अध्यायः 049
कृष्णेन भीष्मप्रशंसनपूर्वकं तम् प्रति युधिष्ठिराय धर्मोपदेशचोदना ॥ 1 ॥
वैशम्पायन उवाच 001
ततो रामस्य तत्कर्म श्रुत्वा राजा युधिष्ठिरः । 001a
विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम् ॥ 001c
अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः । 002a
विक्रमो वसुधा येन क्रोधान्निःक्षत्रिया कृता ॥ 002c
गोभिः समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः । 003a
गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः ॥ 003c
अहो धन्यो नृलोकोऽयं समाग्याश्च नरा भुवि । 004a
यत्र कर्मेदृशं धर्म्यं द्विजाग्र्यैः कृतमच्युत ॥ 004c
कथयन्तौ कथां तात तावच्युतयुधिष्ठिरौ । 005a
जग्मतुर्यत्र गाङ्गेयः शरतल्पगतः प्रभुः ॥ 005c
ततस्ते ददृशुर्भीष्मं शरप्रस्तरशायिनम् । 006a
स्वरश्मिमालासंवीतं सायंसूर्यसमप्रभम् ॥ 006c
उपास्यमानं मुनिभिर्देवैरिव शतक्रतुम् । 007a
देशे परमधर्मिष्ठे नदीमोघवतीमनु ॥ 007c
दूरादेव तमालोक्य कृष्णो राजा च धर्मजः । 008a
चत्वारः पाण्डवाश्चैव ते च शारद्वतादयः ॥ 008c
अवङ्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः । 009a
एकीकृत्येन्द्रियग्राममुपतम्थुर्महामुनीन् ॥ 009c
अभिवाद्य तु गोविन्दः सात्यकिस्ते च पार्थिवाः । 010a
व्यासादींस्तानृषीन्पश्चाद्गाङ्गेयमुपतस्थिरे ॥ 010c
तपोवृद्धिं ततः पृष्ट्वा गाङ्गेयं यदुपुङ्गवः । 011a
परिवार्य ततः सर्वे निषेदुः पुरुषर्षभाः ॥ 011c
ततो निशाम्य गाङ्गेयं शाम्यमानमिवानलम् । 012a
किञ्चिद्दीनमना भीष्ममितिहोवाच केशवः ॥ 012c
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि यथापुरम् । 013a
कच्चिन्न व्याकुला चैव बुद्धिस्ते वदतां वर ॥ 013c
शराभिघातदुःखार्तं कच्चिद्गात्रं न दूयते । 014a
मानसादपि दुःखाद्धि शारीरं बलवत्तरम् ॥ 014c
वरदानात्पितुः कामं छन्दमृत्युरसि प्रभो । 015a
शन्तनोर्धर्मनित्यस्य न त्वेतदिह कारणम् ॥ 015c
सुमूक्ष्मोऽपि तु देहे वै शल्यो जनयते रुजम् । 016a
किम्पुनः शरसङ्घातैश्चितस्य तव पार्थिव ॥ 016c
कामं नैतत्तवाख्येयं प्राणिनां प्रभवाप्ययौ । 017a
भवानुपदिशेच्छ्रेयो देवानामपि भारत ॥ 017c
यच्च भूतं भविष्यं च भवच्च पुरुषर्षभ । 018a
सर्वं तज्ज्ञानवृद्धस्य तव पाणाविवाहितम् ॥ 018c
संसारस्येह भूतानां धर्मस्य च फलोदयः । 019a
विदितस्ते महाप्राज्ञ त्वं हि धर्ममयो निधिः ॥ 019c
त्वा हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम् । 020a
स्त्रीसहस्रैः परिवृतं पश्यामीवोर्ध्वरेतसम् ॥ 020c
ऋते शान्तनवाद्भीष्मात्त्रिषु लोकेषु पार्थिवम् । 021a
सत्यधर्मान्महावीर्याच्छूराद्धर्मैकतत्परात् ॥ 021c
मृत्युमावार्य तपसा शरसंस्तरशायिनः । 022a
त्रिवर्गप्रभवं कञ्चिन्न च तातानुशुश्रुम ॥ 022c
सत्ये तपसि दाने च यज्ञाधिकरणे तथा । 023a
धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे ॥ 023c
अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम् । 024a
महारथं त्वत्सदृशं न कञ्चिदनुशुश्रुम ॥ 024c
त्वं हि देवान्सगन्धर्वानसुरान्यक्षराक्षसान् । 025a
शक्तस्त्वेकरथेनैव विजेतुं नात्र संशयः ॥ 025c
स त्वं भीष्म महाबाहो वसूनां वासवोपमः । 026a
नित्यं विप्रैः समाख्यातो नवमोऽनवमो गुणैः ॥ 026c
अहं च त्वाऽभिजानामि स्वयं पुरुषसत्तम । 027a
त्रिदशेष्वपि विख्यातस्त्वं शक्त्या पुरुषोत्तमः ॥ 027c
मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः । 028a
भवतो हि गुणैस्तुल्यः पृथिव्यां पुरुषः क्वचित् ॥ 028c
त्वं हि सर्वगुणै राजन्देवानप्यतिरिच्यसे ॥ 029ac
तपसा हि भवाञ्शक्तः स्रष्टुं लोकांश्चराचरान् । 030a
किम्पुनश्चात्मनो लोकानुत्तमानुत्तमैर्गुणैः ॥ 030c
तदस्य तप्यमानस्य ज्ञातीनां सङ्क्षयेन वै । 031a
ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद ॥ 031c
ये हि धर्माः समाख्याताश्चातुर्वर्ण्यस्य भारत । 032a
चातुराश्रम्यसंयुक्ताः सर्वे ते विदितास्तव ॥ 032c
चातुर्विद्ये च ये प्रोक्ताश्चातुर्होत्रे च भारत । 033a
योगे साङ्ख्ये च नियता ये च धर्माः सनातनाः ॥ 033c
चातुर्वर्ण्यस्य यश्चोक्तो धर्मो न स्म विरुध्यते । 034a
सेव्यमानः सवैयाख्यो गाङ्गेय विदितस्तव ॥ 034c
प्रतिलोमप्रसूतानां म्लेच्छानां चैव यः स्मृतः । 035a
देशजातिकुलानां च जानीषे धर्मलक्षणम् || 035c
वेदोक्तो यश्च शिष्टोक्तः सदैव विदितस्तव । 036a
'प्रवृत्तश्च निवृत्तश्च स चापि विदितस्तव ॥' 036c
इतिहासपुराणार्थाः कार्त्स्न्येन विदितास्तव । 037a
धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम् ॥ 037c
ये च केचन लोकेऽस्मिन्नर्थाः संशयकारकाः । 038a
तेषां छेत्ता नास्ति लोके त्वदन्यः पुरुषर्षभः ॥ 038c
स पाण्डवेयस्य मनःसमुत्थितं नरेन्द्र शोकं व्यपकर्ष मेधया । 039a
भवद्विधा ह्युत्तमबुद्धिर्विस्तरा विमुह्यमानस्य जनस्य शान्तये ॥ 039c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनपञ्चाशोऽध्यायः ॥ 49 ॥
12-49-1 अवस्कन्द्यावरुह्य वाहेभ्यः ॥ 12-49-11 यदुपुङ्गवो निषसादेति शेषः । ततो वृद्धं तथा दृष्ट्वा गाङ्गेयं यदुकौरवाः इति झ. पाठः ॥ 12-49-12 निशाम्य आलोच्य ॥ 12-49-15 छन्दमृत्युः इच्छामरणः । नत्वेतदिह कारणमिति ट. ड. थ. पाठः ॥ 12-49-20 नहि राज्ये स्थितमिति ट. ड. पाठः ॥ 12-49-21 भीष्मादृते मृत्युमावार्य स्थितं कमपि न शुश्रुमेति द्वयोः सम्बन्धः ॥ 12-49-26 वसूनामष्टानामंशैर्घटितो नवमः गुणैरनवमश्च ॥