अध्यायः 053
कृष्णेन भीष्मम् प्रति धर्मकथनचोदना ॥ 1 ॥
जनमेजय उवाच 001
धर्मात्मनि महावीर्ये सत्यसन्धे जितात्मनि । 001a
देवव्रते महाभागे शरतल्पगतेऽच्युते ॥ 001c
शयाने वीरशयने भीष्मे शन्तनुनन्दने । 002a
गाङ्गेये पुरुषव्याघ्रे पाण्डवैः पर्युपासिते ॥ 002c
काः कथाः समवर्तन्त तस्मिन्वीरसमागमे । 003a
हतेषु सर्वसैन्येषु तन्मे शंस महामुने ॥ 003c
वैशम्पायन उवाच 004
शरतल्पगते भीष्मे कौरवाणां पितामहे । 004a
आजग्मुर्ऋषयः सिद्धा नारदप्रमुखा नृप ॥ 004c
हतशिष्टाश्च राजानो युधिष्ठिरपुरोगमाः । 005a
धृतराष्ट्रश्च कृष्णश्च भीमार्जुनयमास्तथा ॥ 005c
तेऽभिगम्य महात्मानो भरतानां पितामहम् । 006a
अन्वशोचन्त गाङ्गेयमादित्यं पतितं यथा ॥ 006c
मुहूर्तमिव च ध्यात्वा नारदो देवदर्शनः । 007a
उवाच पाण्डवान्सर्वान्हतशिष्टांश्च पार्थिवान् ॥ 007c
प्राप्तकालं समाचक्षे भीष्मोऽयमनुयुज्यताम् । 008a
अस्तमेति हि गाङ्गेयो भानुमानिव भारत ॥ 008c
अयं प्राणानुत्सिसृक्षुस्तं सर्वेऽभ्यनुपृच्छत । 009a
कृत्स्नान्हि विविधान्धर्मांश्चातुर्वर्ण्यस्य वेत्त्ययम् ॥ 009c
एष वृद्धः पराल्ँलोकान्सम्प्राप्नोति तनुं त्यजन् । 010a
तं शीघ्रमनुयुञ्जीध्वं संशयान्मनसि स्थितान् ॥ 010c
वैशम्पायन उवाच 011
एवमुक्ते नारदेन भीष्ममीयुर्नराधिपाः । 011a
प्रष्टुं चाशक्नुवन्तस्ते वीक्षाञ्चक्रुः परस्परम् ॥ 011c
अथोवाच हृषीकेशं पाण्डुपुत्रो युधिष्ठिरः । 012a
नान्यस्त्वद्देवकीपुत्र शक्तः प्रष्टुं पितामहम् ॥ 012c
प्रव्याहर यदुश्रेष्ठ त्वमग्रे मधुसूदन । 013a
त्वं हि नस्तात सर्वेषां सर्वधर्मविदुत्तमः ॥ 013c
एवमुक्तः पाण्डवेन भगवान्केशवस्तदा । 014a
अभिगम्य दुराधर्षं प्रव्याहारयदच्युतः ॥ 014c
कच्चित्सुखेन रजनी व्युष्टा ते राजसत्तम । 015a
विस्पष्टलक्षणा बुद्धिः कच्चिच्चोपस्थिता तव ॥ 015c
कच्चिज्ज्ञानानि सर्वाणि प्रतिभान्ति च तेऽनघ । 016a
न ग्लायते च हृदयं न च ते व्याकुलं मनः ॥ 016c
भीष्म उवाच 017
दाहो मोहः श्रमश्चैव क्लमो ग्लानिस्तथा रुजा । 017a
तव प्रसादाद्वार्ष्णेय सद्यो व्यपगतानि मे ॥ 017c
यच्च भूतं भविष्यच्च भवच्च परमद्युते । 018a
तत्सर्वमनुपश्यामि पाणौ फलमिवाहितम् ॥ 018c
वेदोक्ताश्चैव ये धर्मा वेदान्ताधिगताश्च ये । 019a
तान्सर्वान्सम्प्रपश्यामि वरदानात्तवाच्युत ॥ 019c
शिष्टैश्च धर्मो यः प्रोक्तः स च मे हृदि वर्तते । 020a
देशजातिकुलानां च धर्मज्ञोऽस्मि जनार्दन ॥ 020c
चतुर्ष्वाश्रमधर्मेषु योऽर्थः स च हृदि स्थितः । 021a
राजधर्मांश्च सकलानवगच्छामि केशव ॥ 021c
यच्च यत्र च वक्तव्यं तद्वक्ष्यामि जनार्दन । 022a
तव प्रसादाद्धि शुभा मनो मे बुद्धिराविशत् ॥ 022c
युवेवास्मि समावृत्तस्त्वदनुध्यानबृंहितः । 023a
वक्तुं श्रेयः समर्थोऽस्मि त्वत्प्रसादाज्जनार्दन ॥ 023c
स्वयं किमर्थं तु भवाञ्श्रेयो न प्राह पाण्डवम् । 024a
किं ते विवक्षितं चात्र तदाशु वद माधव ॥ 024c
वासुदेव उवाच 025
यशसः श्रेयसश्चैव मूल मां विद्धि कौरव । 025a
मत्तः सर्वेऽभिनिर्वृत्ता भावाः सदसदात्मकाः ॥ 025c
शीतांशुश्चन्द्र इत्युक्ते लोके को विस्मयिष्यति । 026a
तथैव यशसा पूर्णे मयि को विस्मयिष्यति ॥ 026c
आधेयं तु मया भूयो यशस्तव महाद्युते । 027a
ततो मे विपुला बुद्धिस्त्वयि भीष्म समाहिता ॥ 027c
यावद्धि पृथिवीपाल पृथ्वीयं स्थास्यति ध्रुवा । 028a
तावत्तवाक्षया कीर्तिर्लोकाननुचरिष्यति ॥ 028c
यच्च त्वं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते । 029a
वेदप्रवाद इव ते स्थास्यते वसुधातले ॥ 029c
यश्चैतेन प्रमाणेन योक्ष्यत्यात्मानमात्मना । 030a
स फलं सर्वपुण्यानां प्रेत्य चानुभविष्यति ॥ 030c
एतस्मात्कारणाद्भीष्म मतिर्दिव्या मया हि ते । 031a
दत्ता यशो विप्रथयेत्कथं भूयस्तवेति ह ॥ 031c
यावद्धि प्रथते लोके पुरुषस्य यशो भुवि । 032a
तावत्तस्याक्षया कीर्तिर्भवतीति विनिश्चिता ॥ 032c
राजानो हतशिष्टास्त्वां राजन्नभित आसते । 033a
धर्माननुयुयुक्षन्तस्तेभ्यः प्रब्रूहि भारत ॥ 033c
भवान्हि वयसा वृद्धः श्रुताचारसमन्वितः । 034a
कुशलो राजधर्माणां सर्वेषामपराश्च ये ॥ 034c
जन्मप्रभृति ते किञ्चिद्वृजिनं न ददर्श ह । 035a
ज्ञातारं सर्वधर्माणां त्वां विदुः सर्वपार्थिवाः ॥ 035c
तेभ्यः पितेव पुत्रेभ्यो राजन्ब्रूहि परं नयम् । 036a
ऋषयश्चैव देवाश्च त्वया नित्यमुपासिताः ॥ 036c
तस्माद्वक्तव्यमेवेदं त्वयाऽवश्यमशेषतः । 037a
धर्मं शुश्रूषमाणेभ्यः पृष्टेन न सता पुनः ॥ 037c
वक्तव्यं विदुषा चेति धर्ममाहुर्मनीषिणः । 038a
अप्रतिब्रुवतः कष्टो दोषो हि भविता प्रभो ॥ 038c
तस्मात्पुत्रैश्च पौत्रेश्च धर्मान्पृष्टान्सनातनान् । 039a
विद्वञ्जिज्ञासमानेभ्यः प्रब्रूहि भरतर्षभ ॥ 039c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रिपञ्चाशोऽध्यायः ॥ 53 ॥
12-53-8 अनुयुज्यतां पृच्छ्यताम् ॥ 12-53-32 यशः परचित्तचमात्कृतिजनको गुणौघः । कीर्तिः साधुतयाऽन्यैः कथनम् ॥ 12-53-33 अनुयुयुक्षन्तः प्रष्टुमिच्छन्तः ॥