अध्यायः 070

भीष्मेण युधिष्ठिरम् प्रति राजनयानुवर्णनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
केन वृत्तेन वृत्तज्ञ वर्तमानो महीपतिः । 001a
सुखेनार्थान्सुखोदर्कानिह च प्रेत्य चाश्नुते ॥ 001c
भीष्म उवाच 002
इत्थं गुणानां षट्त्रिंशी षट्त्रिंशद्गुणसंयुता । 002a
यान्गुणांस्तु गुणोपेतः कुर्वन्गुणमवाप्नुयात् ॥ 002c
चरेद्धर्मानकटुको मुञ्चेत्स्नेहं न चास्तिकः । 003a
अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः ॥ 003c
प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः । 004a
दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः ॥ 004c
सन्दधीत न चानार्यैर्विगृह्णीयाच्च शत्रुभिः । 005a
नानाप्तैश्चारयेच्चारं कुर्यात्कार्यमपीडया ॥ 005c
अर्थं ब्रूयान्न चासत्सु गुणान्ब्रूयान्न चात्मनः । 006a
आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत् ॥ 006c
नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत् । 007a
विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु ॥ 007c
अनीर्षुर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः । 008a
स्त्रियः सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम् ॥ 008c
अस्तब्धः पूजयन्मान्यान्गुरून्सेवेदमायया । 009a
अर्चेद्देवानदम्भेन श्रियमिच्छेदकुत्सिताम् ॥ 009c
सेवेत प्रणयं हित्वा दक्षः स्यान्न त्वकालवित् । 010a
सान्त्वयेन्न च मोक्षाय अनुगृह्णन्न चाक्षिपेत् ॥ 010c
प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शोचयेत् । 011a
क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु ॥ 011c
एवं चरस्व राज्यस्थो यदि श्रेय इहेच्छसि । 012a
अतोऽन्यथा नरपतिर्भयमृच्छत्यनुत्तमम् ॥ 012c
इति सर्वान्गुणानेतान्यथोक्तान्योऽनुवर्तते । 013a
अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते ॥ 013c
वैशम्पायन उवाच 014
इदं वचः शान्तनवस्य शुश्रुवान्युधिष्ठिरः पार्थिवमुख्यसंवृतः । 014a
तदा ववन्दे च पितामहं नृपो यथोक्तमेतच्च चकार बुद्धिमान् ॥ 014c

12-70-2 षट्त्रिंशी षट्त्रिंशत्सङ्ख्याका ॥ 12-70-5 विगृह्णीयान्न बन्धुभिः । नाभक्तं चारयेच्चारम् इति झ. पाठः । तत्र अभक्तम् अल्पान्नम् इत्यर्थः ॥ 12-70-8 चोक्षः शुद्धः ॥ 12-70-11 न शोचयेत् शत्रुबन्धूनां शोकम् अपनुदेत् ॥ 12-70-12 अनुत्तमं महत्तरम् ॥