अध्यायः 063

भीष्मेण युधिष्ठिरम् प्रति राजधर्मप्रशंसकेन्द्रमान्धातृसंवादानुवादः ॥ 1 ॥ भीष्म उवाच 001
चातुराश्रम्यधर्माश्च यतिधर्माश्च पाण्डव । 001a
लोकवेदोत्तराश्चैव क्षात्रधर्मे समाहिताः ॥ 001c
सर्वाण्येतानि कर्माणि क्षात्रे भरतसत्तम । 002a
निराशिषो जीवलोकाः क्षत्रधर्मे व्यवस्थिते ॥ 002c
अप्रत्यक्षं बहुफलं धर्ममाश्रमवासिनाम् । 003a
प्ररूपयन्ति तद्भावमागमैरेव शाश्वतम् ॥ 003c
अपरे वचनैः पुण्यैर्वादिनो लोकनिश्चये । 004a
अनिश्चयज्ञा धर्माणामदृष्टान्ते परे रताः ॥ 004c
प्रत्यक्षं फलभूयिष्ठमात्मसाक्षिकमच्छलम् । 005a
सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम् ॥ 005c
धर्माश्रमेऽध्यवसिनां ब्राह्मणानां युधिष्ठिर । 006a
यथा त्रयाणां वर्णानां सङ्ख्यातोपश्रुतिः पुरा । 006c
राजधर्मेष्वनुमता लोकाः सुचरितैः सह ॥ 006e
उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम् । 007a
सर्वभूतेश्वरं देवं ब्राह्मं नारायणं पुरा । 007c
जग्मुः सुबहुशः शूरा राजानो दण्डनीतये ॥ 007e
एकैकमात्मनः कर्म तुलयित्वाश्रमं पुरा । 008a
राजानः पर्युपासन्त दृष्टान्तवचने स्थिताः ॥ 008c
साध्या देवा वसवश्चाश्विनौ च रुद्राश्च विश्वे मरुतां गणाश्च । 009a
सृष्टाः पुरा ह्यादिदेवेन देवाः क्षात्रे धर्मे वर्तयन्ते च सिद्धाः ॥ 009c
अत्र ते वर्तयिष्यामि धर्ममर्थविनिश्चये । 010a
निर्मर्यादे वर्तमाने दानवैकार्णवे पुरा ॥ 010c
बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान् । 011a
पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया ॥ 011c
अनादिमध्यनिधनं देवं नारायणं प्रभुम् । 012a
स राजा राजशार्दूल मान्धाता परमेश्वरम् ॥ 012c
जगाम शिरसा पादौ यज्ञे विष्णोर्महात्मनः । 013a
दर्शयामास तं विष्णू रूपमास्थाय वासवम् ॥ 013c
स पार्थिवैर्वृतः सद्भिरर्चयामास तं प्रभुम् । 014a
तस्य पार्थिवसङ्घस्य तस्य चैव महात्मनः । 014c
संवादोऽयं महानासीद्विष्णुं प्रति महाद्युतिम् ॥ 014e
इन्द्र उवाच 015
किमिष्यसे धर्मभूतां वरिष्ठ यं द्रष्टुकामोऽसि तमप्रमेयम् । 015a
अनन्तमायामितमन्त्रवीर्यं नारायणं ह्यादिदेवं पुराणम् ॥ 015c
नासौ देवो विश्वरूपो मयाऽपि शक्यो द्रष्टुं ब्रह्मणा वाऽपि साक्षात् | 016a
येऽन्ये कामास्तव राजन्हृदिस्था दास्ये चैतांस्त्वं हि मर्त्येषु राजा ॥ 016c
सत्ये स्थितो धर्मपरो जितेन्द्रियः शूरो दृढप्रीतिरतः सुराणाम् । 017a
बुद्ध्या भक्त्या चोत्तमः श्रद्धया च ततस्तेऽहं दद्मि वरान्यथेष्टम् ॥ 017c
मान्धातोवाच 018
असंशयं भगवन्नादिदेवं वक्ष्यामि त्वाऽहं शिरसा सम्प्रसाद्य । 018a
त्यक्त्वा कामान्धर्मकामो ह्यरण्यमिच्छे गन्तुं सत्पथं साधुजुष्टम् ॥ 018c
क्षात्राद्धर्माद्विपुलादप्रमेयाल्लोकाः प्राप्ताः स्थापितं स्वं यशश्च । 019a
धर्मो योऽसावादिदेवात्प्रवृत्तो लोकश्रेष्ठं तं न जानामि कर्तुम् ॥ 019c
इन्द्र उवाच 020
असैनिका धर्मपराश्च धर्मे परां गतिं न नयन्ते ह्ययुक्तम् । 020a
क्षात्रो धर्मो ह्यादिदेवात्प्रवृत्तः पश्चादन्ये शेषभूताश्च धर्माः ॥ 020c
शेषाः सृष्टा ह्यन्तवन्तो ह्यनन्ताः सप्रस्थानाः क्षात्रधर्मा विशिष्टाः । 021a
अस्मिन्धर्मे सर्वधर्माः प्रविष्टाः क्षात्रं धर्मं श्रेष्ठतमं वदन्ति ॥ 021c
कर्मणा वै पुरा देवा ऋषयश्चामितौजसः । 022a
त्राताः सर्वे प्रसह्यारीन्क्षत्रधर्मेण विष्णुना ॥ 022c
यदि ह्यसौ भगवन्नाहनिष्यद्रिपून्सर्वानसुरानप्रमेयः । 023a
न च ब्रह्मा नैव लोकादिकर्ता सन्तो धर्माश्चादिधर्माश्च न स्युः ॥ 023c
इमामुर्वीं नाजयद्विक्रमेण देवश्रेष्ठः सासुरामादिदेवः । 024a
चातुर्वर्ण्यं चातुराश्रम्यधर्माः सर्वे न स्युर्ब्राह्मणानां विनाशात् ॥ 024c
नष्टा धर्माः शतधा शाश्वतास्ते क्षात्रेण धर्मेण पुनः प्रवृद्धाः । 025a
युगेयुगे ह्यादिधर्माः प्रवृत्ता लोकज्येष्ठं क्षात्रधर्मं वदन्ति ॥ 025c
आत्मत्यागः सर्वभूतानुकम्पा लोकज्ञानं पालनं मोक्षणं च । 026a
विषण्णानां मोक्षणं पीडितानां क्षात्रे धर्मे विद्यते पार्थिवानाम् ॥ 026c
निर्मर्यादाः काममन्युप्रवृत्ता भीता राज्ञो नाधिगच्छन्ति पापम् । 027a
शिष्टाश्चान्ये सर्वधर्मोपपन्नाः साध्वाचाराः साधुधर्मं वदन्ति ॥ 027c
पुत्रवत्पाल्यमानानि धर्मलिङ्गानि पार्थिवैः । 028a
लोके भूतानि सर्वाणि चरन्ते नात्र संशयः ॥ 028c
सर्वधर्मपरं क्षात्रं लोकश्रेष्ठं सनातनम् । 029a
शश्वदक्षरपर्यन्तमक्षरं सर्वतोमुखम् ॥ 029c

श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रिषष्टितमोऽध्यायः ॥ 63 ॥

12-63-1 राजधर्माश्च पाण्डव । लोकालोकोत्तराश्चैव धर्माः क्षात्रे समर्पिता इति ट. ड. द. पाठः ॥ 12-63-3 बहुद्वारमिति झ. पाठः ॥ 12-63-4 अदृष्टान्ते न दृष्टोऽन्तो यस्य तस्मिन् ॥ 12-63-5 सुखभूयिष्ठमिति झ. पाठः ॥ 12-63-6 धर्माश्रमे गार्हस्थ्ये वर्णानां धर्माणाम् उपश्रुतिरन्तर्भावः सङ्ख्याता प्रकटा । तथा राजधर्मेषु धर्मैः सह लोका अन्तर्भूताः । अनुलोमा राजधर्मो लोके सुचरितैरिहेति थ. द. पाठः ॥ 12-63-8 आश्रमम् आश्रमविहितं तुलयित्वा किं दण्डनीतिजो धर्मो महान् उत आश्रमधर्म इति सन्दिह्य दृष्टान्तवचने सिद्धान्तं श्रोतुम् ॥ 12-63-13 वासयं ऐन्द्रं रूपम् ॥ 12-63-20 न सन्ति सैनिका येषां ते असैनिकाः अराजानः युक्तम् अभिनिवेशशून्यं यथा स्यात्तथा हेलयैव न नयन्ते इत्यर्थः । शेषभूताः अङ्गभूताः ॥ 12-63-26 आत्मत्यागो युद्धे मरणम् 12-63-29 अक्षरपर्यन्तं मोक्षावसानम् ॥