अध्यायः 051

भीष्मेण कृष्णम् प्रति स्वस्य शस्त्रसञ्छिन्नशरीरतया धर्मकथनापाटवप्रकटनम् ॥ 1 ॥ कृष्णेन भीष्माय शरीरदार्ढ्यादिप्रदानम् ॥ 2 ॥ ततः सायं सर्वेषां स्वस्वस्थानगमनम् ॥ 3 ॥ वैशम्पायन उवाच 001
ततः कृष्णस्य तद्वाक्यं धर्मार्थसहितं हितम् । 001a
श्रुत्वा शान्तनवः कृष्णं प्रत्युवाच कृताञ्जलिः ॥ 001c
लोकनाथ महाबाहो शिव नारायणाच्युत । 002a
तव वाक्यमुपश्रुत्य हर्षेणास्मि परिप्लुतः ॥ 002c
किञ्चाहमभिधास्यामि वाक्पते तव सन्निधौ । 003a
यदा वाचोगतं सर्वं तव वाचि समाहितम् ॥ 003c
यच्च किञ्चित्कृतं लोके कर्तव्यं क्रियते च यत् । 004a
त्वत्तस्तन्निःसृतं देव लोके बुद्धिमतो हिते ॥ 004c
कथयेद्देवलोकं यो देवराजसमीपतः । 005a
धर्मकामार्थमोक्षाणां सोऽर्थं ब्रूयात्तवाग्रतः ॥ 005c
शराभितापाद्व्यथितं मनो मे मधुसूदन । 006a
गात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति ॥ 006c
न च मे प्रतिभा काचिदस्ति किञ्चित्प्रभाषितुम् । 007a
पीड्यमानस्य गोविन्द विषानलसमैः शरैः ॥ 007c
बलं मे प्रजहातीव प्राणाः सत्वरयन्ति च । 008a
मर्माणि परितप्यन्ति भ्रान्तचित्तस्तथा ह्यहम् ॥ 008c
दौर्बल्यात्सज्जते वाङ्मे स कथं वक्तुमुत्सहे । 009a
साधु मे त्वं प्रसीदस्व दाशार्हकुलवर्धन ॥ 009c
तत्क्षमस्व महाबाहो न ब्रूयां किञ्चिदच्युत | 010a
त्वत्सन्निधौ च सीदेद्धि वाचस्पतिरपि ब्रुवन् ॥ 010c
न दिशः सम्प्रजानामि नाकाशं न च मेदिनीम् । 011a
केवलं तव वीर्येण तिष्ठामि मधुसूदन ॥ 011c
स्वयमेव भवांस्तस्माद्धर्मराजस्य यद्धितम् । 012a
तद्ब्रवीत्वाशु सर्वेषामागमानां त्वमागमः ॥ 012c
कथं त्वयि स्थिते कृष्णे शाश्वते लोककर्तरि । 013a
प्रब्रूयान्मद्विधः कश्चिद्गुरौ शिष्य इव स्थिते ॥ 013c
वासुदेव उवाच 014
उपपन्नमिदं वाक्यं कौरवाणां धुरन्धरे । 014a
महावीर्ये महासत्वे स्थिरे सर्वार्थदर्शिनि ॥ 014c
यच्च मामात्थ गाङ्गेय बाणघातरुजं प्रति । 015a
गृहाणात्र वरं भीष्म मत्प्रसादकृतं प्रभो ॥ 015c
न ते ग्लानिर्न ते मूर्च्छा न तापो न च ते रुजा । 016a
प्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्युत ॥ 016c
ज्ञानानि च समग्राणि प्रतिभास्यन्ति तेऽनघ । 017a
न च ते क्वचिदासत्तिर्बुद्धेः प्रादुर्भविष्यति ॥ 017c
सत्वस्थं च मनो नित्यं तव भीष्म भविष्यति । 018a
रजस्तमोभ्यां निर्मुक्तं घनैर्मुक्त इवोडुराट् ॥ 018c
यद्यच्च धर्मसंयुक्तमर्थयुक्तमथापि च । 019a
चिन्तयिष्यसि तत्राग्र्या बुद्धिस्तव भविष्यति ॥ 019c
इमं च राजशार्दूल भूतग्रामं चतुर्विधम् । 020a
चक्षुर्दिव्यं समाश्रित्य द्रक्ष्यस्यमितविक्रम ॥ 020c
चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषा । 021a
भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले ॥ 021c
वैशम्पायन उवाच 022
ततस्ते व्याससहिताः सर्व एव महर्षयः । 022a
ऋग्यजुःसामसहितैर्वचोभिः कृष्णमार्चयन् ॥ 022c
ततः सर्वार्तवं दिव्यं पुष्पवर्षं नभस्तलात् । 023a
पपात यत्र वार्ष्णेयः सगाङ्गेयः सपाण्डवः ॥ 023c
वादित्राणि च सर्वाणि जगुश्चाप्सरसां गणाः । 024a
न चाहितमनिष्टं च किञ्चित्तत्र व्यदृश्यत ॥ 024c
ववौ शिवः सुखो वायुः सर्वगन्धवहः शुचिः । 025a
शान्तायां दिशि शन्ताश्च प्रावदन्मृगपक्षिणः ॥ 025c
ततो मुहूर्ताद्भगवान्सहस्रांशुर्दिवाकरः । 026a
दहन्वनमिवैकान्ते प्रतीच्यां प्रत्यदृश्यत ॥ 026c
ततो महर्षयः सर्वे समुत्थाय जनार्दनम् । 027a
भीष्ममामन्त्रयाञ्चक्रू राजानं च युधिष्ठिरम् ॥ 027c
ततः प्रणाममकरोत्केशवः सहपाण्डवः । 028a
सात्यकिः सञ्जयश्चैव स च शारद्वतः कृपः ॥ 028c
ततस्ते धर्मनिरताः सम्यक् तैरभिपूजिताः । 029a
श्वः समेष्याम इत्युक्त्वा यथेष्टं त्वरिता ययुः ॥ 029c
तथैवामन्त्र्य गाङ्गेयं केशवः पाण्डवास्तथा । 030a
प्रदक्षिणमुपावृत्य रथानारुरुहुः शुभान् ॥ 030c
ततो रथैः काञ्चनचित्रकूबरैर्महीधराभैः समदैश्च दन्तिभिः । 031a
हयैः सुपर्णैरिव चाशुगामिभिः पदातिभिश्चात्तशरासनादिभिः ॥ 031c
ययौ रथानां पुरतो हि सा चमूस्तथैव पश्चादतिमात्रसारिणी । 032a
पुरश्च पश्चाच्च यथा महानदी तमृक्षवन्तं गिरिमेत्य नर्मदा ॥ 032c
ततः पुरस्ताद्भगवान्निशाकरः समुत्थितस्तामभिहर्षयंश्चमूम् । 033a
दिवाकरापीतरसा महौषधीः पुनः स्वकेनैव गुणेन योजयन् ॥ 033c
ततः पुरं सुरपुरसम्मितद्युति प्रविश्य ते यदुवृषपाण्डवास्तदा । 034a
यथोचितान्भवनवरान्समाविशन्श्रमान्विता मृगपतयो गुहा इव ॥ 034c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकपञ्चाशोऽध्यायः ॥ 51 ॥

12-51-3 वाचोगतं वाचां विषयः सर्वोऽपि तव वाचि वेदे ॥ 12-51-4 हिते प्रिये । लोके देवलोके इह परत्र च । तत्सर्वं त्रैकालिकम् । त्वत्तो निःसृतमिति उक्तेर्थे हेतुरुक्तः ॥ 12-51-12 आगमानां समागममिति ट. ड. पाठः ॥ 12-51-17 आसत्तिरवसन्नता ॥