अध्यायः 055

भीष्मेण युधिष्ठिराय राजधर्मकथनम् ॥ 1 ॥ वैशम्पायन उवाच 001
प्रणिपत्य हृषीकेशमभिवाद्य पितामहम् । 001a
अनुमान्य गुरून्सर्वान्पर्यपृच्छद्युधिष्ठिरः ॥ 001c
राज्ञां वै परमो धर्म इति धर्मविदो विदुः । 002a
महान्तमेतं भारं च मन्ये तद्ब्रूहि पार्थिव ॥ 002c
राजधर्मान्विशेषेण कथयस्व पितामह । 003a
सर्वस्य जीवलोकस्य राजधर्मः परायणम् ॥ 003c
त्रिवर्गो हि समासक्तो राजधर्मेषु कौरव । 004a
मोक्षधर्मश्च विस्पष्टः सकलोऽत्र समाहितः ॥ 004c
यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कुशो यथा । 005a
नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम् ॥ 005c
अत्र वै सम्प्रमूढे तु धर्मे राजर्षिसेविते । 006a
लोकस्य संस्था न भवेत्सर्वं च व्याकुलीभवेत् ॥ 006c
उदयन्हि यथा सूर्यो नाशयत्यशुभं तमः । 007a
राजधर्मस्तथा लोक्यामाक्षिपत्यशुभां गतिम् ॥ 007c
तदग्रे राजधर्मान्हि मदर्थे त्वं पितामह । 008a
प्रब्रूहि भरतश्रेष्ठ त्वं हि धर्मभृतां वरः ॥ 008c
आगमश्च परस्त्वत्तः सर्वेषां नः परन्तप । 009a
भवन्तं हि परं बुद्धौ वासुदेवोऽभिमन्यते ॥ 009c
भीष्म उवाच 010
नमो धर्माय महते नमः कृष्णाय वेधसे । 010a
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान् ॥ 010c
शृणु कार्त्स्न्येन मत्तस्त्वं राजधर्मान्युधिष्ठिर । 011a
निरुच्यमानान्नियतो यच्चान्यदपि वाञ्छसि ॥ 011c
आदावेव कुरुश्रेष्ठ राज्ञा रञ्जनमिच्छता । 012a
देवतानां द्विजानां च वर्तितव्यं यथाविधि ॥ 012c
दैवतान्यर्चयित्वा हि ब्राह्मणांश्च कुरूद्वह । 013a
आनृण्यं याति धर्मस्य लोकेन च समर्च्यते ॥ 013c
उत्थानेन सदा पुत्र प्रयतेथा युधिष्ठिर । 014a
न ह्युत्थानमृते दैवं राज्ञामर्थं प्रसाधयेत् ॥ 014c
साधारणं द्वयं ह्येतद्दैवमुत्थानमेव च । 015a
पौरुषं हि परं मन्ये दैवं निश्चित्य मुह्यते ॥ 015c
विपन्ने च समारम्भे सन्तापं मा स्म वै कृथाः । 016a
घटेतैवं सदाऽऽत्मानं राज्ञामेष परो नयः ॥ 016c
न हि सत्यादृते किञ्चिद्राज्ञां वै सिद्धिकारकम् । 017a
सत्ये हि राजा निरतः प्रेत्य चेह च नन्दति ॥ 017c
ऋषीणामपि राजेन्द्र सत्यमेव परं धनम् । 018a
तथा राज्ञां परं सत्यान्नान्यद्विश्वासकारणम् ॥ 018c
गुणवाञ्शीलवान्दान्तो मृदुदण्डो जितेन्द्रियः । 019a
सुदर्शः स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः ॥ 019c
आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन । 020a
पुनर्नयविचारेण त्रयीसंवरणेन च । 020c
'आर्जवेन समायुक्ता मोदन्ते ऋषयो दिवि ॥' 020e
मृदुर्हि राजा सततं लङ्घ्यो भवति सर्वशः । 021a
तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचरेत् ॥ 021c
अदण्ड्याश्चैव ते पुत्र विप्राः स्युर्ददतां वर । 022a
भूतमेतत्परं लोके ब्राह्मणा नाम पाण्डव ॥ 022c
मनुना चात्र राजेन्द्र गीतौ श्लोकौ महात्मना । 023a
धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुमर्हसि ॥ 023c
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । 024a
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ 024c
अयो हन्ति यदाऽश्मानमग्निरापो निहन्ति च । 025a
ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः ॥ 025c
एवं कृत्वा महाराज नमस्या एव ते द्विजाः । 026a
भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति शमान्विताः ॥ 026c
एवं चैव नरव्याघ्र लोकयात्राविघातकाः । 027a
निग्राह्या एव बाहुभ्यां ब्राह्मणास्ते नरेश्वर ॥ 027c
श्लोकौ चोशनसा गीतौ पुरा तात महर्षिणा । 028a
तौ निबोध महाराज त्वमेकाग्रमना नृप ॥ 028c
उद्यम्य शस्त्रमायान्तमपि वेदान्तगं रणे । 029a
निगृह्णीयात्स्वधर्मेण धर्मापेक्षी नराधिपः ॥ 029c
विनश्यमानं धर्मं हि योऽभिरक्षेत्स धर्मवित् । 030a
न तेन धर्महा स स्यान्मन्युस्तन्मन्युमृच्छति ॥ 030c
एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः । 031a
सापराधानपि हि तान्विषयान्ते समुत्सृजेत् ॥ 031c
अभिशस्तमपि ह्येषां पीडयेन्न विशाम्पते । 032a
ब्रह्मघ्ने गुरुतल्पे च भ्रूणहत्ये तथैव च ॥ 032c
राजद्विष्टे च विप्रस्य विषयान्ते विवासनम् । 033a
विधीयते न शारीरं भयमेषां कदाचन ॥ 033c
दयिताश्च नरास्ते स्युर्भक्तिमन्तो द्विजेषु ये । 034a
न शोकः परमा तुष्टी राज्ञां भवति सञ्चयात् ॥ 034c
दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः । 035a
सर्वदुर्गेषु मन्यन्ते नरदुर्गं सुदुर्गमम् ॥ 035c
तस्मान्नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता । 036a
धर्मात्मा सत्यवाक्चैव राजा रञ्जयति प्रजाः ॥ 036c
न च क्षान्तेन ते नित्यं भाव्यं पुरुषसत्तम । 037a
अधर्मो हि मृदू राजा क्षमावानिव कुञ्जरः ॥ 037c
बार्हस्पत्ये च शास्त्रे च श्लोकोऽयं नियतः प्रभो । 038a
अस्मिन्नर्थे निगदितस्तन्मे निगदतः शृणु ॥ 038c
क्षममाणं नृपं नित्यं नीचः परिभवेज्जनः । 039a
हस्तियन्ता गजस्येव शिर एवारुरुक्षति ॥ 039c
तस्मान्नैव मृदुर्नित्यं तीक्ष्णो वाऽपि भवेन्नृपः । 040a
वसन्तेऽर्क इव श्रीमान्न शीतो न च घर्मदः ॥ 040c
प्रत्यक्षेणानुमानेन तथौपम्यागमैरपि । 041a
परीक्ष्यास्ते महाराज स्वे परे चैव नित्यशः ॥ 041c
व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण । 042a
नचैतानि प्रयुञ्जीथाः सङ्गं तु परिवर्जय ॥ 042c
व्यसनी यस्तु लोकेऽस्मिन्परिभूतो भवत्युत । 043a
उद्वेजयति लोकं च योऽतिद्वेषी महीपतिः ॥ 043c
भवितव्यं सदा राज्ञा गर्भिणीसहधर्मिणा । 044a
कारणं च महाराज शृणु येनेदमुच्यते ॥ 044c
यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम् । 045a
गर्भस्य हितमाधत्ते तथा राज्ञाऽप्यसंशयम् ॥ 045c
वर्तितव्यं कुरुश्रेष्ठ सदा धर्मानुवर्तिना । 046a
स्वं प्रियं तु परित्यज्य यद्यल्लोकहितं भवेत् ॥ 046c
न सन्त्याज्यं च ते धैर्यं कदाचिदपि पाण्डव । 047a
धीरस्य स्पष्टदण्डस्य न ह्याज्ञा प्रतिहन्यते ॥ 047c
परिहासश्च भृत्यैस्ते नात्यर्थं वदतां वर । 048a
कर्तव्यो राजशार्दूल दोषमत्र हि मे शृणु ॥ 048c
अवमन्यन्ति भर्तारं सहर्षमुपजीविनः । 049a
स्वे स्थाने न च तिष्ठन्ति लङ्घ्यन्ति च तद्वचः ॥ 049c
प्रेष्यमाणा विकल्पन्ते गुह्यं चाप्यनुयुञ्जते । 050a
अयाच्यं चैव याचन्ते भोज्यान्याहारयन्ति च ॥ 050c
क्रुध्यन्ति परिदीप्यन्ति भूमिपायाधितिष्ठते । 051a
उत्कोचैर्वञ्चनाभिश्च कार्याणि घ्नन्ति चास्य ते ॥ 051c
जर्झरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः । 052a
स्त्रीरक्षिभिश्च सज्जन्ते तुल्यवेषा भवन्ति च ॥ 052c
वान्तं निष्ठीवनं चैव कुर्वते चास्य सन्निधौ । 053a
निर्लज्जा राजशार्दूल व्याहरन्ति च तद्वचः ॥ 053c
हयं वा दन्तिनं वाऽपि रथं वा नृपसम्मतम् । 054a
अधिरोहन्त्यवज्ञाय सहर्षाः पार्थिवे मृदौ ॥ 054c
इदं ते दुष्करं राजन्निदं ते दुर्विचेष्टितम् । 055a
इत्येवं सुहृदो नाम ब्रुवते परिषद्गताः ॥ 055c
क्रुद्धे चास्मिन्हसन्त्येव न च हृष्यन्ति पूजिताः । 056a
सङ्घर्षशीलाश्च तदा भवन्त्यन्योन्यकारणात् ॥ 056c
विस्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम् । 057a
लीलया चैव कुर्वन्ति सावज्ञास्तस्य शासनम् ॥ 057c
अलङ्काराणि भोज्यं च तथा स्नानानुलेपने । 058a
हेलयाना नरव्याघ्र स्वस्थास्तस्योपभुञ्जते ॥ 058c
निन्दन्ते स्वानधीकारान्सन्त्यजन्ते च भारत । 059a
न वृत्त्या परितुष्यन्ति राजदेयं हरन्ति च ॥ 059c
क्रीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा । 060a
अस्मत्प्रणेयो राजेति लोकांश्चैव वदन्त्युत ॥ 060c
एते चैवापरे चैव दोषाः प्रादुर्भवन्त्युत । 061a
नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर ॥ 061c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चपञ्चाशोऽध्यायः ॥ 55 ॥

12-55-2 धर्मः प्रजापालनात्मकः परमः सर्वधर्मश्रेष्ठः । एतं धर्मं भारं दुर्वहं मन्ये ॥ 12-55-5 प्रग्रहणं नियन्त्रणम् ॥ 12-55-6 संस्था मर्यादाव्यवस्था ॥ 12-55-8 अग्रे इतरेभ्यो धर्मेभ्यः पूर्वम् ॥ 12-55-9 परः आगमः परं रहस्यम् । नः अस्माकं त्वत्तएव विहितमस्तु ॥ 12-55-18 सत्यान्नान्यदाश्वासकारकमिति ड. थ. पाठः ॥ 12-55-19 स्थूललक्ष्यः बहुप्रदः ॥ 12-55-26 भौमं ब्रह्म वेदान् यज्ञांश्च ॥ 12-55-29 स्वधर्मेण शस्त्रोद्यमनेन निगृह्णीयादेव नतु हन्यात् ॥ 12-55-30 विनश्यमानमाततायिदोषात् । तेन अाततायिनिग्रहेण ॥ 12-55-32 अभिशस्तं सताऽसता वा दोषेण युक्तं तथाख्यापितम् ॥ 12-55-33 शारीरं कशाघातादिजम् ॥ 12-55-35 षट्सु मरुजलपृथ्वीवनपर्वतनरमयेषु ॥ 12-55-37 अधर्मो धर्मविरोधी ॥ 12-55-39 गजस्य क्षममाणस्य ॥ 12-55-42 व्यसनानि मृगयादीनि ॥ 12-55-46 प्रियमिष्टम् ॥ 12-55-47 न भयं विद्यते क्वचित् । इति झ. पाठः । ते त्वया ॥ 12-55-52 प्रतिरूपकैः कृत्रिमैः शासनपत्रैः । विषयं देशम् । जर्झरं निःसारम् । स्त्रीरक्षिभिः सज्जन्ते प्रीतिं कुर्वन्ति अन्तःपुरे प्रवेशमिच्छन्तः ॥ 12-55-54 नादृत्य हर्षुले इति झ. पाठः । तत्र हर्षुले परिहासशीले इत्यर्थः ॥ 12-55-57 विस्रंसयन्ति भेदयन्ति ॥ 12-55-58 स्वस्थाः निर्भयाः ॥ 12-55-59 राजदेयं राजभागम् ॥