अध्यायः 071

भीष्मेण युधिष्ठिरम्प्रति राजधर्मकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यते । 001a
धर्मे च नापराध्नोति तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
समासेनैव ते राजन्धर्मान्वक्ष्यामि शाश्वतान् । 002a
विस्तरेणैव धर्माणां न जात्वन्तमवाप्नुयात् ॥ 002c
धर्मनिष्ठाञ्श्रुतवतो देवव्रतसमाहितान् । 003a
अर्चितान्वासयेथास्त्वं गृहे गुणवतो द्विजान् ॥ 003c
प्रत्युत्थायोपसङ्गृह्य चरणावभिवाद्य च । 004a
अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः ॥ 004c
धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च । 005a
ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः ॥ 005c
आर्जवेन च सम्पन्नो धृत्या बुद्ध्या च भारत । 006a
धर्मार्थौ प्रतिगृह्णीयात्कामक्रोधौ च वर्जयेत् ॥ 006c
कामक्रोधौ पुरस्कृत्य योऽर्थं राजाऽनुतिष्ठति । 007a
न स धर्मं न चाप्यर्थं प्रतिगृह्णाति बालिशः ॥ 007c
मा स्म लुब्धांश्च मूर्खांश्च कामार्थे च प्रयूयुजः । 008a
अलुब्धान्बुद्धिसम्पन्नान्सर्वकर्मसु योजयेत् ॥ 008c
मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः । 009a
प्रजाः क्लिश्नात्ययोगेन कामक्रोधसमन्वितः ॥ 009c
बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम् । 010a
शास्त्रानीतेन लिप्सेथा वेतनेन धनागमम् ॥ 010c
दापयित्वा करं धर्म्यं राष्ट्रं नीत्या यथाविधि । 011a
तथैतं कल्पयेद्राजा योगक्षेममतन्द्रितः ॥ 011c
गोपायितारं दातारं धर्मनित्यमतन्द्रितम् । 012a
अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः ॥ 012c
तस्माद्धर्मेण लाभेन लिप्सेथास्त्वं धनागमम् । 013a
धर्मार्थावध्रुवौ तस्य यो न शास्त्रपरो भवेत् ॥ 013c
अपशास्त्रधनो राजा सञ्चयं नाधिगच्छति । 014a
अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति ॥ 014c
अर्थमूलोऽपि हिंसां च कुरुते स्वयमात्मनः । 015a
करैरशास्त्रदृष्टैर्हि मोहात्सम्पीडयन्प्रजाः ॥ 015c
ऊधश्छिन्द्यात्तु यो धेन्वाः क्षीरार्थी न लभेत्पयः । 016a
एवं राष्ट्रमयोगेन पीडितं न विवर्धते ॥ 016c
'यवसोदकमादाय सान्त्वेन विनयेन च । 017a
'यो हि दोग्ध्रीमुपास्ते च स नित्यं विन्दते पयः । 017c
एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम् ॥ 017e
अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम् । 018a
जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर ॥ 018c
दोग्ध्री धान्यं हिरण्यं च मही राजा सुरक्षिता । 019a
नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ॥ 019c
मालाकारोपमो राजन्भव माऽऽङ्गारिकोपमः । 020a
तथायुक्तश्चिरं राज्यं भोक्तुं शक्ष्यसि पालयन् ॥ 020c
परचक्राभियानेन यदि ते स्याद्धनक्षयः । 021a
अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत् ॥ 021c
मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः । 022a
अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत ॥ 022c
धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः । 023a
सान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम् ॥ 023c
एवं धर्म्येण वृत्तेन प्रजास्त्वं परिपालय । 024a
स्वर्ग्यं पुण्यं यशो नित्यं प्राप्स्यसे कुरुनन्दन ॥ 024c
धर्मेण व्यवहारेण प्रजाः पालय पाण्डव । 025a
युधिष्ठिर यथायुक्तो नाधिबन्धेन योक्ष्यसे ॥ 025c
एष एव परो धर्मो यद्राजा रक्षति प्रजाः । 026a
भूतानां हि यदा धर्मो रक्षणं परमा दया ॥ 026c
तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाः । 027a
यो राजा रक्षणे युक्तो भूतेषु कुरुते दयाम् ॥ 027c
यदह्ना कुरुते पापमरक्षन्भयतः प्रजाः । 028a
राजा वर्षसहस्रेण तस्यान्तमधिगच्छति ॥ 028c
यदह्ना कुरुते धर्मं प्रजा धर्मेण पालयन् । 029a
दशवर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि ॥ 029c
स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः । 030a
क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन् ॥ 030c
एवं धर्मं प्रयत्नेन कौन्तेय परिपालय । 031a
ततः पुण्यफलं लब्ध्वा नानुबन्धेन योक्ष्यसे ॥ 031c
स्वर्गलोके सुमहतीं श्रियं प्राप्स्यसि पाण्डव । 032a
असम्भवश्च धर्माणामीदृशानामराजसु ॥ 032c
तस्माद्राजैव नान्योऽस्ति यो धर्मफलमाप्नुयात् । 033a
स राज्यं धृतिमान्प्राप्य धर्मेण परिपालय । 033c
इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान् ॥ 033e

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकसप्ततितमोऽध्यायः ॥ 71 ॥

12-71-1 बह्वीनां प्रजानां परिपालन कथं स्यादिति चिन्ता आधिः स एव बन्धस्तेन न युज्यते ॥ 12-71-9 अयोगेन योग इष्टप्राप्ति स्तदभावेन ॥ 12-71-10 बली राजदेयं तदेव सस्यादेः षष्ठंशस्तेन बलिषष्ठेन । वेतनेन पथिरक्षितैर्वणिग्भिर्यद्दत्तं तद्राज्ञो वेतनं सेवाधनम् ॥ 12-71-11 धान्यादेः षष्ठांशे हृते शेषेण प्रजानां यदि वार्षिको ग्रासो न भवेत्तदा राजैव तासां योगक्षेमं कल्पयेदित्याह दापयित्वेति ॥ 12-71-19 दोग्ध्री पूरयित्री ॥ 12-71-20 आङ्गारिक इङ्गालकर्ता ॥ 12-71-25 यथायुक्त उक्तेन प्रकारेणाऽवहितः ॥ 12-71-27 यो दयां कुरुते तं धर्मं मन्यन्ते इति योजना ॥ 12-71-28 अन्तं यातनाभोगनिष्कृतिम् ॥ 12-71-30 स्विष्टिः स्वधीतिः सुतपा इति क्रमेण गृहस्थब्रह्मचारिवानप्रस्थधर्मान्सम्यगनुतिष्ठन् ॥