अध्यायः 059
भीष्मेण युधिष्ठिरम् प्रति चातुर्वर्ण्यधर्मकथनम् ॥ 1 ॥
वैशम्पायन उवाच 001
ततः पुनः स गाङ्गेयमभिवाद्य पितामहम् । 001a
प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः ॥ 001c
के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक् । 002a
चातुर्वर्ण्याश्रमाणां च राजधर्माश्च के मताः ॥ 002c
केन वै वर्धते राष्ट्रं राजा केन विवर्धते । 003a
केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ ॥ 003c
कोशं दण्डं च दुर्गं च सहायान्मन्त्रिणस्तथा । 004a
ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जयेन्नृपः ॥ 004c
केषु विश्वसितव्यं स्याद्राज्ञा कस्याञ्चिदापदि । 005a
कुतो वाऽऽत्मा दृढं रक्ष्यस्तन्मे ब्रूहि पितामह ॥ 005c
'द्वैधीभावे च भृत्यानां शपथः कीदृशो भवेत् । 006a
अधर्मस्य फलं यच्च शपथस्य विलङ्घने ॥ 006c
सर्वमेतद्यथातत्वं व्यवहारं च तादृशम् । 007a
समासव्यासयोगेन कथयस्व पितामह ॥' 007c
भीष्म उवाच 008
नमो धर्माय महते नमः कृष्णाय वेधसे । 008a
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान् ॥ 008c
अक्रोधः सत्यवचनं संविभागश्च सर्वशः । 009a
प्रजनं स्वेषु दारेषु शौचमद्रोह एव च ॥ 009c
आर्जवं भृत्यभरणं त एते सार्ववर्णिकाः । 010a
ब्राह्मणस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम् ॥ 010c
दममेव महाराज धर्ममाहुः पुरातनम् । 011a
स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते ॥ 011c
तं चेद्द्विजमुपागच्छेद्वर्तमानं स्वकर्मणि । 012a
अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम् ॥ 012c
कुर्वीतापत्यसन्तानमथो दद्याद्यजेत च । 013a
संविभज्य च भोक्तव्यं धनं सद्भिरितीष्यते ॥ 013c
परिनिष्ठितकार्यस्तु स्वाध्यायेनैव वै द्विजः । 014a
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ 014c
क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत । 015a
दद्याद्राजा न याचेत यजेत न च याजयेत् ॥ 015c
नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् । 016a
नित्योद्युक्तो दस्युवधे रणे कुर्यात्पराक्रमम् ॥ 016c
ये तु क्रतुभिरीजानाः श्रुतवन्तश्च भूमिपाः । 017a
य एवाहवजेतारस्त एषां लोकजित्तमाः ॥ 017c
अविक्षतेन देहेन समराद्यो निवर्तते । 018a
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ॥ 018c
एवं हि क्षत्रबन्धूनां धर्ममाहुः प्रधानतः । 019a
नास्य कृत्यतमं किञ्चिदन्यद्दस्युनिबर्हणात् ॥ 019c
दानमध्ययनं यज्ञो राज्ञां क्षेमो विधीयते । 020a
तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता ॥ 020c
स्वेषु धर्मेष्ववस्थाप्य प्रजाः सर्वा महीपतिः । 021a
धर्मेण सर्वकृत्यानि शमनिष्ठानि कारयेत् ॥ 021c
परिनिष्ठितकार्यस्तु नृपतिः परिपालनात् । 022a
कुर्यादन्यन्न वा कुर्यादैन्द्रो राजन्य उच्यते ॥ 022c
वैश्यस्यापि हि यो धर्मस्तं ते वक्ष्यामि शाश्वतम् । 023a
दानमध्ययनं यज्ञः शौचेन धनसञ्चयः ॥ 023c
पितृवत्पालयेद्वैश्यो युक्तः सर्वान्पशूनिह । 024a
विकर्म तद्भवेदन्यत्कर्म यत्स समाचरेत् ॥ 024c
रक्षया स हि तेषां वै महत्सुखमवाप्नुयात् । 025a
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददौ पशून् ॥ 025c
ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः । 026a
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् ॥ 026c
षण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत् । 027a
लये च सप्तमो भागस्तथा शृङ्गे कला खुरे ॥ 027c
सस्यानां सर्वबीजानामेषा सांवत्सरी भृतिः ॥ 028ac
न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति । 029a
वैश्ये चेच्छति नान्येन रक्षितव्याः कथञ्चन ॥ 029c
शूद्रस्यापि हि यो धर्मस्तं ते वक्ष्यामि भारत । 030a
प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत् ॥ 030c
तस्माच्छूद्रस्य वर्णानां परिचर्या विधीयते । 031a
तेषां शुश्रूषणाच्चैव महत्सुखमवाप्नुयात् ॥ 031c
शूद्र एतान्परिचरेत्त्रीन्वर्णाननसूयकः । 032a
सञ्चयांश्च न कुर्वीत जातु शूद्रः कथञ्चन ॥ 032c
पापीयान्हि धनं लब्ध्वा वशे कुर्याद्गरीयसः । 033a
राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः ॥ 033c
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् । 034a
अवश्यं भरणीयो हि वर्णानां शूद्र उच्यते ॥ 034c
छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च । 035a
यातयामानि देयानि शूद्राय परिचारिणे ॥ 035c
अधार्याणि विशीर्णानि वसनानि द्विजातिभिः । 036a
शूद्रायैव प्रदेयानि तस्य धर्मधनं हि तत् ॥ 036c
यञ्च कश्चिद्द्विजातीनां शूद्रः शुश्रूषुराव्रजेत् । 037a
कल्प्यां तेन तु तस्याहुर्वृत्तिं धर्मविदो जनाः ॥ 037c
देयः पिण्डोऽनपत्याय भर्तव्यौ वृद्धदुर्बलौ । 038a
शूद्रेण तु न हातव्यो भर्ता कस्याञ्चिदापदि ॥ 038c
अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये । 039a
न हि स्वमस्ति शूद्रस्य भर्तृहार्यधनो हि सः ॥ 039c
उक्तस्त्रयाणां वर्णानां यज्ञस्त्रय्येव भारत । 040a
स्वाहाकारवषट्कारौ मन्त्रः शूद्रे न विद्यते ॥ 040c
तस्माच्छूद्रः पाकयज्ञैर्यजेताव्रतवान्स्वयम् । 041a
पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम् ॥ 041c
शूद्रः पैजवनो नाम सहस्राणां शतं ददौ । 042a
ऐन्द्राग्नेन विधानेन दक्षिणामिति नः श्रुतम् ॥ 042c
यतो हि सर्ववर्णानां यज्ञस्तस्यैव भारत ॥ 043ac
अग्रे सर्वेषु यज्ञेषु श्रद्धायज्ञो विधीयते । 044a
दैवतं हि महच्छ्रद्धा पवित्रं यजतां च यत् । 044c
दैवतं हि परं विप्राः स्वेनस्वेन परस्परम् ॥ 044e
अयजन्निह सत्रैस्ते तैस्तैः कामैः समाहिताः । 045a
संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः ॥ 045c
देवानामपि ये देवा यद्ब्रूयुस्ते परं हितम् । 046a
तस्माद्वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया ॥ 046c
ऋग्यजुःसामवित्पूज्यो नित्यं स्याद्देववद्द्विजः । 047a
अनृग्यजुरसामा च प्राजापत्य उपद्रवः । 047c
यज्ञो मनीषया तात सर्ववर्णेषु भारत ॥ 047e
नास्य यज्ञकृतो देवा ईहन्ते नेतरे जनाः । 048a
ततः सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते ॥ 048c
स्वं दैवतं ब्राह्मणः स्वेन नित्यं परान्वर्णानयजन्नैवमासीत् । 049a
अधरो वितानस्त्वथ तत्र सृष्टो न ब्राह्मणस्त्रिषु वर्णेषु राजन् ॥ 049c
तस्माद्वर्णा ऋजवो ज्ञातिवर्णाः संसृज्यन्ते तस्य विकार एव । 050a
एकं साम यजुरेकमृगेका विप्रश्चैको निश्चये तेषु सृष्टः ॥ 050c
अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः । 051a
वैखानसानां राजेन्द्र मुनीनां यष्टुमिच्छताम् ॥ 051c
उदितेऽनुदिते वाऽपि श्रद्दधानो जितेन्द्रियः । 052a
वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत् ॥ 052c
यत्स्कन्नमस्य तत्पूर्वं यदस्कन्नं तदुत्तरम् । 053a
बहूनि यज्ञरूपाणि नानाकर्मफलानि च ॥ 053c
तानि यः सम्प्रजानाति ज्ञाननिश्चयनिश्चितः । 054a
द्विजातिः श्रद्धयोपेतः स यष्टुं पुरुषोऽर्हति ॥ 054c
स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः । 055a
यष्टुमिच्छति यज्ञं यः साधुमेव वदन्ति तम् ॥ 055c
ऋषयस्तं प्रशंसन्ति साधु चैतदसंशयम् । 056a
सर्वथा सर्वदा वर्णैर्यष्टव्यमिति निर्णयः ॥ 056c
न हि यज्ञसमं किञ्चित्त्रिषु लोकेषु विद्यते । 057a
तस्माद्यष्टव्यमित्याहुः पुरुषेणानसूयता । 057c
श्रद्धापवित्रमाश्रित्य यथाशक्ति यथेच्छया ॥ 057e
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥
12-59-2 सर्ववर्णानाम् अनुलोमविलोमजादीनाम् । चातुर्वर्ण्यस्य ये आश्रमाः ब्राह्मणस्य चत्वार आश्रमाः क्षत्रियस्य त्रयो वैश्यस्य द्वौ शूद्रस्यैक इति तेषाम् ॥ 12-59-11 तत्राध्ययने । तावतैव नैष्ठिकः कृतार्थो भवतीत्यर्थः ॥ 12-59-12 स्वयमुपागते वित्ते दारक्रियापूर्वकम् अपत्यसन्तानमिच्छेत्स इत्याह द्वाभ्यां तं चेदिति ॥ 12-59-27 षण्णां धेनूनां रक्षको वैश्य एकस्याः क्षीरं स्ववेतनं हरेत् । शतस्य रक्षको वर्षे एकं गोवृषभमिथुनं वेतनं हरेत् । लब्धाच्च सप्तमं भागमिति झ. पाठः । तत्र वाणिज्ये तु लब्धात्सप्तमं भागं धनिकाद्धरेत् । गवयादिशृङ्गवाणिज्ये लाभात्सप्तममेव । खुरे पशुविशेषखुरे महामूल्ये कला षोडशो भाग इत्यर्थः ॥ 12-59-28 एवं सस्यानामपि सप्तममेवांशं हरेत् ॥ 12-59-33 कुर्वीत सञ्चयानित्यपकृष्यते ॥ 12-59-35 यातयामानि भुक्तभोगानि जीर्णानीतियावत् ॥ 12-59-37 द्विजातीनां मध्ये यं कञ्चित्प्रति । तेन द्विजातिना ॥ 12-59-39 अतिरेकेण स्वकुटुम्बपोषणादाधिक्येन । भर्ता पोष्टा ॥ 12-59-41 पाकयज्ञैः क्षुद्रयज्ञैः । अव्रतवान् श्रौतव्रतोपायहीनः ॥ 12-59-42 सहस्राणां शतं लक्षं पूर्णपात्राणि । शूद्रः पैलवनो नामेति ड. द. पाठः ॥ 12-59-43 सर्ववर्णानां त्रैवर्णिकानां यो यज्ञः स तस्यैव शूद्रस्यैव भवति तस्य तत्सेवकत्वात् ॥ 12-59-45 सृष्टयः सन्तानानि तेन सर्वेषां वर्णानां ब्राह्मणजत्वादस्त्येव शूद्रस्यापि यज्ञेऽधिकार इत्यर्थः ॥ 12-59-46 यद्ब्रूयुस्ते तत्ते तव परं हितम् । वर्णैः सशूद्रैः । सर्वयज्ञाः श्रौताः स्मार्ताश्च न काम्यया स्वभावात्संसृज्यन्त इति पूर्वस्योपसंहारः ॥ 12-59-47 द्विजस्त्रैवर्णिकः पूज्यः । शूद्रेण उपद्रवतीति तत्समीपगामित्वादुपद्रवो दासः शूद्रः स वेदहीनोऽपि प्राजापत्यः प्रजापतिदेवताकः । यथाग्नेयो ब्राह्मण ऐन्द्रः क्षत्रियस्तद्वत् । तथाच मानसे देवतोद्देशेन द्रव्यत्यागात्मके यज्ञे सर्वे वर्णा अधिक्रियन्त इत्यर्थः ॥ 12-59-48 अस्य मानसयज्ञकर्तुर्देवा इतरे जनाश्च न ईहन्ते इति न अपितु श्रद्धापूतत्वात्सर्वेप्यस्य यज्ञे भागं कामयन्त इत्यर्थः ॥ 12-59-49 ब्राह्मणस्त्रयाणामपि वर्णानां स्वमसाधारणं दैवतमतः कारणात्ते स्वे अात्मीया ब्राह्मणाः परान्वर्णानुद्दिश्य नायजन्निति नैवाऽऽसीदपित्वयजन्नेव यागं कृतवन्तएव ॥ 12-59-50 सर्वेऽपि वर्णा ऋजवः साधवएव यज्ञसंयोगात् । एवं धर्मसाम्येऽपि ज्ञातिसाम्यं नास्तीत्याशङ्क्याह । ज्ञातिवर्णा अपि क्षत्रियवैश्यशूद्रास्तस्य ब्राह्मणस्यैव विकारे क्षत्रियादिकन्यासूत्पन्ने मूर्धाभिषिक्तादौ संसृज्यन्तएव । तेन धर्मतो जन्मतश्च सर्वे वर्णा ब्राह्मणसंसृष्टा इति स्थितम् । तत्र हेतुमाह एक इति । तेषु तत्त्वनिश्चये क्रियमाणे एको विप्रो ब्रह्मैव प्रथमो ब्राह्मणः सृष्टो जातः । ब्राह्मणसन्ततित्वात्सर्वेऽप्येते ब्राह्मणा एवेत्यर्थः । तत्र दृष्टान्तः । एकं सामेति । अकारो वै सर्वा वाक्सैषा स्पर्शोष्मभिर्व्यज्यमाना वह्नी नानारूपा भवतीति श्रुतेरेकमकाररूपमेवाक्षरं यथा सामादिरूपं तथा ब्रह्मैव ब्राह्मणादिरूपमित्यर्थः । तस्माद्वर्णाद्बहवो राजधर्माः संसृज्यन्ते तस्य विपाक एषः । एकं साम यजुरेकमृगेका विप्रश्चैको निश्चयस्तेषु दृष्टः इति थ. पाठः ॥ 12-59-51 यज्ञगीता विष्णुगीताः ॥ 12-59-53 बह्वृचब्राह्मणे षोडशकमग्निहोत्रमुक्तम् । तत्र मारुतं विष्यन्दमानमिति स्कन्नमपि मरुद्दैवत्यं भवतीति तत्पूर्वमाद्यमग्निहोत्रं यदस्कन्नं यथाविधिहुतमुत्तरं सर्वोत्कृष्टम् ॥ बहूनीति रौद्रादीनि ॥ 12-59-54 तानि षोडशाऽग्निहोत्ररूपाणि ॥ 12-59-55 यज्ञं विष्णुम् । यष्टुं यज्ञदानादिना आराधितुम् ॥ 12-59-57 श्रद्धापवित्रं यथा स्यात्तथा यष्टव्यमिति सम्बन्धः । आश्रित्य शास्त्रमिति शेषः ॥