अध्यायः 062

भीष्मेण युधिष्ठिरम् प्रति ब्राह्मणैस्त्याज्यधर्मकथनम् ॥ 1 ॥ तथा क्षत्रियादिधर्मकथनपूर्वकं राजधर्मप्रशंसनम् ॥ 2 ॥ भीष्म उवाच 001
ज्याकर्षणं शत्रुनिबर्हणं च कृषिर्वणिज्या पशुपालनं च । 001a
शुश्रूषणं चापि तथाऽर्थहेतोरकार्यमेतत्परमं द्विजस्य ॥ 001c
सेव्यं तु ब्रह्म षट्कर्म गृहस्थेन मनीषिणा । 002a
कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते ॥ 002c
राजप्रेष्यं कृषिधनं जीवनं च वणिज्यया । 003a
कौटिल्यं कौलटेयं च ब्राह्मणस्य विगर्हितम् ॥ 003c
शूद्रो राजन्भवति ब्रह्मबन्धुर्दुश्चारित्रो यश्च धर्मादपेतः । 004a
वृषलीपतिः पिशुनो नर्तनश्च ग्रामप्रेष्यो यश्च भवेद्विकर्मा ॥ 004c
'एवंविधो ब्राह्मणः कौरवेन्द्र वृत्तापेतो यो भवेन्मन्दचेताः ।' 005a
जपन्वेदानजपंश्चापि राजन्समः शूद्रैर्दासवच्चापि भोज्यः । 005c
एते सर्वे शूद्रसमा भवन्ति राजन्नेतान्वर्जयेद्देवकृत्ये ॥ 005e
निर्मर्यादे वाक्छठे क्रूरवृत्तौ हिंसाकामे त्यक्तवृत्तस्वधर्मे । 006a
हव्यं कव्यं यानि चान्यानि राजन्देयान्यदेयानि भवन्ति तस्मिन् ॥ 006c
तस्माद्धर्मो विहितो ब्राह्मणस्य दमः शौचं चार्जवं चापि राजन् । 007a
तथा विप्रस्याश्रमाः सर्व एव पुरा राजन्ब्रह्मणा सन्निसृष्टाः ॥ 007c
यः स्याद्दान्तः सोमपाश्चार्यशीलः सानुक्रोशः सर्वसहो निराशीः । 008a
ऋजुर्मृदुरनृशंसः क्षमावान्स वै विप्रो नेतरः पापकर्मा ॥ 008c
विप्रं वैश्यं राजपुत्रं च राजन्लोकाः सर्वे संश्रिता धर्मकामाः । 009a
तस्माद्वर्णाञ्जातिधर्मेषु सक्ताञ्जेतुं विष्णुर्नेच्छति पाण्डुपुत्र ॥ 009c
लोकश्चायं सर्वलोकस्य न स्याच्चातुर्वर्ण्यं वेदवादाश्च न स्युः । 010a
सर्वाश्चेज्याः सर्वलोकक्रियाश्च सद्यः सर्वे चाश्रमाश्चैव न स्युः ॥ 010c
यच्च त्रयाणां वर्णानामिच्छेदाश्रमसेवनम् । 011a
कर्तुमाश्रमदृष्टांश्च धर्मास्ताञ्शृणु पाण्डव ॥ 011c
शुश्रूषोः कृतकार्यस्य कृतसन्तानकर्मणः । 012a
अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते ॥ 012c
अल्पान्तरगतस्यापि देशधर्मगतस्य वा । 013a
आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम् ॥ 013c
भैक्षचर्यां नचैवाहुस्तस्य तद्धर्मवादिनः । 014a
तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि ॥ 014c
कृतकृत्यो वयोतीतो राज्ञः कृतपरिश्रमः । 015a
वैश्यो गच्छेदनुज्ञातो नृपेणाश्रमसंश्रयम् ॥ 015c
वेदानधीत्य धर्मेण राजशास्त्राणि चानघ । 016a
सन्तानादीनि कर्माणि कृत्वा सोमं निषेव्य च ॥ 016c
पालयित्वा प्रजाः सर्वा धर्मेण वदतांवर । 017a
राजसूयाश्वमेधादीन्मखानन्यांस्तथैव च ॥ 017c
आनयित्वा यथान्यायं विप्रेभ्यो दत्तदक्षिणः । 018a
सङ्ग्रामे विजयं प्राप्य तथाऽल्पं यदि वा बहु ॥ 018c
स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव । 019a
अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ ॥ 019c
अर्चयित्वा पितॄञ्श्राद्धैः पितृयज्ञैर्यथाविधि । 020a
देवान्यज्ञैर्ऋषीन्वेदैरर्चयित्वा तु यत्नतः ॥ 020c
अन्तकाले च सम्प्राप्ते य इच्छेदाश्रमान्तरम् । 021a
सोनुपूर्व्याश्रमान्राजन्गत्वा सिद्धिमवाप्नुयात् ॥ 021c
राजर्षित्वेन राजेन्द्र भैक्ष्यचर्याद्यसेवया । 022a
अपेतगृहधर्मापि चरेज्जीवितकाम्यया ॥ 022c
न चैतन्नैष्ठिकं कर्म त्रयाणां भूरिदक्षिण । 023a
चतुर्णां राजशार्दूल प्राहुराश्रमवासिनाम् ॥ 023c
बाह्वायत्तं क्षत्रियैर्मानवानां लोकश्रेष्ठं धर्ममासेवमानैः । 024a
सर्वे धर्माः सोपधर्मास्त्रयाणां राज्ञो धर्मं नीतिशास्त्रे शृणोमि ॥ 024c
यथा राजन्हस्तिपदे पदानि संलीयन्ते सर्वसत्वोद्भवानि । 025a
एवं धर्मान्राजधर्मेषु सर्वान्सर्वावस्थान्सम्प्रलीनान्निबोध ॥ 025c
अल्पाश्रयानल्पफलान्वदन्ति धर्मानन्यान्धर्मविदो मनुष्याः । 026a
महाश्रयं बहुकल्याणरूपं क्षात्रं धर्मं नेतरं प्राहुरार्याः ॥ 026c
सर्वे धर्मा राजधर्मप्रधानाः सर्वे वर्णाः पाल्यमाना भवन्ति । 027a
सर्वस्त्यागो राजधर्मेषु राजंस्त्यागं धर्मं चाहुरग्र्यं पुराणम् ॥ 027c
मज्जेत्त्रयी दण्डनीतौ हतायां सर्वे धर्माः प्रक्षयेयुर्विरुद्धाः । 028a
सर्वे धर्माश्चाश्रमाणां हताः स्युः क्षात्रे नष्टे राजधर्मे पुराणे ॥ 028c
सर्वे भोगा राजधर्मेषु दृष्टाः सर्वा दीक्षा राजधर्मेषु चोक्ताः । 029a
सर्वा विद्या राजधर्मेषु युक्ताः सर्वे लोका राजधर्मे प्रविष्टाः ॥ 029c
'सर्वे धर्मा राजधर्मेषु दृष्टाः सर्वे भोगा राजधर्मेषु राजन् ।' 030a
सर्वे योगा राजधर्मेषु चोक्ताः सर्वे धर्मा राजधर्मे प्रविष्टाः । 030c
तस्माद्धर्मो राजधर्माद्विशिष्टो नान्यो लोके विद्यतेऽजातशत्रो ॥ 030e
सर्वाण्येतानि कर्माणि क्षात्रे भरतसत्तम । 031a
भवन्ति जीवलोकाश्च क्षत्रधर्मे प्रतिष्ठिताः ॥ 031c
यथा जीवाः प्राकृतैर्वध्यमाना धर्मश्रुतीनामुपपीडनाय । 032a
एवं धर्मा राजधर्मैर्वियुक्ताः सञ्चिन्वन्तो नाद्रियन्ते स्वधर्मम् ॥ 032c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्विषष्टितमोऽध्यायः ॥ 62 ॥

12-62-3 कौटिल्यमनार्जवम् । कौलटेयं कुलटाप्रधानं जारकर्म । कुसीदं च विवर्जयेत् इति झ. पाठः । तत्र कुसीदं वृद्धिजीविकामित्यर्थः ॥ 12-62-5 राजप्रेष्यादिर्वेदान् जपन्नजपन्वा शूद्रइव पङ्क्तेर्बहिर्भोजनीय एवेति भावः ॥ 12-62-11 यो राजा त्रयाणां ब्राह्मणवैश्यशूद्राणां स्वराज्ये आश्रमधर्मसेवनं यथोक्तम् इच्छेत् तेनावश्यज्ञातव्यान्धर्माञ्शृणु ॥ 12-62-12 शुश्रूषोर्वेदान्तेष्वनधिकारात्पुराणद्वारा आत्मानं श्रोतुमिच्छोः । कृतकार्यस्य यावच्छरीरसामर्थ्यं सेवितत्रैवर्ण्यस्य ॥ 12-62-13 अल्पान्तरगतस्य आचारनिष्ठया त्रैवर्णिकसमस्य आश्रमाः सर्वे विहिताः । शूद्रोऽपि नैष्ठिकं ब्रह्मचर्यं वानप्रस्थं वा सकलविक्षेपककर्मत्यागरूपं सन्न्यासं वाऽनुतिष्ठेदेव । निराशिषं शान्तिदान्त्यादिकल्याणगुणरहितम् ॥ 12-62-22 अपेतगृहधर्मोऽपीति ख. पाठः ॥