अध्यायः 065

भीष्मेण युधिष्ठिरम् प्रति वर्णाश्रमधर्मकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
श्रुता मे कथिताः पूर्वं चत्वारो मानवाश्रमाः । 001a
व्याख्यानमेषामाचक्ष्व पृच्छतो मे पितामह ॥ 001c
भीष्म उवाच 002
विदिताः सर्व एवेह धर्मास्तव युधिष्ठिर । 002a
यथा मम महाबाहो विदिताः साधुसम्मताः ॥ 002c
यत्तु लिङ्गान्तरगतं पृच्छसे मां युधिष्ठिर । 003a
धर्मं धर्मभृतां श्रेष्ठ तन्निबोध नराधिप । 003c
सर्वाण्येतानि कौन्तेय विद्यन्ते भरतर्षभ । 004a
साध्वाचारप्रवृत्तानां चातुराश्रम्यकर्मणाम् ॥ 004c
अकामद्वेषसंयुक्तो दण्डनीत्या युधिष्ठिर । 005a
समदर्शी च भूतेषु भैक्ष्याश्रमपदं भवेत् ॥ 005c
वेत्ति दानं विसर्गं च विग्रहानुग्रहौ तथा । 006a
यथोक्तवृत्तो धीरश्च क्षमाश्रमपदं भवेत् ॥ 006c
अर्हान्पूजयतो नित्यं संविभागेन पाण्डव । 007a
सर्वतस्तस्य कौन्तेय भैक्ष्याश्रमपदं भवेत् ॥ 007c
ज्ञातिसम्बन्धिमित्राणि व्यापन्नानि युधिष्ठिर । 008a
समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत् ॥ 008c
लोकमुख्येषु सत्कारं लिङ्गिमुख्येषु चासकृत् । 009a
कुर्वतस्तस्य कौन्तेय वन्याश्रमपदं भवेत् ॥ 009c
आह्निकं पितृयज्ञांश्च भूतयज्ञान्समानुषान् । 010a
कुर्वतः पार्थ विपुलान्वन्याश्रमपदं भवेत् ॥ 010c
संविभागेन भूतानामतिथीनां तथाऽर्चनात् । 011a
देवयज्ञैश्च राजेन्द्र वन्याश्रमपदं भवेत् ॥ 011c
मर्दनं परराष्ट्राणां शिष्टार्थं सत्यविक्रम । 012a
कुर्वतः पुरुषव्याघ्र वन्याश्रमपदं भवेत् ॥ 012c
पालनात्सर्वभूतानां स्वराष्ट्रपरिपालनात् । 013a
दीक्षा बहुविधा राजन्सत्याश्रमपदं भवेत् ॥ 013c
वेदाध्ययननित्यत्वं क्षमाऽथाचार्यपूजनम् । 014a
तथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत् ॥ 014c
आह्निकाञ्जपमानस्य देवान्पूजयतः सदा । 015a
धर्मेण पुरुषव्याघ्र धर्माश्रमपदं भवेत् ॥ 015c
मृत्युर्वा रक्षणं वेति यस्य राज्ञो विनिश्चयः । 016a
प्राणद्यूते व्यवस्थाप्य ब्रह्माश्रमपदं भवेत् ॥ 016c
अजिह्नमशठं मार्गं वर्तमानस्य भारत । 017a
सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत् ॥ 017c
वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत । 018a
प्रयच्छतोऽर्थान्विपुलान्वन्याश्रमपदं भवेत् ॥ 018c
सर्वभूतेष्वनुक्रोशं कुर्वतस्तव भारत । 019a
आनृशंस्ये प्रवृत्तस्य नियतः पुण्यसञ्चयः ॥ 019c
बालवृद्धेषु कौन्तेय सर्वावस्थं युधिष्ठिर । 020a
अनुक्रोशक्रिया पार्थ धर्म एष सनातनः ॥ 020c
बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह । 021a
शरणागतेषु कौरव्य परं कारुण्यमाचर ॥ 021c
चराचराणां भूतानां रक्षणं चापि सर्वशः । 022a
यथार्हपूजां च तथा कुर्वन्गार्हस्थ्यमावसेत् ॥ 022c
ज्येष्ठानुज्येष्ठपत्नीनां भ्रातॄणां पुत्रनप्तृणाम् । 023a
निग्रहानुग्रहौ पार्थ गार्हस्थ्यममितं तपः ॥ 023c
साधूनामर्चनीयानां पूजासु विदितात्मनाम् । 024a
पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत् ॥ 024c
आश्रमस्थानि भूतानि यस्य वेश्मनि भारत । 025a
भुञ्जते विपुलं भोज्यं तद्गार्हस्थ्यं युधिष्ठिर ॥ 025c
यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत् । 026a
आश्रमाणां हि सर्वेषां फलं प्राप्नोत्यनामयम् ॥ 026c
यस्मिन्न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा । 027a
आश्रमस्थं तमप्याहुर्नरश्रेष्ठं युधिष्ठिर ॥ 027c
स्थानमानं कुलेमानं वयोमानं तथैव च । 028a
कुर्वन्वसति सर्वेषु ह्याश्रमेषु युधिष्ठिर ॥ 028c
देशधर्मांश्च कौन्तेय कुलधर्मांस्तथैव च । 029a
पालयन्पुरुषव्याघ्र राजा सर्वाश्रमी भवेत् ॥ 029c
काले विभूतिं भूतानामुपहारांस्तथैव च । 030a
अर्हयन्पुरुषव्याघ्र साधूनामाश्रमे वसेत् ॥ 030c
देशधर्मगतश्चापि यो धर्मं प्रत्यवेक्षते । 031a
सर्वलोकस्य कौन्तेय राजा भवति सोश्रमी ॥ 031c
ये धर्मकुशला लोके धर्मं कुर्वन्ति भारत । 032a
पालिता यस्य विषये पादांशस्तस्य भूपतेः ॥ 032c
धर्मारामान्धर्मपरान्ये न रक्षन्ति मानवान् । 033a
पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते ॥ 033c
ये च रक्षासहायाः स्युः पार्थिवानां युधिष्ठिर । 034a
ते चैवांशहराः सर्वे धर्मे परकृतेऽनघ ॥ 034c
सर्वाश्रमपदेऽप्याहुर्गार्हस्थ्यं दीप्तनिर्णयम् । 035a
पावनं पुरुषव्याघ्र यद्वयं पर्युपास्महे ॥ 035c
आत्मोपमस्तु भूतेषु यो वै भवति मानवः । 036a
न्यस्तदण्डो जितक्रोधः प्रेत्येह लभते सुखम् ॥ 036c
धर्मोच्छ्रिता सत्यजला शीलयष्टिर्दमध्वजा । 037a
त्यागवाताध्वगा शीघ्रा नौस्तया सन्तरिष्यति ॥ 037c
यदा सर्वत्र निर्मुक्तः कामो नास्य हृदि स्थितः । 038a
यदा सत्यान्वितो वृत्तैस्तदा ब्रह्म समश्नुते ॥ 038c
सुप्रसन्नस्तु भावेन योगेन च नराधिप । 039a
धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः ॥ 039c
वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम् । 040a
पालने यत्नमातिष्ठ सर्वलोकस्य चानघ ॥ 040c
वने चरन्ति ये धर्ममाश्रमेषु च भारत । 041a
रक्षणात्तच्छतगुणं धर्मं प्राप्नोति पार्थिवः ॥ 041c
एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः । 042a
युधिष्ठिर त्वमेनं वै पूर्वं दृष्टं सनातनम् ॥ 042c
चातुराश्रम्यमैकाग्र्यं चातुर्वर्ण्यं च पाण्डवं । 043a
धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः ॥ 043c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चषष्टितमोऽध्यायः ॥ 65 ॥

12-65-4 एतानि चातुराश्रम्यकारिणां लिङ्गानि सतां राज्ञां राजधर्मेष्वेव वर्तन्ते इत्यर्थः ॥ 12-65-5 भैक्ष्याश्रमः ब्रह्मचर्यम् ॥ 12-65-6 क्षमाश्रमो गार्हस्थ्यम् ॥ 12-65-7 भैक्ष्याश्रमः सन्न्यासः ॥ 12-65-8 दीक्षाश्रमो वैखानसः ॥ 12-65-12 शिष्टार्थं शिष्टसंरक्षणार्थम् ॥ 12-65-13 सत्याश्रमः क्षात्राश्रमः ॥ 12-65-15 धर्माश्रमः यत्याश्रमः ॥ 12-65-19 सर्वावस्थं पदं भवेत् इति झ. पाठः ॥ 12-65-31 सोश्रमी सः आश्रमी सर्वाश्रमफलभागित्यर्थः ॥ 12-65-37 धर्मे स्थिता सत्ववीर्या धर्मसेतुवटारका । त्यागवाताध्वगाशीघ्रा नौस्तं सन्तारयिष्यति । इति झ. पाठः । तत्र धर्मसेतुः शास्त्रं सैव वटारका बन्धनरज्जुर्यत्रेत्यर्थः ॥