्तारं क्षत्रियं दण्डधारणे । 009a
द्वितीयं वर्णमकरोत्प्रजानामनुगुप्तये ॥ 009c
वैश्यस्तु धनधान्येन त्रीन्वर्णान्बिभृयादिमान् । 010a
शूद्रो ह्येतान्परिचरेदिति ब्रह्मानुशासनम् ॥ 010c
ऐल उवाच 011
द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत् । 011a
धर्मतः सह वित्तेन सम्यग्वायो प्रचक्ष्व मे ॥ 011c
वायुरुवाच 012
विप्रस्य सर्वमेवैतद्यत्किञ्चिज्जगतीगतम् । 012a
'धनं धान्यं हिरण्यं च स्त्रियो रत्नानि वाहनम् ॥ 012c
मङ्गलं च प्रशस्तं च यच्चान्यदपि विद्यते । 013a
'ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः ॥ 013c
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च । 014a
गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः ॥ 014c
पत्यभावे यथैव स्त्री देवरं कुरुते पतिम् । 015a
'आनन्तर्यात्तथा क्षत्रं पृथिवी कुरुते पतिम् ।' 015c
एष ते प्रथमः कल्प आपद्यन्यो भवेदतः ॥ 015e
यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि । 016a
यत्किञ्चिज्जयसे भूमिं ब्राह्मणाय निवेदय ॥ 016c
श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने । 017a
स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत् ॥ 017c
यो राजानं नयेद्बुद्ध्या सर्वतः परिपूर्णया । 018a
ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवान् ॥ 018c
श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम् । 019a
राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम् ॥ 019c
शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः । 020a
तावता सत्कृतः प्राज्ञश्चिरं यशसि तिष्ठति ॥ 020c
तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः । 021a
एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः ॥ 021c
'ब्राह्मणं च सविद्वांसं राजशास्त्रविपश्चितम् । 022a
'सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद्भयान्विताः ॥ 022c
राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताः । 023a
चतुर्थं तस्य धर्मस्य राजा भागं तु विन्दति ॥ 023c
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः । 024a
यज्ञमेवोपजीवन्ति नास्ति यष्टा ह्यराजके ॥ 024c
इतो दत्तेन जीवन्ति देवताः पितरस्तथा । 025a
राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः ॥ 025c
छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति । 026a
अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति । 026c
शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः ॥ 026e
तेषु भोगेषु सर्वेषु न भीतो लभते सुखम् । 027a
अभयस्य हि यो दाता तस्यैव सुमहत्फलम् ॥ 027c
न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते । 028a
इन्द्रो राजा यमो राजा धर्मो राजा तथैव च । 028c
राजा बिभर्ति भूतानि राज्ञा सर्वमिदं धृतम् ॥ 028e

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्विसप्ततितमोऽध्यायः ॥ 72 ॥

12-72-2 निवर्तयेद्राज्याद्दूरीकारयेत् ॥