अध्यायः 066
भीष्मेण युधिष्ठिरम् प्रति लोकस्य सराजकत्वाराजकत्वाभ्यां गुणदोषनिरूपणम् ॥ 1 ॥
युधिष्ठिर उवाच 001
चातुराश्रम्यमुक्तं ते चातुर्वण्यं तथैव च । 001a
राष्ट्रस्य यत्कृत्यतमं तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
राष्ट्रस्य यत्कृत्यतमं राज्ञ एवाभिषेचनम् । 002a
अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्त्युत ॥ 002c
अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते । 003a
परस्परं च खादन्ति सर्वथा धिगराजकम् ॥ 003c
इन्द्रमेव प्रणमते यद्राजानमिति श्रुतिः । 004a
यथैवेन्द्रस्तथा राजा सम्पूज्यो भूतिमिच्छता ॥ 004c
नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम् । 005a
नाराजकेषु राष्ट्रेषु हव्यं वहति पावकः ॥ 005c
अथ चेदधिवर्तेत राज्यार्थी बलवत्तरः । 006a
अराजकाणि राष्ट्राणि हतवीराणि वा पुनः ॥ 006c
प्रत्युद्गम्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम् । 007a
न हि राज्यात्पापतरमस्ति किञ्चिदराजकात् ॥ 007c
स चेत्समनुपश्येत समग्रं कुशलं भवेत् । 008a
बलवान्हि प्रकुपितः कुर्यान्निःशेषतामपि ॥ 008c
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा । 009a
अथ या सुदुहा राजन्नैव तां वितुदन्त्यपि ॥ 009c
यदतप्तं प्रणमते न तत्सन्तापयन्त्युत । 010a
यत्स्वयं नमते दारु न तत्सन्नामयन्त्यपि ॥ 010c
एतयोपमया धीरः सन्नमेत बलीयसे । 011a
इन्द्राय स प्रणमते नमते यो बलीयसे ॥ 011c
तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छता । 012a
न धनार्थो न दारार्थस्तेषां येषामराजकम् ॥ 012c
प्रीयते हि हरन्पापः परवित्तमराजके । 013a
यदाऽस्य तद्धरन्त्यन्ये तदा राजानमिच्छति ॥ 013c
पापा ह्यपि तदा क्षेमं न लभन्ते कदाचन । 014a
एकस्य हि द्वौ हरतो द्वयोश्च बहवोऽपरे ॥ 014c
अदासः क्रियते दासो ह्रियन्ते च बलात्स्त्रियः । 015a
एतस्मात्कारणाद्देवाः प्रजापालान्प्रचक्रिरे ॥ 015c
राजा चेन्न भवेल्लोके पृथिव्या दण्डधारकः । 016a
जले मत्स्यानिवाभक्ष्यन्दुर्बलं बलवत्तराः ॥ 016c
अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम् । 017a
परस्परं भक्षयन्तो मत्स्या इव जले कृशान् ॥ 017c
समेत्य तास्ततश्चक्रुः समयानिति नः श्रुतम् । 018a
वाक्शूरो दण्डपरुषो यश्च स्यात्पारदारिकः ॥ 018c
यश्च नः समयं भिन्द्यात्त्याज्या नस्तादृशा इति । 019a
विश्वासार्थं च सर्वेषां वर्णानामविशेषतः । 019c
तास्तथा समयं कृत्वा समयेनावतस्थिरे ॥ 019e
सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम् । 020a
अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश ॥ 020c
यं पूजयेम सम्भूय यश्च नः प्रतिपालयेत् । 021a
ताभ्यो मनुं व्यादिदेश मनुर्नाभिननन्द ताः ॥ 021c
मनुरुवाच 022
बिभेमि कर्मणः पापाद्राज्यं हि भृशदुष्करम् । 022a
विशेषतो मनुष्येषु मिथ्यावृत्तेषु नित्यदा ॥ 022c
भीष्म उवाच 023
तमब्रुवन्प्रजा मा भैर्विधास्यामो धनं तव । 023a
पशूनामथ पञ्चांशं धरण्यस्य तथैव च ॥ 023c
धान्यस्य दशमं भागं दास्यामः कोशवर्धनम् । 024a
कन्यां शुल्के चारुरूपां विवाहेषूद्यतासु च ॥ 024c
मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः । 025a
भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः ॥ 025c
स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान् । 026a
सुखे धास्यसि नः सर्वान्कुबेर इव नैर्ऋतान् ॥ 026c
यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः । 027a
चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति ॥ 027c
तेन धर्मेण महता सुखं लब्धेन भावितः । 028a
पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः ॥ 028c
विजयाय हि निर्याहि प्रतपन्रश्मिवानिव । 029a
मानं विधम शत्रूणां धर्मं जनय नः सदा ॥ 029c
स निर्ययौ महातेजा बलेन महता वृतः । 030a
महाभिजनसम्पन्नस्तेजसा प्रज्वलन्निव ॥ 030c
तस्य दृष्ट्वा महत्त्वं ते महेन्द्रस्येव देवताः । 031a
अपतत्रसिरे सर्वे स्वधर्मे च ददुर्मनः । 031c
'वर्णिनश्चाश्रमाश्चैव म्लेच्छाः सर्वे च दस्यवः ॥' 031e
ततो महीं परिययौ पर्जन्य इव वृष्टिमान् । 032a
शमयन्सर्वतः पापान्स्वकर्मसु च योजयन् ॥ 032c
एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित् । 033a
कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात् ॥ 033c
नमस्येरंश्च तं भक्त्या शिष्या इव गुरुं सदा । 034a
देवा इव च देवेन्द्रं नरा राजानमन्तिकात् ॥ 034c
सत्कृतं स्वजनेनेह परोऽपि बहुमन्यते । 035a
स्वजनेन त्ववज्ञातं परे परिभवन्त्युत ॥ 035c
राज्ञः परैः परिभवः सर्वेषामसुखावहः । 036a
तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च ॥ 036c
भोजनान्यथ पानानि राज्ञे दद्युर्गृहाणि च । 037a
आसनानि च शय्याश्च सर्वोपकरणानि च ॥ 037c
गोप्ता चास्य दुराधर्षः स्मितपूर्वाभिभाषिता । 038a
आभाषितश्च मधुरं प्रत्याभाषेत मानवान् ॥ 038c
कृतज्ञो दृढभक्तिः स्यात्संविभागी जितेन्द्रियः । 039a
ईक्षितः प्रतिवीक्षेत मृदु वल्गु च चर्जु च ॥ 039c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षट्षष्टितमोऽध्यायः ॥ 66 ॥
12-66-4 इन्द्रमेव प्रवृणुते इति झ. पाठः ॥ 12-66-12 धनादेरर्थ उपभोगः ॥ 12-66-18 वाक्शूरो निष्टुरभाषी । दण्डपरुष उग्रदण्डः ॥ 12-66-23 कर्तॄनेनो गमिष्यति इति झ. पाठः ॥ 12-66-24 विवाहेषूद्यतासु कन्यासु शुल्के मौल्यप्रसङ्गे सति सुरूपां कन्यां तुभ्यं दास्याम इत्यर्थः ॥ 12-66-25 शस्त्रपत्रेण शस्त्रेण वाहनेन च । प्रधानतः श्रेष्टाः । प्रथमार्थे तसिः ॥ 12-66-29 मानं दर्पम् । विधम नाशय ॥ 12-66-31 अपतत्रसिरे त्रासं प्राप्ताः ॥