अध्यायः 069

भीष्मेण युधिष्ठिरम् प्रति कृतादियुगचतुष्टयगुणनिरूपणम् ॥ 1 ॥ युधिष्ठिर उवाच 001
दण्डनीतिश्च राजा च समस्तौ तावुभावपि । 001a
तत्र किं कुर्वतः सिद्धिस्तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
माहात्म्यं दण्डनीत्यास्तु साध्यं शब्दैः सहेतुकैः । 002a
शृणु मे शंसतो राजन्यथावदिह भारत ॥ 002c
दण्डनीतिः स्वधर्मेषु चातुर्वर्ण्यं नियच्छति । 003a
प्रयुक्ता स्वामिना सम्यगधर्मेभ्यो नियच्छति ॥ 003c
चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानामसङ्करे । 004a
दण्डनीतिकृते क्षेमे प्रजानामकुतोभये ॥ 004c
सोमे प्रयत्नं कुर्वन्ति त्रयो वर्णा यथाविधि । 005a
तस्मादेव मनुष्याणां सुखं विद्धि समाहितम् ॥ 005c
कालो वा कारणं राज्ञो राजा वा कालकारणम् । 006a
इति ते संशयो माभूद्राजा कालस्य कारणम् ॥ 006c
दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते । 007a
तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते ॥ 007c
भवेत्कृतयुगे धर्मो नाधर्मो विद्यते क्वचित् । 008a
सर्वेषामेव वर्णानां नाधर्मे रमते मनः ॥ 008c
योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः । 009a
वैदिकानि च कर्माणि भवन्त्यपि गुणान्युत ॥ 009c
ऋतवश्च सुखाः सर्वे भवन्त्युत निरामयाः । 010a
प्रसीदन्ति नराणां च स्वरवर्णमनांसि च ॥ 010c
व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः । 011a
विधवा न भवन्त्यत्र नृशंसो नात्र जायते ॥ 011c
अकृष्टपच्या पृथिवी भवन्त्योषधयस्तथा । 012a
त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च ॥ 012c
नाधर्मो विद्यते तत्र धर्म एव तु केवलम् । 013a
इति कार्तयुगानेतान्गुणान्विद्धि युधिष्ठिर ॥ 013c
दण्डनीत्या यदा राजा त्रीनंशाननुवर्तते । 014a
चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते ॥ 014c
अधर्मस्य चतुर्थांशस्त्रीनंशाननुवर्तते । 015a
कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा ॥ 015c
अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते । 016a
ततस्तु द्वापरं नाम स कालः सम्प्रवर्तते ॥ 016c
अशुभस्य यदा त्वर्धं द्वावंशावनुवर्तते । 017a
कृष्टपच्यैव पृथिवी भवत्यर्धफला तथा ॥ 017c
दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः । 018a
प्रजाः क्लिश्नात्ययोगेन प्रवर्तेत तदा कलिः ॥ 018c
कलावधर्मो भूयिष्ठो धर्मो भवति न क्वचित् । 019a
सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः ॥ 019c
शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया । 020a
योगक्षेमस्य नाशश्च वर्तते वर्णसङ्करः ॥ 020c
वैदिकानि च कर्माणि भवन्ति विगुणान्युत । 021a
ऋतवो न सुखाः सर्वे भवन्त्यामयिनस्तथा ॥ 021c
ह्रसन्ति च मनुष्याणां स्वरवर्णमनांस्युत । 022a
व्याधयश्च भवन्त्यत्र म्रियन्ते चाशतायुषः ॥ 022c
विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा । 023a
क्वचिद्वर्षति पर्जन्यः क्वचित्सस्यं प्ररोहति ॥ 023c
रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः । 024a
प्रजाः संरक्षितुं सम्यग्दण्डनीतिसमाहितः ॥ 024c
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च । 025a
युगस्य च चतुर्थस्य राजा भवति कारणम् ॥ 025c
कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते । 026a
त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते ॥ 026c
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते । 027a
कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते ॥ 027c
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः । 028a
प्रजानां कल्मषे मग्नोऽकीर्तिं पापं च विन्दति ॥ 028c
दण्डनीतिं पुरस्कृत्य क्षत्रियेण विजानता । 029a
लिप्सितव्यमलभ्यं च लब्धं रक्ष्यं च भारत । 029c
'योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः ॥' 029e
लोकस्य सीमन्तकरी मर्यादा लोकपावनी । 030a
सम्यङ्नीता दण्डनीतिर्यथा माता यथा पिता ॥ 030c
यस्यां भवन्ति भूतानि तद्विद्धि भरतर्षभ । 031a
एष एव परो धर्मो यद्राजा दण्डनीतिमान् ॥ 031c
तस्मात्कौरव्य धर्मेण प्रजाः पालय नीतिमान् । 032a
एवं वृत्तः प्रजा रक्षन्स्वर्गं जेतासि दुर्जयम् ॥ 032c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनसप्ततितमोऽध्यायः ॥ 69 ॥

12-69-3 अधर्मेभ्य इति पञ्चमी ॥ 3 ॥ 12-69-11 कृपणो न त्विति झ. पाठः ॥ 12-69-18 अयोगेन अनुपायेन ॥ 12-69-20 योगक्षेमस्य नाशाच्चेति ट. ड. थ. पाठः ॥ 12-69-30 सीमन्तकरी व्यवस्थापिका ॥