अध्यायः 048

कृष्णेन युधिष्ठिरम् प्रति परशुरामचरितकथनम् ॥ 1 ॥ वासुदेव उवाच 001
शृणु कौन्तेय रामस्य प्रभावो यो मया श्रुतः । 001a
महर्षीणां कथयतां कारणं तस्य जन्म च ॥ 001c
यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः । 002a
उद्भूता राजवंशेषु ये भूयो भारते हताः ॥ 002c
जह्नोरजस्तु तनयो बलाकाश्वस्तु तत्सुतः । 003a
कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपते ॥ 003c
अग्र्यं तपः समातिष्ठत्सहस्राक्षसमो भुवि । 004a
पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत ॥ 004c
तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः । 005a
समर्थं पुत्रजनने स्वयमेवैत्य भारत ॥ 005c
पुत्रत्वमगमद्राजंस्तस्य लोकेश्वरेश्वरः । 006a
गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः ॥ 006c
तस्य कन्याऽभवद्राजन्नाम्ना सत्यवती प्रभो । 007a
तां गाधिर्भृगुपुत्राय ऋचीकाय ददौ प्रभुः ॥ 007c
ततस्तया हि कौन्तेय भार्गवः कुरुनदनः । 008a
पुत्रार्थं श्रपयामास चरुं गाधेस्तथैव च ॥ 008c
आहूय चाह तां भार्यामृचीको भार्गवस्तदा । 009a
उपयोज्यश्चरुरयं त्वया मात्राऽप्ययं तव ॥ 009c
तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः । 010a
अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः ॥ 010c
तवापि पुत्रं कल्याणि धृतिमन्तं शमात्मकम् । 011a
तपोन्वितं द्विजश्रेष्ठं चरुरेष विधास्यति ॥ 011c
इत्येवमुक्त्वा तां भार्यां सर्चीको भृगुनन्दनः । 012a
तपस्यभिरतः श्रीमाञ्जगामारण्यमेव हि ॥ 012c
एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः । 013a
गाधिः सदारः सम्प्राप्त ऋचीकस्याश्रमं प्रति ॥ 013c
चरुद्वयं गृहीत्वा तु राजन्सत्यवती तदा । 014a
भर्त्रा दत्तं प्रसन्नेन मात्रे हृष्टा न्यवेदयत् ॥ 014c
माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ । 015a
तस्याश्चरुमथाज्ञातमात्मसंस्थं चकार ह ॥ 015c
अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा । 016a
धारयामास दीप्तेन वपुषा घोरदर्शनम् ॥ 016c
तामृचीकस्तदा दृष्ट्वा ध्यानयोगेन भारत । 017a
अब्रवीद्भृगुशार्दूलः स्वां भार्यां देवरूपिणीम् ॥ 017c
मात्राऽसि व्यंसिता भद्रे चरुव्यत्यासहेतुना । 018a
तस्माज्जनिष्यते पुत्रः क्रूरकर्माऽत्यमर्षणः । 018c
'जनयिष्यति माता ते ब्रह्मभूतं तपोधनम् ॥' 018e
विश्वं हि ब्रह्म सुमहच्चरौ तव समाहितम् । 019a
क्षत्रवीर्यं च सकलं तव मात्रे समर्पितम् ॥ 019c
विपर्ययेण ते भद्रे नैतदेवं भविष्यति । 020a
मातुस्ते ब्राह्मणो भूयात्तव च क्षत्रियः सुतः ॥ 020c
सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा । 021a
पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम् ॥ 021c
नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः । 022a
ब्राह्मणापशदं पुत्रं प्राप्स्यसीति हि मां प्रभो ॥ 022c
ऋचीक उवाच 023
नैष सङ्कल्पितः कामो मया भद्रे तथा त्वयि । 023a
उग्रकर्मा भवेत्पुत्रश्चरुव्यत्यासहेतुना ॥ 023c
सत्यवत्युवाच 024
इच्छल्ँलोकानपि मुने सृजेथाः किं पुनः सुतम् । 024a
शमात्मकमृजुं पुत्रं दातुमर्हसि मे प्रभो ॥ 024c
ऋचीक उवाच 025
नोक्तपूर्वं मया भद्रे स्वैरेष्वप्यनृतं वचः । 025a
किमुताग्निं समाधाय मन्त्रवच्चरुसाधने ॥ 025c
[दृष्टमेतत्पुरा भद्रे ज्ञातं च तपसा मया । 026a
ब्रह्मभूतं हि सकलं पितुस्तव कुलं भवेत् ॥] 026c
सत्यवत्युवाच 027
काममेवं भवेत्पौत्रो मामैवं तनयः प्रभो । 027a
शमात्मकमृजुं पुत्रं लभेयं जपतां वर ॥ 027c
ऋचीक उवाच 028
पुत्रे नास्ति विशेषो मे पौत्रे च वरवर्णिनि । 028a
यथा त्वयोक्तं वचनं तथा भद्रे भविष्यति ॥ 028c
वासुदेव उवाच 029
ततः सत्यवती पुत्रं जनयामास भार्गवम् । 029a
तपस्यभिरतं शान्तं जमदग्निं यतव्रतम् ॥ 029c
विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः । 030a
प्राप ब्रह्मर्षिसमितं विश्वेन ब्रह्मणा युतम् ॥ 030c
ऋचीको जनयामास जमदग्निं तपोनिधिम् । 031a
सोऽपि पुत्रं ह्यजनयज्जमदग्निः सुदारुणम् ॥ 031c
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् । 032a
रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् ॥ 032c
[तोषयित्वा महादेवं पर्वते गन्धमादने । 033a
अस्त्राणि वरयामास परशुं चातितेजसम् ॥ 033c
स तेनाकुण्ठधारेण ज्वलितानलवर्चसा । 034a
कुठारेणाप्रमेयेण लोकेष्वप्रतिमोऽभवत् ॥] 034c
एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली । 035a
अर्जुनो नाम तेजस्वी क्षत्रियो हैहयाधिपः ॥ 035c
दत्तात्रेयप्रसादेन राजा बाहुसहस्रवान् । 036a
चक्रवर्ती महातेजा विप्राणामाश्वमेधिके ॥ 036c
ददौ स पृथिवीं सर्वां सप्तद्वीपां सपर्वताम् । 037a
सबाह्वस्त्रबलेनाजौ जित्वा परमधर्मवित् ॥ 037c
तृषितेन च कौन्तेय भिक्षितश्चित्रभानुना । 038a
सहस्रबाहुर्विक्रान्तः प्रादाद्भिक्षामथाग्नये ॥ 038c
ग्रामान्पुराणि राष्ट्राणि घोषांश्चैव तु वीर्यवान् । 039a
जज्वाल तस्य बाणेद्धचित्रभानुर्दिधक्षया ॥ 039c
स तस्य पुरुषेन्द्रस्य प्रभावेण महौजसः । 040a
ददाह कार्तवीर्यस्य शैलानपि धरामपि ॥ 040c
स शून्यमाश्रमारण्यमापवस्य महात्मनः । 041a
ददाह पवनेनेद्धश्चित्रभानुः सहैहयः ॥ 041c
आपवस्तं ततो रोषाच्छशापार्जुनमच्युत । 042a
दग्धे श्रमे महाबाहो कार्तवीर्येण वीर्यवान् ॥ 042c
त्वया न वर्जितं यस्मान्ममेदं हि महद्वनम् । 043a
दग्धं तस्माद्रणे रामो बाहूंस्ते च्छेत्स्यतेऽर्जुन ॥ 043c
अर्जुनस्तु महातेजा बली नित्यं शमात्मकः । 044a
ब्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत । 044c
नाचिन्तयत्तदा शापं तेन दत्तं महात्मना ॥ 044e
तस्य पुत्राः सुबलिनः शापेनासन्पितुर्वधे । 045a
निमित्तमवलिप्ता वै नृशंसाश्चैव नित्यदा ॥ 045c
जमदग्नेस्तु धेन्वास्ते वत्समानिन्युरच्युत । 046a
अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः ॥ 046c
तन्निमित्तमभूद्युद्धं जामदग्नेर्महात्मनः । 047a
ततोऽर्जुनस्य बाहून्स चिच्छेद रुषितोऽनघ ॥ 047c
तं भ्रमन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम् । 048a
प्रत्यानयत राजेन्द्र तेषामन्तःपुरात्प्रभुः ॥ 048c
अर्जुनस्य सुतास्ते तु सम्भूयाबुद्धयस्तदा । 049a
गत्वाऽऽश्रममसम्बुद्धा जमदग्नेर्महात्मनः । 049c
अपातयन्त भल्लाग्रैः शिरः कायान्नराधिप ॥ 049e
समित्कुशार्थं रामस्य निर्यातस्य यशस्विनः । 050a
'प्रत्यक्षं राममातुश्च तथैवाश्रमवासिनाम् ॥ 050c
श्रुत्वा रामस्तमर्थं च क्रुद्धः कालानलोपमः । 051a
धनुर्वेदेऽद्वितीयो हि दिव्यास्त्रैः समलङ्कृतः ॥ 051c
चन्द्रबिम्बार्धसङ्काशं परशुं गृह्य भार्गवः ।' 052a
ततः पितृवधामर्षाद्रामः परममन्युमान् । 052c
निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्णत ॥ 052e
ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान् । 053a
विक्रम्य निजघानाशु पुत्रान्पौत्रांश्च सर्वशः ॥ 053c
स हैहयसहस्राणि हत्वा परममन्युमान् । 054a
महीं सागरपर्यन्तां चकार रुधिरोक्षिताम् ॥ 054c
स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम् । 055a
कृपया परयाऽऽविष्टो वनमेव जगाम ह ॥ 055c
ततो वर्षसहस्रेषु समतीतेषु केषुचित् । 056a
कोपं सम्प्राप्तवांस्तत्र प्रकृत्या कोपनः प्रभुः ॥ 056c
विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः । 057a
परावसुर्महाराज क्षिप्त्वाऽऽह जनसंसदि ॥ 057c
ये ते ययातिपतने यज्ञे सन्तः समागताः । 058a
प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते ॥ 058c
मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि । 059a
भयात्क्षत्रियवीराणां पर्वतं समुपाश्रितः ॥ 059c
सा पुनः क्षत्रियशतैः पृथिवी सर्वतः स्तृता । 060a
परावसोर्वचः श्रुत्वा शस्त्रं जग्राह भार्गवः ॥ 060c
ततो ये क्षत्रिया राजञ्शतशस्तेन वर्जिताः । 061a
ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन् ॥ 061c
स पुनस्ताञ्जघानाशु बालानपि नराधिप । 062a
गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत्तदा ॥ 062c
जातञ्जातं स गर्भं तु पुनरेव जघान ह । 063a
अरक्षंश्च सुतान्कांश्चित्तदा क्षत्रिययोषितः ॥ 063c
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः । 064a
दक्षिणामश्वमेधान्ते कश्यपायाददत्ततः ॥ 064c
स क्षत्रियाणां शेषार्थं करेणोद्दिश्य कश्यपः । 065a
स्रुक्प्रग्रहवता राजंस्ततो वाक्यमथाब्रवीत् ॥ 065c
गच्छ पारं समुद्रस्य दक्षिणस्य महामुने । 066a
न ते मद्विषये राम वस्तव्यमिह कर्हिचित् ॥ 066c
'पृथिवी दक्षिणा दत्ता वाजिमेधे मम त्वया । 067a
पुनरस्याः पृथिव्या हि दत्त्वा दातुमनीश्वरः ॥' 067c
ततः शूर्पाकरं देशं सागरस्तस्य निर्ममे । 068a
सन्त्रासाज्जामदग्न्यस्य सोऽपरान्तमहीतलम् ॥ 068c
कश्यपस्तां महाराज प्रतिगृह्य वसुन्धराम् । 069a
कृत्वा ब्राह्मणसंस्थां वै प्रविष्टः सुमहद्वनम् ॥ 069c
ततः शूद्राश्च वैश्याश्च यथा स्वैरप्रचारिणः । 070a
अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ ॥ 070c
अराजके जीवलोके दुर्बला बलवत्तरैः । 071a
वध्यन्ते न हि वित्तेषु प्रभुत्वं कस्यचित्तदा ॥ 071c
'ब्राह्मणा मद्यपाः केचिन्मूर्खाः पण्डितमानिनः | 072a
ब्राह्मणाः क्षत्रिया वैश्याः शृद्राश्चोत्पथगामिनः । 072c
परस्परं समाश्रित्य घातयन्त्यपथस्थिताः ॥ 072e
स्वधर्मं ब्राह्मणास्त्यक्त्वा पाषण्डत्वं समाश्रिताः । 073a
चौरिकानृतमायाश्च सर्वे चैव प्रकुर्वते ॥ 073c
स्वधर्मस्थान्द्विजान्हत्वा तथाऽऽश्रमनिवासिनः । 074a
वैश्याः सत्पथसंस्थाश्च शूद्रा ये चैव धार्मिकाः ॥ 074c
तान्सर्वान्घातयन्ति स्म दुराचाराः सुनिर्भयाः । 075a
यज्ञाध्ययनशीलांश्च आश्रमस्थांस्तपस्विनः ॥ 075c
गोबालवृद्धनारीणां नाशं कुर्वन्ति चापरे । 076a
आन्वीक्षकी त्रयी वार्ता न च नीतिः प्रवर्तते ॥ 076c
व्रात्यतां समनुप्राप्ता बहवो हि द्विजातयः । 077a
अधरोत्तरापचारेण म्लेच्छभूताश्च सर्वशः ॥' 077c
ततः कालेन पृथिवी पीड्यमाना दुरात्मभिः । 078a
विपर्ययेण तेनाशु प्रविवेश रसातलम् । 078c
अरक्ष्यमाणा विधिवत्क्षत्रियैर्धर्मरक्षिभिः ॥ 078a
तां दृष्ट्वा द्रवतीं तत्र सन्त्रासात्स महामनाः । 079c
ऊरुणा धारयामास कश्यपः पृथिवीं ततः । 079a
निमज्जन्तीं ततो राजंस्तेनोर्वीति मही स्मृता ॥ 079e
रक्षणार्थं समुद्दिश्य ययाचे पृथिवी तदा । 080a
प्रसाद्य कश्यपं देवी क्षत्रियान्बाहुशालिनः ॥ 080c
पृथिव्युवाच 081
सन्ति ब्रह्मन्मया गुप्ताः स्त्रीषु क्षत्रियपुङ्गवाः । 081a
हैहयानां कुले जातास्ते संरक्षन्तु मां मुने ॥ 081c
अस्ति पौरवदायादो विदूरथसुतः प्रभो । 082a
ऋक्षैः संवर्धितो विप्र ऋक्षवत्यथ पर्वते ॥ 082c
तथाऽनुकम्पमानेन यज्वनाथामितौजसा । 083a
पराशरेण दायादः सौदासस्याभिरक्षितः ॥ 083c
सर्वकर्माणि कुरुते शूद्रवत्तस्य स द्विजः । 084a
सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः ॥ 084c
शिबिपुत्रो महातेजा गोपतिर्नाम नामतः । 085a
वने संवर्धितो गोभिः सोऽभिरक्षतु मां मुने ॥ 085c
प्रतर्दनस्य पुत्रस्तु वत्सो नाम महाबलः । 086a
वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः ॥ 086c
दधिवाहनपुत्रस्तु पौत्रो दिविरथस्य च । 087a
अङ्गः स गौतमेनासीद्गङ्गाकूलेऽभिरक्षितः ॥ 087c
बृहद्रथो महातेजा भूरिभूतिपरिष्कृतः । 088a
गोलाङ्गूलैर्महाभागो गृध्रकूटेऽभिरक्षितः ॥ 088c
मरुत्तस्यान्ववाये च रक्षिताः क्षत्रियात्मजाः । 089a
मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः ॥ 089c
एते क्षत्रियदायादास्तत्रतत्र परिश्रुताः । 090a
व्योकारहेमकारादिजातिं नित्यं समाश्रिताः ॥ 090c
यदि मामभिरक्षन्ति ततः स्थास्यामि निश्चला । 091a
एतेषां पितरश्चैव तथैव च पितामहाः ॥ 091c
मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा । 092a
तेषामपचितिश्चैव मया कार्या महामुने ॥ 092c
न ह्यहं कामये नित्यमतिक्रान्तेन रक्षणम् । 093a
वर्तमानेन वर्तेयं तत्क्षिप्रं संविधीयताम् ॥ 093c
वासुदेव उवाच 094
ततः पृथिव्या निर्दिष्टांस्तान्समानीय कश्यपः । 094a
अभ्यषिञ्चन्महीपालान्क्षत्रियान्वीर्यसम्मतान् ॥ 094c
तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः । 095a
एवमेतत्पुरावृत्तं यन्मां पृच्छसि पाण्डव ॥ 095c
वैशम्पायन उवाच 096
एवं ब्रुवंस्तं च यदुप्रवीरो युधिष्ठिरं धर्मभृतां वरिष्ठम् । 096a
रथेन तेनाशु ययौ यथाऽर्को विशन्प्रभाभिर्भगवांस्त्रिलोकीम् ॥ 096c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥

12-48-2 भारते भारतसङ्ग्रामे ॥ 12-48-5 स्वयमेवान्वपद्यतेति झ. पाठः ॥ 12-48-8 गाधेः पुत्रार्थं तस्याश्च पुत्रार्थं चरुं चरुद्वयम् ॥ 12-48-9 उपयोज्यः भोज्यः भोक्तव्यः ॥ 12-48-18 व्यंसिता वञ्चिता ॥ 12-48-38 चित्रभानुना अग्निना ॥ 12-48-41 आपवस्य वसिष्ठस्य ॥ 12-48-42 श्रमे आश्रमे ॥ 12-48-45 पितुर्वधे वधनिमित्तमासन् ॥ 12-48-46 निमित्तादिति पाठे शापादेव हेतोः ॥ 12-48-60 स्तृता व्याप्ता । शास्त्रं जग्राह तत्कार्यं क्षत्रियाणामन्तं कृतवान् ॥ 12-48-61 वर्जिताः अहृताः ॥ 12-48-68 शूर्पारकमिति झ. पाठः ॥ । 12-48-79 धृता तेनोरुणा येन तेनोर्वीति झ. पाठः ॥ 12-48-84 द्विजः क्षत्रियोऽपि ॥ 12-48-92 अपचितिः आनृण्यार्थं पूजा ॥ 12-48-93 नित्यमतिक्रान्तेन धर्मातिक्रमिणा ॥