अध्यायः 064

भीष्मेण युधिष्ठिरम् प्रति इन्द्ररूपिहरिणा मान्धातारम् प्रत्युक्तराजधर्मादिकथनम् ॥ 1 ॥ इन्द्र उवाच 001
एवंवीर्यः सर्वधर्मोपपन्नः क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः । 001a
पाल्यो युष्माभिर्लोकपालैरुदारैर्विपर्यये स्यादभवः प्रजानाम् । 001c
भूसंस्कारं धर्मसंस्कारयोग्यं दीक्षाचर्यां पालनं च प्रजानाम् । 002a
विद्याद्राज्ञः सर्वभूतानुकम्पा देहत्यागं चाहवे धर्ममग्र्यम् ॥ 002c
त्यागं श्रेष्ठं मुनयो वै वदन्ति सर्वश्रेष्ठं यच्छरीरं त्यजन्ति । 003a
नित्यं व्यक्तं राजधर्मेषु सर्वे प्रत्यक्षं ते भूमिपाला यथैते ॥ 003c
बहुश्रुत्या गुरुशुश्रूषया वा परस्पराः संहननाद्वदन्ति । 004a
नित्यं धर्मं क्षत्रियो ब्रह्मचारी चरेदेको ह्याश्रमं धर्मकामः ॥ 004c
सामान्यार्थे व्यवहारे प्रवृत्ते प्रियाप्रिये वर्जयन्नैव यत्नात् । 005a
चातुर्वर्ण्यं स्थापनात्पालनाच्च तैस्तैर्योगैर्नियमैरौषधैश्च ॥ 005c
सर्वोद्योगैराश्रमं धर्ममाहुः क्षात्रं श्रेष्ठं सर्वधर्मोपपन्नम् । 006a
वंस्वं धर्मं येन चरन्ति वर्णास्तांस्तान्धर्मानन्यथार्थान्वदन्ति ॥ 006c
नेर्मर्यादान्नित्यमर्थे निविष्टानाहुस्तान्वै पशुभूतान्मनुष्यान् । 007a
यथा नीतिं गमयत्यर्थयोगाच्छ्रेयस्तस्मादाश्रमात्क्षत्रधर्मः ॥ 007c
त्रैविद्यानां या गतिर्ब्राह्मणानां ये चैवोक्ताः स्वाश्रमा ब्राह्मणानाम् । 008a
एतत्कर्म क्षत्रियस्याहुरग्र्यमन्यत्कुर्वञ्छूद्रवच्छस्त्रवध्यः ॥ 008c
चातुराश्रम्यधर्माश्च वेदवादाश्च पार्थिव । 009a
ब्राह्मणेनानुगन्तव्या नान्यो विद्यात्कदाचन ॥ 009c
अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते । 010a
कर्मणा वर्धते धर्मो यथा धर्मस्तथैव सः ॥ 010c
यो विकर्मस्थितो विप्रो न स सन्मानमर्हति । 011a
कर्म स्वमप्रयुञ्जानमविश्वास्यं हि तं विदुः ॥ 011c
एते वर्णाः सर्वधर्मैश्च हीना उत्क्रष्टव्याः क्षत्रियैरेव धर्माः । 012a
तस्माच्छ्रेष्ठा राजधर्मा न चान्ये वीर्यश्रेष्ठा राजधर्मा मता मे ॥ 012c
मान्धातोवाच 013
यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः । 013a
शकास्तुषाराः कङ्काश्च पल्लवाश्चान्ध्रमद्रकाः ॥ 013c
उष्ट्राः पुलिन्दा आरट्टाः काचा म्लेच्छाश्च सर्वशः । 014a
ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः ॥ 014c
कथं धर्मांश्चरिष्यन्ति सर्वे विषयवासिनः । 015a
मद्विधैश्च कथं स्थाप्याः सर्वे वै दस्युजीविनः ॥ 015c
एतदिच्छाम्यहं श्रोतुं मघवंस्तद्ब्रवीहि मे । 016a
त्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर ॥ 016c
इन्द्र उवाच 017
मातापित्रोर्हि शुश्रूषा कर्तव्या सर्वदस्युभिः । 017a
आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम् ॥ 017c
भूमिपानां च शुश्रूषा कर्तव्या सर्वदस्युभिः । 018a
देशधर्मक्रियाश्चैव तेषां धर्मो विधीयते ॥ 018c
पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च । 019a
दानानि च यथाकालं दातव्यानि द्विजातिषु ॥ 019c
अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम् । 020a
भरणं पुत्रदाराणां शौचमद्रोह एव च ॥ 020c
दक्षिणा सर्वयज्ञानां दातव्या धर्ममिच्छता । 021a
पाकयज्ञा महार्थाश्च दातव्याः सर्वदस्युभिः ॥ 021c
एतान्येवम्प्रकाराणि विहितानि पुराऽनघ । 022a
सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव ॥ 022c
मान्धातोवाच 023
दृश्यन्ते मानुषे लोके सर्ववर्णेषु दस्यवः । 023a
लिङ्गान्तरे वर्तमाना आश्रमेषु तथैव च ॥ 023c
इन्द्र उवाच 024
विनष्टायां दण्डनीत्यां राजधर्मे विनाकृते । 024a
सम्प्रमुह्यन्ति भूतानि राजदौरात्म्यतोऽनघ ॥ 024c
असङ्ख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथा । 025a
आश्रमाणां विकल्पाश्च वृत्तेऽस्मिन्वैकृते युगे ॥ 025c
अशृण्वानाः पुराणानां धर्माणां शतशो नराः । 026a
उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः ॥ 026c
यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः । 027a
तदा धर्मो न चलते सम्भूतः शाश्वतः पुरा ॥ 027c
सर्वलोकगुरुं चैव राजानं योऽवमन्यते । 028a
न तस्य दत्तं न कृतं न श्रुतं फलति क्वचित् ॥ 028c
मानुषाणामधिपतिं देवभूतं महाद्युतिम् । 029a
देवाश्च बहुमन्यन्ते धर्मकामं नरेश्वरम् ॥ 029c
प्रजापतिर्हि भगवान्यः सर्वमसृजज्जगत् । 030a
स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति ॥ 030c
प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम् । 031a
स मे मान्यश्च पूज्यश्च स च क्षत्रे प्रतिष्ठितः ॥ 031c
भीष्म उवाच 032
एवमुक्त्वा स भगवान्मरुद्गणवृतः प्रभुः । 032a
जगाम भवनं विष्णुरक्षरं शाश्वतं परम् ॥ 032c
एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघ । 033a
कः क्षत्रमतिवर्तेत चेतनावान्बहुश्रुतः ॥ 033c
अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च । 034a
अन्तरा विलयं यान्ति यथा पथि विचक्षुषः ॥ 034c
आदौ प्रवर्तिते चक्रे तथैवादिपरायणे । 035a
वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ ॥ 035c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुःषष्टितमोऽध्यायः ॥ 64 ॥

12-64-2 भूसंस्कारं भुवः सम्पन्नसस्यत्वम् । राजसंस्कारयोगमिति झ. पाठः । तत्र राजसंस्कारो राजसूयादिरर्थः ॥ 12-64-5 नियमैरौरसैश्चेति झ. पाठः । तत्र औरसैः पौरुषैः इत्यर्थः ॥ 12-64-6 येन क्षात्रधर्मेण । अन्यथार्थान्निष्प्रयोजनान् वदन्ति ॥ 12-64-7 निर्मर्यादे नित्यमर्थे विनष्टे न धर्मचिन्ता पशुभूते मनुष्ये । इति ट. ड. थ. पाठः ॥ 12-64-8 या गतिर्यज्ञादिः आश्रमधर्मश्च एतद्द्वयम् ॥ 12-64-10 कर्मणा त्यज्यते धर्मो यथैव स्यात्तथैव सः इति ट. ड. थ. पाठः ॥ 12-64-12 उत्क्रष्टव्या उत्कर्षं प्रापणीयाः ॥ 12-64-15 दस्युजीविनो दस्युवृत्तिजीविनः ॥ 12-64-26 परमा गतीः इति झ. पाठः ॥ 12-64-31 गतिं फलम् ॥ 12-64-35 आदिपरायणे पूर्वेषां शरणभूते वर्तस्व । ते त्वाम् ॥