अध्यायः 052

परेद्युः प्रभाते कृष्णयुधिष्ठिरादिभिर्धर्मश्रवणाय भीष्मसमीपगमनम् ॥ 1 ॥ वैशम्पायन उवाच 001
ततः प्रविश्य भवनं प्रविश्ये मधुसूदनः । 001a
याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत ॥ 001c
स ध्यानपथमाविश्य सर्वज्ञानानि माधवः । 002a
अवलोक्य ततः पश्चाद्दध्यौ ब्रह्म सनातनम् ॥ 002c
सूताः स्तुतिपुराणज्ञा रक्तकण्ठाः सुशिक्षिताः । 003a
अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम् ॥ 003c
पठन्ति पाणिस्वनिकास्तथा गायन्ति गायनाः । 004a
शङ्खानथ मृदङ्गांश्च प्रवाद्यन्ति सहस्रशः ॥ 004c
वीणापणववेणूनां स्वनश्चातिमनोरमः । 005a
सहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनि ॥ 005c
ततो युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः । 006a
उच्चेरुर्मधुरा वाचो गीतवादित्रबृंहिताः ॥ 006c
तत उत्थाय दाशार्हः स्नातः प्राञ्जलिरच्युतः । 007a
जप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान् ॥ 007c
ततः सहस्रं विप्राणां चतुर्वेदविदां तथा । 008a
गवां सहस्रेणैकैकं वाचयामास माधवः ॥ 008c
मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य च । 009a
आदर्शे विमले कृष्णस्ततः सात्यकिमब्रवीत् ॥ 009c
गच्छ शैनेय जानीहि गत्वा राजनिवेशनम् । 010a
अपि सज्जो महातेजा भीष्मं द्रष्टुं युधिष्ठिरः ॥ 010c
ततः कृष्णस्य वचनात्सात्यकिस्त्वरितो ययौ । 011a
उपगम्य च राजानं युधिष्ठिरमभाषत ॥ 011c
युक्तो रथवरो राजन्वासुदेवस्य धीमतः । 012a
समीपमापगेयस्य प्रयास्यति जनार्दनः ॥ 012c
भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युते । 013a
यदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति ॥ 013c
एवमुक्तः प्रत्युवाच धर्मपुत्रो युधिष्ठिरः । 014a
युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते ॥ 014c
न सैनिकैश्च यातव्यं यास्यामो वयमेव हि । 015a
न च पीडयितव्यो मे भीष्मो धर्मभृतां वरः ॥ 015c
अतः पुरःसराश्चापि निवर्तन्तु धनञ्जय । 016a
अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति । 016c
अतो नेच्छामि कौन्तेय पृथग्जनसमागमम् ॥ 016e
वैशम्पायन उवाच 017
स तद्वाक्यमथाज्ञाय कुन्तीपुत्रो धनञ्जयः । 017a
युक्तं रथवरं तस्मा आचचक्षे नरर्षभः ॥ 017c
ततो युधिष्ठिरो राजा यमौ भीमार्जुनावपि । 018a
भूतानीव समस्तानि ययुः कृष्णनिवेशनम् ॥ 018c
आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसु । 019a
शैनेयसहितो धीमान्रथमेवान्वपद्यत ॥ 019c
रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम् । 020a
मेघघोषै रथवरैः प्रययुस्ते नरर्षभाः ॥ 020c
बलाहकं मेघपुष्पं शैब्यं सुग्रीवमेव च । 021a
दारुकश्चोदयामास वासुदेवस्य वाजिनः ॥ 021c
ते हया वासुदेवस्य दारुकेण प्रचोदिताः । 022a
गां खुराग्रैस्तथा राजल्ँलिखन्तः प्रययुस्तदा ॥ 022c
ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः । 023a
क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन् ॥ 023c
ततो ययुर्यत्र भीष्मः शरतल्पगतः प्रभुः । 024a
आस्ते महर्षिभिः सार्धं ब्रह्मा देवगणैर्यथा ॥ 024c
ततोऽवतीर्य गोविन्दो रथात्स च युधिष्ठिरः । 025a
भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च । 025c
ऋषीनभ्यर्चयामासुः करानुद्यम्य दक्षिणान् ॥ 025e
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः । 026a
अभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः ॥ 026c
शरतल्पे शयानं तमादित्यं पतितं यथा । 027a
स ददर्श महाबाहुं भयाच्चागतसाध्वसः ॥ 027c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्विपञ्चाशोऽध्यायः ॥ 52 ॥

12-52-9 मङ्गलानां गवादीनामालम्भनं स्पर्शम् ॥ 12-52-27 आगतसाध्वसः भयजन्यकम्पादिमान् ॥