अध्यायः 067

भीष्मेण युधिष्ठिरम् प्रति वसुमनसे बृहस्पत्युक्तराजगुणानुवर्णनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
किमाहुर्दैवतं विप्रा राजानं भरतर्षभ । 001a
मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
बृहस्पतिं वसुमना यथा पप्रच्छ भारत ॥ 002c
राजा वसुमना नाम कौसल्यो धीमतां वरः । 003a
महर्षिं किल पप्रच्छ कृतप्रज्ञं बृहस्पतिम् ॥ 003c
सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतिम् । 004a
दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम् ॥ 004c
विधिं पप्रच्छ राजस्य सर्वलोकहिते रतः । 005a
प्रजानां सुखमन्विच्छन्धर्मशीलं बृहस्पतिम् ॥ 005c
केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन वा । 006a
कमर्चन्तो महाप्राज्ञ सुखमव्ययमाप्नुयुः ॥ 006c
'एतन्मे शंस देवर्षे धर्मकामार्थसंशयम् ॥' 007ac
एवं पृष्टो महाप्राज्ञः कौसल्येनामितौजसा । 008a
राजसत्कारमव्यग्रो राज्यस्य च विवर्धनम् । 008c
दण्डनीतिं समाश्रित्य शशंसास्मै बृहस्पतिः ॥ 008e
राजमूलो महाप्राज्ञ धर्मो लोकस्य लक्ष्यते । 009a
प्रजा राजभयादेव न खादन्ति परस्परम् ॥ 009c
राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम् । 010a
प्रसादयति धर्मेण प्रसाद्य च विराजते ॥ 010c
यथा ह्यनुदये राजन्भूतानि शशिसूर्ययोः । 011a
अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम् ॥ 011c
यथा ह्यनुदके मत्स्या निराक्रन्दे विहङ्गमाः । 012a
विहरेयुर्यथाकामं विहिंसन्तः पुनः पुनः ॥ 012c
विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम् । 013a
अभावमचिरेणैव गच्छेयुर्नात्र संशयः ॥ 013c
एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः । 014a
अन्धे तमसि मज्जेयुरगोपाः पशवो यथा ॥ 014c
हरेयुर्बलवन्तोऽपि दुर्बलानां परिग्रहान् । 015a
हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत् ॥ 015c
ममेदमिति लोकेऽस्मिन्न भवेत्स्वपरिग्रहः । 016a
न दारा न च पुत्रः स्यान्न धनं न परिग्रहः । 016c
विष्वग्लोपः प्रवर्तेत यदि राजा न पालयेत् ॥ 016a
यानं वस्त्रमलङ्कारान्रत्नानि विविधानि च । 017c
हरेयुः सहसा पापा यदि राजा न पालयेत् ॥ 017a
पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु । 018a
अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत् ॥ 018c
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् । 019a
क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत् ॥ 019c
'अन्यांश्च क्रोशतो हिंस्युर्लोकोऽयं दस्युवद्भवेत् ।' 020a
'वधबन्धपरिक्लेशो नित्यमर्थवतां भवेत् । 020c
ममत्वं च न विन्देयुर्यदि राजा न पालयेत् ॥ 020e
अन्ताश्चाकाल एव स्युर्लोकोऽयं दस्युसाद्भवेत् । 021a
पतेद्बहुविधं राज्यं यदि राजा न पालयेत् ॥ 021c
न योनिदोषो वर्तेत न कृषिर्न वणिक्पथः । 022a
मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत् ॥ 022c
न यज्ञाः सम्प्रवर्तेयुर्विधिवत्स्वाप्तदक्षिणाः । 023a
न विवाहाः समाजो वा यदि राजा न पालयेत् ॥ 023c
न वृषाः सम्प्रवर्तेरन्न मथ्येरंश्च गर्गराः । 024a
घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत् ॥ 024c
त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम् । 025a
क्षणेन विनशेत्सर्वं यदि राजा न पालयेत् ॥ 025c
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः । 026a
विधिवद्दक्षिणावन्ति यदि राजा न पालयेत् ॥ 026c
ब्राह्मणाश्चतुरो वेदान्नाधीयीरंस्तपस्विनः । 027a
विद्यास्नाता व्रतस्नाता यदि राजा न पालयेत् ॥ 027c
न भवेद्धर्मसंसेवी मोहविप्रहतो जनः । 028a
हर्ता स्वच्छेन्द्रियो गच्छेद्यदि राजा न पालयेत् ॥ 028c
हस्ताद्धस्तं परिमुषेद्भिद्येरन्सर्वसेतवः । 029a
भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत् ॥ 029c
अनयाः सम्प्रवपर्तेरन्भवेद्वै वर्णसङ्करः । 030a
दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत् ॥ 030c
विवृत्य हि यथाकामं गृहद्वाराणि शेरते । 031a
मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः ॥ 031c
नाक्रुष्टं सहते कश्चित्कुतो वा हस्तलाघवम् । 032a
यदि राजा न सम्यग्गां रक्षयत्यपि धार्मिकः ॥ 032c
स्त्रियश्चापुरुषा मार्गं सर्वालङ्कारभूषिताः । 033a
निर्भयाः प्रतिपद्यन्ते यदि रक्षति भूमिपः ॥ 033c
धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम् । 034a
अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः ॥ 034c
यजन्ते च महायज्ञैस्त्रयो वर्णाः पृथग्विधैः । 035a
युक्ताश्चाधीयते विद्यां यदा रक्षति भूमिपः ॥ 035c
वार्तामूलो ह्ययं लोकस्तया वै धार्यते सदा । 036a
तत्सर्वं वर्तते सम्यग्यदा रक्षति भूमिपः ॥ 036c
यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः । 037a
महता बलयोगेन तदा लोकः प्रसीदति ॥ 037c
यस्याभावेन भूतानामभावः स्यात्समन्ततः । 038a
भावे च भावो नित्यं स्यात्कस्तं न प्रतिपूजयेत् ॥ 038c
तस्य यो वहते भारं सर्वलोकसुखावहम् । 039a
तिष्ठन्प्रियहिते राज्ञ उभौ लोकाविमौ जयेत् ॥ 039c
यस्तस्य पुरुषः पापं मनसाऽप्यनुचिन्तयेत् । 040a
असंशयमिह क्लिष्टः प्रेत्यापि नरकं व्रजेत् ॥ 040c
न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः । 041a
महती देवता ह्येषा नररूपेण तिष्ठति ॥ 041c
कुरुते पञ्चरूपाणि कालयुक्तानि यः सदा । 042a
भवत्यग्निस्तथाऽऽदित्यो मृत्युर्वैश्रवणो यमः ॥ 042c
यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा । 043a
मिथ्योपचरितो राजा तदा भवति पावकः ॥ 043c
यदा पश्यति चारेण सर्वभूतानि भूमिपः । 044a
क्षेमं च कृत्वा व्रजति तदा भवति भास्करः ॥ 044c
अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान् । 045a
सपुत्रपौत्रान्सामात्यांस्तदा भवति सोन्तकः ॥ 045c
यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण्डैर्नियच्छति । 046a
धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा ॥ 046c
यदा तु धनधाराभिस्तर्पयत्युपकारिणः । 047a
आच्छिनत्ति च रत्नानि विविधान्यपकारिणाम् ॥ 047c
श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति । 048a
तदा वैश्रवणो राजा लोके भवति भूमिपः ॥ 048c
नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा । 049a
धर्ममाकाङ्क्षता लोके ईश्वरस्यानसूयता ॥ 049c
न हि राज्ञः प्रतीपानि कुर्वन्सुखमवाप्नुयात् । 050a
पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत् ॥ 050c
कुर्यात्कृष्णगतिः शेषं ज्वलितोऽनिलसारथिः । 051a
न तु राज्ञाऽभिपन्नस्य शेषं क्वचन विद्यते ॥ 051c
तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत् । 052a
मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः ॥ 052c
वध्येदभिमृशन्सद्यो मृगः कूटमिव स्पृशन् । 053a
आत्मस्वमिव संरक्षेद्राजस्वमिह बुद्धिमान् ॥ 053c
महान्तं नरकं घोरमप्रतिष्ठमचेतसः । 054a
पतन्ति चिररात्राय राजवित्तापहारिणः ॥ 054c
राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर्नृपः । 055a
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥ 055c
तस्माद्बुभूषुर्नियतो जितात्मा संयतेन्द्रियः । 056a
मेधावी धृतिमान्दक्षः संश्रयेत महीपतिम् ॥ 056c
कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् । 057a
धर्मनित्यं स्थितं स्थाने मन्त्रिणं पूजयेन्नृपः ॥ 057c
दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम् । 058a
शूरमक्षुद्रकर्माणं प्रसिद्धं जनमाश्रयेत् ॥ 058c
राजा प्रगल्भं पुरुषं करोति राजा भृशं बृंहयते मनुष्यम् । 059a
राजाभिपन्नस्य कुतः सुखानि राजाऽभ्युपेतं सुखिनं करोति ॥ 059c
'राजा प्रजानां प्रथमं शरीरं प्रजाश्च राज्ञोऽप्रतिमं शरीरम् । 060a
राज्ञा विहीना न भवन्ति देशा देशैर्विहीना न नृपा भवन्ति ॥' 060c
राजा प्रजानां हृदयं गरीयो गतिः प्रतिष्ठा सुखमुत्तमं च । 061a
समाश्रिता लोकमिमं परं च जयन्ति सम्यक्पुरुषा नरेन्द्र ॥ 061c
नराधिपश्चाप्यनुशिष्य मेदिनीं दमेन सत्येन च सौहृदेन । 062a
महद्भिरिष्ट्वा क्रतुभिर्महायशास्त्रिविष्टपे स्थानमुपैति शाश्वतम् ॥ 062c
भीष्म उवाच 063
स एवमुक्तोऽङ्गिरसा कौसल्यो राजसत्तमः । 063a
प्रयत्नात्कृतवान्वीरः प्रजापालनमुत्तमम् ॥ 063c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तषष्टितमोऽध्यायः ॥ 67 ॥

12-67-4 वैनयिकम् अभ्युत्थानाभिवादनादिकम् । दक्षिणा दक्षिणातोऽनन्तरः । समीपे भूत्वा प्रदक्षिणीकृत्येत्यर्थः ॥ 12-67-11 अनुदके अल्पोदके । निराक्रन्दे हिंस्रभयरहिते ॥ 12-67-14 व्यायच्छमानान्स्वंस्वमर्थम् अदातॄन् ॥ 12-67-15 विष्वक्सर्वतः लोपः अर्थानां लुम्पनम् ॥ 12-67-18 अन्धाश्च क्रोशत इति द. पाठः ॥ 12-67-21 योनिदोषः व्यभिचारे विगानम् ॥ 12-67-23 न सम्प्रवर्तेरन् न रेतः सिञ्चेरन् । गर्गराः दधिमन्थनपात्राणि ॥ 12-67-28 हस्ताद्धस्तं हस्तस्थमपि चोरा हरेयुः ॥ 12-67-30 विवृत्य उद्धाट्य ॥ 12-67-31 हस्तलाघवं तत्साध्यं ताडनम् । अक्रुष्टं गालनं वा कुतो न सहते । अपितु अनायकत्वात्सहत एव । गां पृथ्वीम् ॥ 12-67-32 अपुरुषाः अरक्षिता अपि ॥ 12-67-35 त्रय्या वै इति झ. पाठः । तत्र वार्ता जीविका तन्मूलः । त्रय्या च वृष्ट्यादिहेतुतया त्रायते रक्षते सर्वं त्रयी वार्तादिरित्यर्थः ॥ 12-67-42 आसीदतः समीपस्थान् । मिथ्योपचरितो वञ्चितः ॥ 12-67-48 तस्योपदेशे स्थातव्यमिति ट. ड. थ. पाठः ॥ 12-67-50 अभिपन्नस्य तिरस्कृतस्य ॥ 12-67-52 कूटं मारणयन्त्रम् ॥ 12-67-54 भोजः सुखानां भोजयिता ॥ 12-67-55 बुभूषुर्भवितुमिच्छुः ॥ 12-67-58 निषिद्धजनमाश्रयेदिति झ. पाठः । तत्र निषिद्धा जना येन तम् । अहमेक एवेदं कार्यं करिष्यामि किमेतैरिति वादिनमित्यर्थः ॥ 12-67-60 समाश्रिता राजानमिति शेषः ॥