अध्यायः 047
कृष्णयुधिष्ठिरादीनां कुरुक्षेत्रम् प्रति गमनम् ॥ 1 ॥ युधिष्ठिरेण कृष्णम् प्रति परशुरामचरित्रकथनप्रार्थना ॥ 2 ॥
वैशम्पायन उवाच 001
ततः स च हृषीकेशः स च राजा युधिष्ठिरः । 001a
कृपादयश्च ते सर्वे चत्वारः पाण्डवाश्च ते ॥ 001c
रथैस्तैर्नगरप्रख्यैः पताकाध्वजशोभितैः । 002a
ययुराशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः ॥ 002c
तेऽवतीर्य कुरुक्षेत्रे केशमज्जास्थिसङ्कुले । 003a
देहन्यासः कृतो यत्र क्षत्रियैस्तैर्महारथैः ॥ 003c
गजाश्वदेहास्थिचयैः पर्वतैरिव सञ्चितम् । 004a
नरशीर्षकपालैश्च हंसैरिव च सर्वशः ॥ 004c
चितासहस्रैर्निचितं वर्मशस्त्रसमाकुलम् । 005a
आपानभूमिं कालस्य तदा भुक्तोज्झितामिव ॥ 005c
भूतसङ्घानुचरितं रक्षोगणनिषेवितम् । 006a
पश्यन्तस्ते कुरुक्षेत्रं ययुराशु महारथाः ॥ 006c
गच्छन्नेव महाबाहुः सर्वं यादवनन्दनः । 007a
युधिष्ठिराय प्रोवाच जामदग्न्यस्य विक्रमम् ॥ 007c
अमी रामह्रदाः पञ्च दृश्यन्ते पार्थ दूरतः । 008a
येषु सन्तर्पयामास पितॄन्क्षत्रियशोणितैः ॥ 008c
त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः । 009a
इहेदानीं ततो रामः कर्मणो विरराम ह ॥ 009c
युधिष्ठिर उवाच 010
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा । 010a
रामेणेति यदात्थ त्वमत्र मे संशयो महान् ॥ 010c
क्षत्रबीजं यथा दग्धं रामेण यदुपुङ्गव । 011a
कथं भूयः समुत्पत्तिः क्षत्रस्यामितविक्रम ॥ 011c
महात्मना भगवता रामेण यदुपुङ्गव । 012a
कथमुत्सादित्तं क्षत्रं कथमृद्धिगतं पुनः ॥ 012c
महता रथयुद्धेन कोटिशः क्षत्रिया हताः । 013a
तथाऽभूच्च मही कीर्णा क्षत्रियैर्वदतां वर ॥ 013c
किमर्थं भार्गवेणेदं क्षत्रमुत्सादितं पुरा । 014a
रामेण यदुशार्दूल कुरुक्षेत्रे महात्मना ॥ 014c
एतन्मे छिन्धि वार्ष्णेय संशयं तार्क्ष्यकेतन । 015a
आगमो हि परः कृष्ण त्वत्तो नो वासवानुज ॥ 015c
वैशम्पायन उवाच 016
ततो व्रजन्नेव गदाग्रजः प्रभुः शशंस तस्मै निखिलेन तत्त्वतः । 016a
युधिष्ठिरायाप्रतिमौजसे तदा यथाऽभवत्क्षत्रियसङ्कुला मही ॥ 016c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥
12-47-15 आगमो वेदः । त्वत्तः त्वद्वचनात्रो परः नाधिकः ॥