अध्यायः 057

भीष्मेण युधिष्ठिराय प्रथमदिने राजधर्मकथनम् ॥ 1 ॥ ततः सायं कृष्णादीनां स्वस्वावासगमनम् ॥ 2 ॥ भीष्म उवाच 001
एतत्ते राजधर्माणां नवनीतं युधिष्ठिर । 001a
बृहस्पतिर्हि भगवान्नान्यं धर्मं प्रशंसति ॥ 001c
विशालाक्षश्च भगवान्काव्यश्चैव महातपाः । 002a
सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः ॥ 002c
भरद्वाजश्च भगवांस्तथा गौरशिरा मुनिः । 003a
राजशास्त्रप्रणेतारो ब्राह्मणा ब्रह्मवादिनः ॥ 003c
रक्षामेव प्रशंसन्ति धर्मं धर्मभृतां वर । 004a
राज्ञां राजीवताम्राक्ष साधनं चात्र मे शृणु ॥ 004c
चारश्च प्रणिधिश्चैव काले दानममत्सरः । 005a
युक्त्या दानं न चादानमयोगेन युधिष्ठिर ॥ 005c
सतां सङ्ग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम् । 006a
अनार्जवैरार्जवैश्च शत्रुपक्षाविवर्धनम् ॥ 006c
केतनानां च जीर्णानामवेक्षा चैव सीदताम् । 007a
द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः ॥ 007c
साधूनामपरित्यागः कुलीनानां च धारणम् । 008a
निचयश्च निचेयानां सेवा बुद्धिमतामपि ॥ 008c
बलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम् । 009a
कार्येष्वखेदः कोशस्य तथैव च विवर्धनम् ॥ 009c
पुरगुप्तिरविश्वासः पौरसङ्घातभेदनम् । 010a
अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम् ॥ 010c
उपजापश्च भृत्यानामात्मनः पुरदर्शनम् । 011a
अविश्वासः स्वयं चैव परस्याश्वासनं तथा ॥ 011c
नीतिवर्त्मानुसारेण नित्यमुत्थानमेव च । 012a
रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम् ॥ 012c
उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत । 013a
राजधर्मस्य यन्मूलं श्लोकांश्चात्र निबोध मे ॥ 013c
उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः । 014a
उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च ॥ 014c
उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति । 015a
उत्थानवीरान्वाग्वीरा रमयन्त उपासते ॥ 015c
उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः । 016a
प्रधर्षणीयः शत्रूणां भुजङ्ग इव निर्विषः ॥ 016c
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा । 017a
अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ॥ 017c
एकाङ्गेनापि सम्भूतः शत्रुर्दुर्गमुपाश्रितः । 018a
सर्वं तापयते देशमपि राज्ञः समृद्धिनः ॥ 018c
राज्ञो रहस्यं यद्वाक्यं जयार्थे लोकसङ्ग्रहः । 019a
हृदि यच्चास्य जिह्मं स्यात्कारणार्थं च यद्भवेत् ॥ 019c
यच्चास्य कार्यं वृजिनं मार्दवेनैव धार्यते । 020a
रञ्जनार्थं च लोकस्य धर्मिष्ठामाचरेत्क्रियाम् ॥ 020c
राज्यं हि सुमहत्तत्र दुर्धार्यमकृतात्मभिः । 021a
न शक्यं मृदुना वोढुमाघातस्थानमुल्बणम् ॥ 021c
राज्यं सर्वामिषं नित्यमार्जवेनैव धार्यते । 022a
तस्मान्मिश्रेण सततं वर्तितव्यं युधिष्ठिर ॥ 022c
यद्यप्यस्य विपत्तिः स्याद्रक्षमाणस्य वै प्रजाः । 023a
सोप्यस्य विपुलो धर्म एवंवृत्ता हि भूमिपाः ॥ 023c
एष ते राजधर्माणां लेशः समनुवर्णितः । 024a
भूयस्ते यत्र सन्देहस्तद्ब्रूहि कुरुसत्तम ॥ 024c
वैशम्पायन उवाच 025
ततो व्यासश्च भगवान्देवस्थानोऽश्म एव च । 025a
वासुदेवः कृपश्चैव सात्यकिः सञ्जयस्तथा ॥ 025c
साधुसाध्विति संहृष्टा घुष्यमाणैरिवाननैः । 026a
अस्तुवंश्च नरव्याघ्रं भीष्मं धर्मभृतां वरम् ॥ 026c
ततो दीनमना भीष्ममुवाच कुरुनन्दनः । 027a
नेत्राभ्यामश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन् ॥ 027c
श्व इदानीं स्वसन्देहं प्रवक्ष्यामि पितामह । 028a
उपैति सविता ह्यस्तं रसमापीय पार्थिवम् ॥ 028c
ततो द्विजातीनभिवाद्य केशवः कृपश्च ते चैव युधिष्ठिरादयः । 029a
प्रदक्षिणीकृत्य महानदीसुतं ततो रथानारुरुहुर्मुदान्विताः ॥ 029c
दृषद्वतीं चाप्यवगाह्य सुव्रताः कृतोदकार्थाः कृतजप्यमङ्गलाः । 030a
उपास्य सन्ध्यां विधिवत्परन्तपास्ततः पुरं ते विविशुर्गजाह्वयम् ॥ 030c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तपञ्चाशोऽध्यायः ॥ 57 ॥

12-57-1 एतद्रक्षणं नवनीतं नवनीतवत्सर्वधर्मसारम् । न्याय्यं धर्मं प्रशंसतीति झ. पाठः ॥ 12-57-5 चारो गुप्तस्पशः । प्रणिधिः प्रकटस्पशः । दानं भक्तवेतनयोः युक्तेरादानम् । अयोगेनानुपायेन आदानं करग्रहणं नच ॥ 12-57-7 केतनानां गृहादीनाम् । द्विविधस्य शारीरदण्डोऽर्थदण्डश्चेति भेदात् ॥ 12-57-8 निचेयानां सङ्ग्राह्याणां धान्यादीनां निचयः सङ्ग्रहः ॥ 12-57-10 अविश्वासो यामिकादीनामपि ॥ 12-57-11 अविश्वासो भृत्यानामेव ॥ 12-57-12 उत्थानमुद्योगः । अनार्यं हीनकर्म कदर्यत्वादि तद्वर्जनम् ॥ 12-57-15 वाग्वीरान् पण्डितान् । उत्थानमेव महत्पाण्डित्यमित्यर्थः ॥ 12-57-18 एकाङ्गेन हस्त्यश्वरथपादातानामन्यतमेनापि सम्भूतः सम्पन्नः । समृद्धिनः समृद्धिमतः ॥ 12-57-21 अकृतात्मभिः क्रूरैः ॥ 12-57-22 मिश्रेण क्रौर्यमार्दवाभ्याम् ॥ 12-57-28 प्रक्ष्यामि त्वां पितामह इति झ. पाठः ॥