अध्यायः 068

युधिष्ठिरम् प्रति भीष्मेण राजनीतिकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
पार्थिवेन विशेषेण किं कार्यमवशिष्यते । 001a
कथं रक्ष्यो जनपदः कथं वध्याश्च शत्रवः ॥ 001c
कथं चारान्प्रयुञ्जीत वर्णान्विश्वासयेत्कथम् । 002a
कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत ॥ 002c
भीष्म उवाच 003
राजवृत्तं महाराज शृणुष्वावहितोऽखिलम् । 003a
यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा ॥ 003c
आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः । 004a
अजितात्मा नरपतिर्विजयेत कथं रिपून् ॥ 004c
एतावानात्मविजयः पञ्चवर्गविनिग्रहः । 005a
जितेन्द्रियो नरपतिर्बाधितुं शक्नुयाद्रिपुन् ॥ 005c
न्यसेत गुल्मान्दुर्गेषु सन्धौ च कुरुनन्दन । 006a
नगरोपवने चैव पुरोद्याने तथैव च ॥ 006c
संस्थानेषु च सर्वेषु पुटेषु नगरस्य च । 007a
मध्ये च नरशार्दूल तथा राजनिवेशने ॥ 007c
प्रणिधींश्च ततः कुर्याज्जडान्धबधिराकृतीन् । 008a
पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासाश्रमक्षमान् ॥ 008c
अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च । 009a
पुत्रेषु च महाराज प्रणिदध्यात्समाहितः ॥ 009c
पुरे जनपदे चैव तथा सामन्तराजसु । 010a
यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते ॥ 010c
चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ । 011a
आपणेषु विहारेषु समवायेषु वीथिषु ॥ 011c
आरामेषु तथोद्याने पण्डितानां समागमे । 012a
वेशेषु चत्वरे चैव सभास्वावसथेषु च ॥ 012c
एवं विहन्याच्चारेण परचारं विचक्षणः । 013a
चारे च विहते सर्वं हतं भवति भारत ॥ 013c
यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना । 014a
अमात्यैः सह सम्मन्त्र्य कुर्यात्सन्धिं बलीयसा ॥ 014c
'विद्वांसः क्षत्रिया वैश्या ब्राह्मणाश्च बहुश्रुताः । 015a
दण्डनीतौ तु निष्पन्ना मन्त्रिणः पृथिवीपते ॥ 015c
प्रष्टव्यो ब्राह्मणः पूर्वं नीतिशास्त्रस्य तत्ववित् । 016a
पश्चात्पृच्छेत भूपालः क्षत्रियं नीतिकोविदम् । 016c
वैश्यशूद्रौ तथा भूयः शास्त्रज्ञौ हितकारिणौ ॥' 016e
अज्ञायमाने हीनत्वे सन्धिं कुर्यात्परेण वै । 017a
लिप्सुर्वा कञ्चिदेवार्थं त्वरमाणो विचक्षणः ॥ 017c
गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये । 018a
सन्दधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन् ॥ 018c
उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः । 019a
पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः ॥ 019c
यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः । 020a
न शक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत् ॥ 020c
यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम् । 021a
व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः ॥ 021c
यात्रामाज्ञापयेद्वीरः कल्यः पुष्टबलः सुखी । 022a
पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा ॥ 022c
न च वश्यो भवेदस्य नृपो यश्चातिवीर्यवान् । 023a
हीनश्च बलवीर्याभ्यां कर्षयंस्तत्परो वसेत् ॥ 023c
राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्च्छनैः । 024a
अमात्यवल्लभानां च विवादांस्तस्य कारयेत् ॥ 024c
वर्जनीयं सदा युद्धं राज्यकामेन धीमता । 025a
उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः ॥ 025c
सान्त्वेन तु प्रदानेन भेदेन च नराधिप । 026a
यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येत पण्डितः ॥ 026c
आददीत बलिं चापि प्रजाभ्यः कुरुनन्दन । 027a
षड्भागममितप्रज्ञस्तासामेवाभिगुप्तये ॥ 027c
दशाधर्मगतेभ्यो यद्वसु बह्वल्पमेव वा । 028a
तन्नाददीत सहसा पौराणां रक्षणाय वै ॥ 028c
यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः । 029a
भक्तिश्चैषु न कर्तव्या व्यवहारप्रदर्शने ॥ 029c
श्रोतुं चैव न्यसेद्राजा प्राज्ञान्सर्वार्थदर्शिनः । 030a
व्यवहारेषु सततं तत्र राज्यं प्रतिष्ठितम् ॥ 030c
आकरे लवणे शुल्के तरे नागबले तथा । 031a
न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान् ॥ 031c
सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात् । 032a
नृपस्य सततं दण्डः सम्यग्धर्मः प्रशस्यते ॥ 032c
वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत् । 033a
दानशीलश्च सततं यज्ञशीलश्च भारत ॥ 033c
एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः । 034a
व्यवहारस्य लोपेन कुतः स्वर्गः कुतो यशः ॥ 034c
यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा । 035a
[तदाभिसंश्रयेद्दुर्गं बुद्धिमान्पृथिवीपतिः ॥ 035c
विधावाक्रम्य मित्राणि विधानमुपकल्पयेत् । 036a
सामभेदान्विरोधार्थं विधानमुपकल्पयेत् ॥] 036c
'त्रिधा तु कृत्वा मित्राणि विधानमुपकल्पयेत् ।' 037a
'घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि । 037c
प्रवेशयेच्च तान्सर्वाञ्शाखानगरकेष्वपि ॥ 037e
ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत् । 038a
धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः ॥ 038c
सस्याभिहारं कुर्वीत स्वयमेव नराधिपः । 039a
असम्भवे प्रवेशस्य दाहयेदग्निना भृशम् ॥ 039c
क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान् । 040a
विनाशयेद्वा तत्सर्वं बलेनाथ स्वकेन वै ॥ 040c
नदीमार्गेषु च तथा सङ्क्रमानवसादयेत् । 041a
जलं विस्रावयेत्सर्वमविस्राव्यं च दूषयेत् ॥ 041c
तदात्वेनायतीभिश्च निवसेद्भूम्यनन्तरम् । 042a
प्रतिघातं परस्याजौ युद्धकालेऽप्युपस्थिते ॥ 042c
दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत् । 043a
सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत् ॥ 043c
प्रवृद्धानां च वृक्षाणां शाखां प्रच्छेदयेत्तथा । 044a
चैत्यानां सर्वथा त्याज्यमपि पत्रस्य पातनम् ॥ 044c
'देवानामाश्रयाश्चैत्या यक्षराक्षसभोगिनाम् । 045a
पिशाचपन्नगानां च गन्धर्वाप्सरसामपि । 045c
रौद्राणां चैव भूतानां तस्मात्तान्परिवर्जयेत् ॥ 045e
श्रूयते हि निकुम्भेन सौदासस्य बलं हतम् । 046a
महेश्वरगणेशेन वाराणस्यां नराधिप ॥' 046c
प्रगण्डीः कारयेत्सम्यगाकाशजननीस्तदा । 047a
आपूरयेच्च परिखां स्थाणुनक्रझषाकुलाम् ॥ 047c
सङ्कटद्वारकाणि स्युरुच्छ्वासार्थं पुरस्य च । 048a
तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत् ॥ 048c
द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा । 049a
आरापयेच्छतघ्नीश्च स्वाधीनानि च कारयेत् ॥ 049c
काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत् । 050a
संशोधयेत्तथा कूपान्कृतान्पूर्वपयोर्थिभिः ॥ 050c
तृणच्छन्नानि वेश्मानि पङ्केनाथ प्रलेपयेत् । 051a
निर्हरेच्च तृणं मासि चैत्रे वह्निभयात्पुरा ॥ 051c
नक्तमेव च भक्तानि पाचयेत नराधिपः । 052a
न दिवा ज्वालयेदग्निं वर्जयित्वाऽऽग्निहोत्रिकम् ॥ 052c
'यथासम्भवशैलानि चैष्टकानि च कारयेत् । 053a
मृण्मयानि च कुर्वीत ज्ञात्वा देशं बलाबलम् ॥' 053c
कर्मारारिष्टशालासु ज्वलेदग्निः सुरक्षितः । 054a
गृहाणि च प्रवेश्यान्तर्विधेयः स्याद्धुताशनः ॥ 054c
महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत् । 055a
प्रघोषयेदथैवं च रक्षणार्थं पुरस्य च ॥ 055c
भिक्षुकांश्चाक्रिकांश्चैव क्लीबोन्मत्तान्कुशीलवान् । 056a
बाह्यान्कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि ते शठाः ॥ 056c
चत्वरेष्वथ तीर्थेषु सभास्वावसथेषु च । 057a
यथार्थवर्णं प्रणिधिं कुर्यात्सर्वत्र पार्थिवः ॥ 057c
विशालान्राजमार्गांश्च कारयेत नराधिपः । 058a
प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत् ॥ 058c
भाण्डागारायुधागारान्धान्यागारांश्च सर्वशः । 059a
अश्वागारान्गजागारान्बलाधिकरणानि च ॥ 059c
परिखाश्चैव कौरव्य प्रतोलीसङ्कटानि च । 060a
न जातु कश्चित्पश्येत गुह्यमेतद्युधिष्ठिर ॥ 060c
अर्थसन्निचयं कुर्याद्राजा परबलार्दितः । 061a
तैलं मधु घृतं सस्यमौषधानि च सर्वशः ॥ 061c
अङ्गारकुशमुञ्जानां पलाशशरवर्णिनाम् । 062a
यवसेन्धनदिग्धानां कारयेत च सञ्चयान् ॥ 062c
आयुधानां च सर्वेषां शक्त्यृष्टिप्रासचर्मणाम् । 063a
सञ्चयानेवमादीनां कारयेत नराधिपः ॥ 063c
औषधानि च सर्वाणि मूलानि च फलानि च । 064a
चतुर्विधांश्च वैद्यान्वै सङ्गृह्णीयाद्विशेषतः ॥ 064c
नटांश्च नर्तकांश्चैव मल्लान्मायाविनस्तथा । 065a
शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः ॥ 065c
यतः शङ्का भवेच्चापि भृत्यतोऽथापि मन्त्रितः । 066a
पौरेभ्यो नृपतेर्वापि स्वाधीनान्कारयेत तान् ॥ 066c
कृते कर्माणि राजा तान्पूजयेद्धनसञ्चयैः । 067a
माननेन यथार्हेण सान्त्वेन विविधेन च ॥ 067c
निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन । 068a
गतानृण्यो भवेद्राजा यथा शास्त्रे निदर्शितम् ॥ 068c
राज्ञा सप्तैव रक्ष्याणि तानि चैव निबोध मे । 069a
आत्माऽमात्याश्च कोशाश्च दण्डो मित्राणि चैव हि ॥ 069c
तथा जनपदाश्चैव पुरं च कुरुनन्दन । 070a
एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः ॥ 070c
षाड्गुण्यं च त्रिवर्गं च त्रिवर्गपरमं तथा । 071a
यो वेत्ति पुरुषव्याघ्र स भुङ्क्ते पृथिवीमिमाम् ॥ 071c
षाड्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर । 072a
सन्धायासनमित्येव यात्रासन्धानमेव च ॥ 072c
विगृह्यासनमित्येव यात्रां सम्परिगृह्य च । 073a
द्वैधीभावस्तथाऽन्येषां संश्रयोऽथ परस्य च ॥ 073c
त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु । 074a
क्षयः स्थानं च वृद्धिश्च त्रिवर्गः परमस्तथा ॥ 074c
'धर्मश्चार्थश्च कामश्च त्रिवर्गो वै सनातनः । 075a
मन्त्रश्चैव प्रभावश्च उत्साहश्चैव तान्त्रिकः । 075c
शक्तित्रयं समाख्यातं त्रिवर्गस्य च तत्परम् ॥ 075e
कार्यं च कारणं चैव कर्ता च परिकीर्तितः । 076a
एतत्परतरं विद्यान्त्रिवर्गादपि भारत । 076c
सर्वेपां च क्षये राजन्यस्त्रिवर्गः सनातनः ॥ 076e
सत्वं रजस्तमश्चैव त्रिवर्गकरणं स्मृतम् । 077a
तेनात्यन्तविमुक्तश्च मुक्तः पुरुष उच्यते ॥ 077c
कार्यस्य सर्वथा नाशो मोक्ष इत्यभिधीयते । 078a
तेन मोक्षपरश्चैव देवदेवः पितामहः । 078c
तुष्ट्यर्थस्य त्रिवर्गस्य रक्षामाह पितामहः ॥ 078e
जगतो लौकिकी यात्रा यत्र नित्यं प्रतिष्ठिता ।' 079a
'धर्मोऽर्थश्चैव कामश्च सेवितव्याः स्वकालतः ॥ 079c
'सेवा धर्मस्य कर्तव्या सततं भूरिवत्सरैः । 080a
पुरुषैर्नरशार्दूल तन्मूलाः सर्वथा क्रियाः ॥' 080c
धर्मेण च महीपालश्चिरं रक्षति मेदिनीम् । 081a
'यः कश्चिद्धार्मिको राजा स विपन्नोऽपि भूपतिः । 081c
अर्थकामविहीनोऽपि चिरं पालयते महीम् ॥' 081e
अस्मिन्नर्थे हि द्वौ श्लोकौ गीतावङ्गिरसा स्वयम् । 082a
यादवीपुत्र भद्रं ते श्रोतुमर्हसि तावपि ॥ 082c
कृत्वा कार्याणि धर्मेण सम्यक्सम्पाल्य मेदिनीम् । 083a
पालयित्वा तथा पौरान्परत्र सुखमेधते ॥ 083c
किं तस्य तपसा राज्ञः किञ्च तस्याध्वरैः कृतैः । 084a
सुपालिताः प्रजा यस्य सर्वधर्मकृदेव सः ॥ 084c
श्लोकाश्चोशनसा गीतास्तान्निबोध युधिष्ठिर । 085a
दण्डनीतेश्च यन्मूलं त्रिवर्गस्य च भूपते ॥ 085c
भार्गवाङ्गिरसं कर्म षोडशाङ्गं च यद्बलम् । 086a
विषं माया च दैवं च पौरुषं चात्मसिद्धये ॥ 086c
प्रागुदक्प्रवणं दुर्गं समासाद्य महीपतिः । 087a
त्रिवर्गत्रयसम्पूर्णमुपादाय तमुद्वहेत् ॥ 087c
षट्पञ्च च विनिर्जित्य दश चाष्टौ च भूपतिः । 088a
त्रिवर्गैर्दशभिर्युक्तः सुरैरपि न जीर्यते ॥ 088c
न बुद्धिं परिगृह्णीत स्त्रीणां मूर्खजनस्य च । 089a
दैवोपहतबुद्धीनां ये च वेदैर्विवर्जिताः । 089c
न तेषां शृणुयाद्राजा बुद्धिस्तेषां पराङ्मुखी ॥ 089e
स्त्रीप्रधानानि राज्यानि विद्वद्भिर्वर्जितानि च । 090a
मूर्खामात्याग्नितप्तानि शुष्यन्ते जलबिन्दुवत् ॥ 090c
विद्वांसः प्रथिता ये च ये चाप्ताः सर्वकर्मसु । 091a
बुद्धेषु दृष्टकर्माणि तेषां च शृणुयान्नृपः ॥ 091c
दैवं पुरुषकारं च त्रिवर्गं च समाश्रितः । 092a
दैवतानि च विप्रांश्च प्रणम्य विजयी भवेत् ॥' 092c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टषष्टिमोऽध्यायः ॥ 68 ॥

12-68-3 पार्थिवेन पृथुवंश्येन राज्ञा । पार्थिवप्रकृतेन वा विजातीयेनापि तत्कार्यकारिणा ॥ 12-68-4 आत्मा चित्तम् ॥ 12-68-5 पञ्चवर्गः श्रोत्रादिः ॥ 12-68-6 गुल्मान् रक्षिणः पत्तीन् । सन्धौ सीमान्ते ॥ 12-68-7 संस्थानेषु कोष्ठपालाद्युपवेशनस्थानेषु । मध्येऽन्तःपुरे ॥ 12-68-8 प्रणिधीन् चारान् ॥ 12-68-11 विहारेषु यूनां मल्लक्रीडास्थानेषु ॥ 12-68-12 सभासु राजसंसत्सु । आवसथेषु तत्र तत्र महतां गृहेषु ॥ 12-68-13 एवं विचिनुयाद्राजा परचारं विचक्षणः । चारे हि विदिते पूर्वं हितं भवति पाण्डव । इति झ. पाठः । तत्र विचिनुयात् अन्विष्यात् इत्यर्थः ॥ 12-68-18 तैर्द्वारभूतैः तान्द्वारीकृत्य बलवद्भिर्नृपैः सह सन्धिं कुर्यात् ॥ 12-68-19 पूर्वापकारिणः पूर्वं दुष्टा इति अपकृताः पश्चाद्दययानुगृहीताः ॥ 12-68-21 अविज्ञातं क्रियाविशेषणमिदम् । अनाक्रन्दं मित्रहीनम् । अनन्तरं बन्धुजनहीनम् । व्यासक्तम् अन्येन युद्धं कुर्वाणम् । प्रमत्तम् अनवहितम् । यात्रायां यदि विज्ञातमिति झ. पाठः । तत्र यात्रायां यदि इच्छा स्यात्तर्हि दुर्बलत्वादिना विज्ञातं शत्रुं प्रति यात्रामाज्ञापयेदित्युत्तरेण सम्बन्धः ॥ 12-68-22 विधानं रक्षणादिसामग्रीसम्पादनम् ॥ 12-68-23 कर्षयन् वीर्यवन्तम् । तत्परः कर्षणपरः ॥ 12-68-28 दशधर्मगतेभ्य इति । तदाददीत सहसेति च झ. पाठः । तत्र दशधर्मगताः मत्तोन्मत्तादय इत्यर्थः ॥ 12-68-29 भक्तिः स्वीयत्वेन स्नेहः ॥ 12-68-30 सूतं च विन्यसेद्राजा प्राज्ञं सर्वार्थदर्शिनम् । इति ट. ड. थ. द. पाठः ॥ 12-68-31 आकरे स्वर्णाद्युत्पत्तिस्थाने । लवणे तदुत्पत्तिस्थाने । शुल्के धान्यादिविक्रयस्थाने । तरे नदीसन्तरणे । नागबले हस्तियूथे ॥ 12-68-37 घोषान् वनस्थान्मार्गेषु राजपथेषु न्यसेत् ॥ 12-68-40 उपजपेत् भेदयित्वा तद्द्वारा दाहयेत् ॥ 12-68-41 सङ्क्रमान् अवतरणार्थान्सेतून् । जलं तटाकादिस्थं विस्रावयेत् । तदयोग्यं वापीकूपादिस्थं दूषयेत् विषादिना नाशयेत् ॥ 12-68-42 तदात्वेन वर्तमानकाले आयतीभिः उत्तरकालेषु च । अपवर्गे तृतीया । सर्वदा आजौ परस्य शत्रोः प्रतिघातं हन्तारं भूम्यनन्तरं निकटदेशवासिनं तच्छत्रुमाश्रित्य निवसेत् ॥ 12-68-47 प्रगण्डीर्दुर्गप्राकारभित्तौ शूराणामुपवेशनस्थानानि । आकाशजननीस्तत्रैवैकपक्षायां भित्तौ तत्रत्यानां रक्षणभूतायां बाह्यार्थदर्शनार्थानि क्षुद्रच्छिद्राणि यद्द्वारा आग्नेयास्त्रगुलिकाः प्रक्षिप्यन्ते । स्थाणवः सशूलाः । प्रकुण्ठीः कारयेत् इति ड. थ. पाठः ॥ 12-68-48 सङ्कटद्वारकाणि सूक्ष्मद्वाराणि । तेषां च द्वारवत् गुप्तिः कार्या । कुलिकद्वारकाणि स्युः इति ट. ड. थ. पाठः ॥ 12-68-54 कर्मारो लोहकारादिः । अन्तर्विधेयः आच्छादितः कर्तव्यः ॥ 12-68-55 महादण्डो वधः ॥ 12-68-56 चाक्रिकान् शाकटिकान् । कुशीलवान् फाललेखान् ॥ 12-68-62 वर्णिनां लेखकानाम् । यवसं वासः । दिग्धानां विषाक्तबाणानाम् ॥ 12-68-64 चतुर्विधान् विषशल्यरोगकृत्याहरान् ॥ 12-68-72 सन्धायासनं सन्धिं कृत्वाऽवस्थितिः । यात्रासन्धानं यानम् ॥ 12-68-73 यात्रां सम्परिगृह्याऽऽसनं शत्रोर्भयप्रदर्शनार्थं यानं प्रदर्श्य स्वस्थानेऽवस्थानम् । द्वैधीभाव उभयत्र सन्धिकरणम् ॥