अध्यायः 061

युधिष्ठिरम् प्रति भीष्मेण ब्राह्मणधर्मकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
पुनः शिवान्महोदर्कानहिंस्रांल्लोकसम्मतान् । 001a
ब्रूहि धर्मान्सुखोपायान्मद्विधानां सुखावहान् ॥ 001c
भीष्म उवाच 002
ब्राह्मणस्य तु चत्वारस्त्वाश्रमा विहिताः प्रभो । 002a
वर्णास्तान्नानुवर्तन्ते त्रयो भारतसत्तम ॥ 002c
उक्तानि कर्माणि बहूनि राजन्स्वर्ग्याणि राजन्यपरायणानि । 003a
शास्त्रस्य सर्वस्य विधौ स्मृतानि क्षात्रे हि सर्वं विहितं यथावत् ॥ 003c
क्षात्राणि वैश्यानि च सेवमानः शौद्राणि कर्माणि च ब्राह्मणः सन् । 004a
अस्मिँल्लोके निन्दितो मन्दचेताः परे च लोके निरयं प्रयाति ॥ 004c
या सञ्ज्ञा विहिता लोके दासे शुनि वृके पशौ । 005a
विकर्मणि स्थिते विप्रे तां सञ्ज्ञां कुरु पाण्डव ॥ 005c
षट्कर्मसम्प्रवृत्तस्य आश्रमेषु चतुर्ष्वपि । 006a
सर्वधर्मोपपन्नस्य तद्भूतस्य कृतात्मनः ॥ 006c
ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च । 007a
निराशिषो वदान्यस्य लोका ह्यक्षरसञ्ज्ञिताः ॥ 007c
यो यस्मिन्कुरुते कर्म यादृशं येन यत्र च । 008a
तादृशं तादृशेनैव सगुणं प्रतिपद्यते ॥ 008c
वृद्ध्या कृषिवणिक्त्वेन जीवसञ्जीवनेन च । 009a
वेत्तुमर्हसि राजेन्द्र स्वाध्यात्मगुणितेन च ॥ 009c
कालसञ्चोदितः काले कालपर्यायनिश्चितः । 010a
उत्तमाधममध्यानि कर्माणि कुरुतेऽवशः ॥ 010c
अन्तवन्ति प्रदानानि परं श्रेयस्कराणि च । 011a
स्वकर्मविहितो लोको ह्यक्षरः सर्वतोमुखः ॥ 011c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकषष्टितमोऽध्यायः ॥ 61 ॥

12-61-6 षट्कर्माणि प्राणायामः प्रत्याहारो ध्यानं धारणा तर्कः समाधिरिति । इज्यादीनामाश्रमान्तरेष्वयोगात् । सर्वधर्मोऽहिंसा ॥ 12-61-7 तपसि विचारे । अक्षरसञ्ज्ञिताः अक्षयाः ॥ 12-61-8 यः पुमान्यस्मिन्नवस्थाविशेषे यत्र देशे काले वा येन फलेन निमित्तेन यत्कर्म करोति साध्वसाधु वा तत्सकलं लोभाच्चिराभ्यासाच्च सगुणमेवेति प्रतिपद्यते नत्विदं निन्द्यमिति ततो विरज्यत इत्यर्थः ॥ 12-61-9 जीवैः सञ्जीवनं मृगयाजीवित्वं तेन । वृद्ध्यादिभिः समानमिति वेत्तुमर्हसि उक्तहेतोरित्यर्थः ॥ 12-61-10 कालेन पर्येत्याविर्भवतीति कालपर्यायः प्राग्भवीयो वासनासमूहस्तेन निश्चितः ॥