अध्यायः 046

वैशम्पायनेन जनमेजयम् प्रति भीष्मकृतकृष्णस्तवराजानुवादपूर्वकम् भीष्मस्य शरीरत्यागप्रकारकथनम् ॥ 1 ॥ जनमेजय उवाच 001
शरतल्पे शयानस्तु भरतानां पितामहः । 001a
कथमुत्सृष्टवान्देहं कं च योगमधारयत् ॥ 001c
वैशम्पायन उवाच 002
शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः । 002a
भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः ॥ 002c
प्रवृत्तमात्रे त्वयनमुत्तरेण दिवाकरे । 003a
'शुक्लपक्षस्य चाष्टम्यां माघमासस्य पार्थिव ॥ 003c
प्राजापत्ये च नक्षत्रे मध्यं प्राप्ते दिवाकरे ।' 004a
समावेशयदात्मानमात्मन्येव समाहितः ॥ 004c
विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः । 005a
शुशुभे परया लक्ष्म्या वृतो ब्राह्मणसत्तमैः ॥ 005c
व्यासेन देवश्रवसा नारदेन सुरर्षिणा । 006a
देवस्थानेन वात्स्येन तथाऽश्मकसुमन्तुना ॥ 006c
तथा जैमिनिना चैव पैलेन च महात्मना । 007a
शाण्डिल्यदेवलाभ्यां च मैत्रेयेण च धीमता ॥ 007c
असितेन वसिष्ठेन कौशिकेन महात्मना । 008a
हारितलोमशाभ्यां च तथाऽऽत्रेयेण धीमता ॥ 008c
[बृहस्पतिश्च शुक्रश्च च्यवनश्च महामुनिः । 009a
सनत्कुमारः कपिलो चाल्मीकिस्तुम्बुरुः कुरुः ॥ 009c
मौद्गल्यो भार्गवो रामस्तृणबिन्दुर्महामुनिः । 010a
पिप्पलादोऽथ वायुश्च संवर्तः पुलहः कचः ॥ 010c
काश्यपश्च पुलस्त्यश्च क्रतुर्दक्षः पराशरः । 011a
मरीचिरङ्गिराः काश्यो गौतमो गालवो मुनिः ॥ 011c
धौम्यो विभाण्डो माण्डव्यो धौम्रः कृष्णानुभौतिकः । 012a
उलूकः परमो विप्रो मार्कण्डेयो महामुनिः । 012c
भास्करिः पूरणः कृष्णः सूतः परमधार्मिकः ॥ 012e
एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः । 013a
श्रद्धादमशमोपेतैर्वृतश्चन्द्र इव ग्रहैः ॥ 013c
भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा । 014a
शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः शुचिः ॥ 014c
स्वरेण हृष्टपुष्टेन तुष्टाव मधुसूदनम् । 015a
योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् । 015c
'अनादिनिधनं विष्णुमात्मयोनिं सनातनम् ॥' 015e
कृताञ्जलिपुटो भूत्वा वाग्विदां प्रवरः प्रभुः | 016a
भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत् ॥ 016c
भीष्म उवाच 017
आरिराधयिषुः कृष्णं वाचं जिगदिषामि याम् । 017a
तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः ॥ 017c
शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम् । 018a
युक्त्वा सर्वात्मनाऽऽत्मानं तं प्रपद्ये प्रजापतिम् ॥ 018c
अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः । 019a
एकोऽयं वेद भगवान्धाता नारायणो हरिः ॥ 019c
नारायणादृषिगणास्तथा सिद्धमहोरगाः । 020a
देवा देवर्षयश्चैव यं विदुर्दुःखभेषजम् ॥ 020c
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । 021a
यं न जानन्ति को ह्येष कुतो वा भगवानिति ॥ 021c
'यमाहुर्जगतः कोशं यस्मिंश्च निहिताः प्रजाः । 022a
यस्मिल्ँलोकाः स्फुरन्त्येते जाले शकुनयो यथा ॥' 022c
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च । 023a
गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥ 023c
'यं च विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् | 024a
वदन्ति जगतोऽध्यक्षमध्यात्मपरिचिन्तकाः ॥' 024c
यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति । 025a
सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ॥ 025c
हरिं सहस्रशिरसं सहस्रचरणेक्षणम् । 026a
सहस्रबाहुमकुटं सहस्रवदनोज्ज्वलम् ॥ 026c
प्राहुर्नारायणं देवं यं विश्वस्य परायणम् । 027a
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् । 027c
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥ 027e
यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च । 028a
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥ 028c
चतुर्भिश्चतुरात्मानं सत्वस्थं सात्वतां पतिम् । 029a
यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः ॥ 029c
[यस्मिन्नित्यं तपस्तप्तं यदङ्गेष्वनुतिष्ठति । 030a
सर्वात्मा सर्ववित्सर्वः सर्वज्ञः सर्वभावनः ॥] 030c
यं देवं देवकी देवी वसुदेवादजीजनत् । 031a
भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः ॥ 031c
यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् । 032a
इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मानमात्मनि ॥ 032c
'अप्रतर्क्यमविज्ञेयं हरिं नारायणं विभुम् ।' 033a
अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम् । 033c
अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् ॥ 033e
पुराणे पुरुषं प्रोक्तं ब्रह्मप्रोक्तं युगादिषु । 034a
क्षये सङ्कर्षणं प्रोक्तं तमुपास्यमुपास्महे ॥ 034c
यमेकं बहुधात्मानं प्रादुर्भूतमधोक्षजम् । 035a
नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् ॥ 035c
ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् । 036a
अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः ॥ 036c
यं सुरासुरगन्धर्वाः सिद्धा ऋषिमहोरगाः । 037a
प्रयता नित्यमर्चन्ति परमं सुखभेषजम् ॥ 037c
अनादिनिधनं देवमात्मयोनिं सनातनम् । 038a
अप्रेक्ष्यमनभिज्ञेयं हरिं नारायणं प्रभुम् ॥ 038c
अथ भीष्मस्तवराजः ॥ 039
हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम् । 039a
एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः ॥ 039c
शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः । 040a
यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ॥ 040c
'हुताशनमुखैर्देवैर्धार्यते सकलं जगत् । 041a
हविः प्रथमभोक्ता यस्तस्मै होत्रात्मने नमः ॥' 041c
महतस्तमसः पारे पुरुषं ह्यतितेजसम् । 042a
यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः ॥ 042c
यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे । 043a
यं विप्रसङ्घा गायन्ति तस्मै वेदात्मने नमः ॥ 043c
पादाङ्गं सन्धिपर्वाणं स्वरव्यञ्जनभूषितम् । 044a
यमाहुरक्षरं विप्रास्तस्मै वागात्मने नमः ॥ 044c
[यज्ञाङ्गो यो वराहो वै भूत्वा गामुज्जहार ह । 045a
लोकत्रयहितार्थाय तस्मै वीर्यात्मने नमः ॥] 045c
ऋग्यजुःसामधामानं दशार्धहविराकृतिम् । 046a
यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः ॥ 046c
[चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । 047a
हूयते च पुनर्द्वाभ्यां तस्मै होमात्मने नमः ॥] 047c
यः सुपर्णो यजुर्नाम च्छन्दोगात्रस्त्रिवृच्छिराः । 048a
रथन्तरबृहत्पक्षस्तस्मै स्तोत्रात्मने नमः ॥ 048c
यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः । 049a
हिरण्यपक्षः शकुनिस्तस्मै तार्क्ष्यात्मने नमः ॥ 049c
यश्चिनोति सतां सेतुमृतेनामृतयोनिना । 050a
धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः ॥ 050c
यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः । 051a
पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः ॥ 051c
[यतः सर्वे प्रसूयन्ते ह्यनङ्गात्माङ्गदेहिनः । 052a
उन्मादः सर्वभूतानां तस्मै कामात्मने नमः ॥] 052c
यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः । 053a
क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः ॥ 053c
यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः । 054a
प्राहुः सप्तदशं साङ्ख्यास्तस्मै साङ्ख्यात्मने नमः ॥ 054c
यं विनिद्रा जितश्वासाः सन्तुष्टाः संयतेन्द्रियाः । 055a
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मेन नमः ॥ 055c
अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः । 056a
शान्ताः सन्न्यासिनो यान्ति तस्मै मोक्षात्मने नमः ॥ 056c
यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । 057a
सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमः ॥ 057c
युगेष्वावर्तते योंऽशैर्मासर्त्वयनहायनैः । 058a
सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः ॥ 058c
योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः । 059a
सम्भक्षयति भूतानि तस्मै घोरात्मने नमः ॥ 059c
सम्भक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् । 060a
बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ॥ 060c
सहस्रशिरसे तस्मै पुरुषायामितात्मने । 061a
चतुःसमुद्रपयसि योगनिद्रात्मने नमः ॥ 061c
अजस्य नाभावध्येकं यस्मिन्विश्वं प्रतिष्ठितम् । 062a
पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः ॥ 062c
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु । 063a
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥ 063c
यस्मात्सर्गाः प्रवर्तन्ते सर्गप्रलयविक्रियाः । 064a
यस्मिंश्चैव प्रलीयन्ते तस्मै हेत्वात्मने नमः ॥ 064c
[यो निषण्णो भवेद्रात्रौ दिवा भवति विष्ठितः । 065a
इष्टानिष्टस्य च द्रष्टा तस्मै द्रष्ट्रात्मने नमः ॥] 065c
अकार्यः सर्वकार्येषु धर्मकार्यार्थमुद्यतः । 066a
वैकुण्ठस्य हि तद्रूपं तस्मै कार्यात्मने नमः ॥ 066c
ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः । 067a
पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः ॥ 067c
अन्नपानेन्धनमयो रसप्राणविवर्धनः । 068a
यो धारयति भूतानि तस्मै प्राणात्मने नमः ॥ 068c
[प्राणानां धारणार्थाय योऽन्नं भुङ्क्ते चतुर्विधम् । 069a
अन्तर्भूतः पचत्यग्निस्तस्मै पाकात्मने नमः ॥] 069c
विषये वर्तमानानां यं तं वैषयिकैर्गुणैः । 070a
प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः ॥ 070c
अप्रमेयशरीराय सर्वतो बुद्धिचक्षुषे । 071a
अपारपरिमाणाय तस्मै दिव्यात्मने नमः ॥ 071c
परः कालात्परो यज्ञात्परः सदसतश्च यः । 072a
अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः ॥ 072c
वैद्युतो जाठरश्चैव पावकः शुचिरेव च । 073a
दहनः सर्वभक्षाणां तस्मै वह्न्यात्मने नमः ॥ 073c
रसातलगतः श्रीमाननन्तो भगवान्प्रभुः । 074a
जगद्धारयते योऽसौ तस्मै शेषात्मने नमः ॥ 074c
ज्वलनार्केन्दुताराणां ज्योतिषां दिव्यमूर्तिनाम् । 075a
यस्तेजयति तेजांसि तस्मै तेजात्मने नमः ॥ 075c
आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम् । 076a
यं ज्ञानेनाधिगच्छन्ति तस्मै ज्ञानात्मने नमः ॥ 076c
साङ्ख्यैर्योगैर्विनिश्चित्य साध्यैश्च परमर्षिभिः । 077a
यस्य तु ज्ञायते तत्वं तस्मै गुह्यात्मने नमः ॥ 077c
जटिने दण्डिने नित्यं लम्बोदरशरीरिणे । 078a
कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ॥ 078c
[शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने । 079a
भस्मदिग्धोर्ध्वलिङ्गाय तस्मा रुद्रात्मने नमः ॥ 079c
चन्द्रार्धकृतशीर्षाय व्यालयज्ञोपवीतिने । 080a
पिनाकशूलहस्ताय तस्मै उग्रात्मने नमः ॥] 080c
यो जातो वसुदेवेन देवक्यां यदुनन्दनः । 081a
शङ्खचक्रगदापाणिर्वासुदेवात्मने नमः ॥ 081c
शिरःकपालमालाय व्याघ्रचर्मनिवासिने । 082a
भस्मदिग्धशरीराय तस्मै रुद्रात्मने नमः ॥ 082c
यो मोहयति भूतानि सर्वपाशानुबन्धनैः । 083a
सर्वस्य रक्षणार्थाय तस्मै मोहात्मने नमः ॥ 083c
चैतन्यं सर्वतो नित्यं सर्वप्राणिहृदि स्थितम् । 084a
सर्वातीततरं सूक्ष्मं तस्मै सूक्ष्मात्मने नमः ॥ 084c
पञ्चभूतात्मभूताय भूतादिनिधनाय च । 085a
अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः ॥ 085c
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः । 086a
यश्च सर्वमयो देवस्तस्मै सर्वात्मने नमः ॥ 086c
यः शेते क्षीरपर्यङ्के दिव्यनागविभूषिते । 087a
फणासहस्ररचिते तस्मै निद्रात्मने नमः ॥ 087c
विश्वे च मरुतश्चैव रुद्रादित्याश्विनावपि । 088a
वसवः सिद्धसाध्याश्च तस्मै देवात्मने नमः ॥ 088c
अव्यक्तं बुद्ध्यहङ्कारो मनोबुद्धीन्द्रियाणि च । 089a
तन्मात्राणि विशेषाश्च तस्मै तत्वात्मने नमः ॥ 089c
भूतं भव्यं भविष्यच्च भूतादिप्रभवाव्ययः । 090a
योऽग्रजः सर्वभूतानां तस्मै भूतात्मने नमः ॥ 090c
यं हि सूक्ष्मं विचिन्वन्ति परं सूक्ष्मविदो जनाः । 091a
सूक्ष्मात्सूक्ष्मं च यद्ब्रह्म तस्मै सूक्ष्मात्मने नमः ॥ 091c
मत्स्यो भूत्वा विरिञ्चाय येन वेदाः समाहृताः । 092a
रसातलगतः शीघ्रं तस्मै मत्स्यात्मने नमः ॥ 092c
मन्दराद्रिर्धृतो येन प्राप्ते ह्यमृतमन्थने । 093a
अतिकर्कशदेहाय तस्मै कूर्मात्मने नमः ॥ 093c
वाराहं रूपमास्थाय महीं सवनपर्वताम् । 094a
उद्धरत्येकदंष्ट्रेण तस्मै क्रोडात्मने नमः ॥ 094c
नारसिंहवपुः कृत्वा सर्वलोकभयङ्करम् । 095a
हिरण्यकशिपुं जघ्ने तस्मै सिंहात्मने नमः ॥ 095c
पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रानखैर्युतम् । 096a
दानवेन्द्रान्तकरणं तस्मै दृप्तात्मने नमः ॥ 096c
यं न देवा न गन्धर्वा न दैत्या न च दानवाः । 097a
तत्वतो हि विजानन्ति तस्मै सूक्ष्मात्मने नमः ॥] 097c
वामनं रूपमास्थाय बलिं संयम्य मायया । 098a
त्रैलोक्यं क्रान्तवान्यस्तु तस्मै क्रान्तात्मने नमः ॥ 098c
जमदग्निसुतो भूत्वा रामः शस्त्रभृतां वरः । 099a
महीं निःक्षत्रियां चक्रे तस्मै रामात्मने नमः ॥ 099c
त्रिःसप्तकृत्वो यश्चैको धर्मे व्युत्क्रान्तिगौरवात् । 100a
जघान क्षत्रियान्सङ्ख्ये तस्मै क्रोधात्मने नमः ॥ 100c
[विभज्य पञ्चधाऽऽत्मानं वायुर्भूत्वा शरीरगः । 101a
यश्चेष्टयति भूतानि तस्मै वाय्वात्मने नमः ॥] 101c
रामो दाशरथिर्भूत्वा पुलस्त्यकुलनन्दनम् । 102a
जघान रावणं सङ्ख्ये तस्मै क्षत्रात्मने नमः ॥ 102c
यो हली मुसली श्रीमान्नीलाम्बरधरः स्थितः । 103a
रामाय रौहिणेयाय तस्मै भोगात्मने नमः ॥ 103c
शङ्खिने चक्रिणे नित्यं शार्ङ्गिणे पीतवाससे । 104a
वनमालाधरायैव तस्मै कृष्णात्मने नमः ॥ 104c
वसुदेवसुतः श्रीमान्क्रीडितो नन्दगोकुले । 105a
कंसस्य निधनार्थाय तस्मै क्रीडात्मने नमः ॥ 105c
वासुदेवत्वमागम्य यदोर्वंशसमुद्भवः । 106a
भूभारहरणं चक्रे तस्मै कृष्णात्मने नमः ॥ 106c
सारथ्यमर्जुनस्याजौ कुर्वन्गीतामृतं ददौ । 107a
लोकत्रयोपकाराय तस्मै ब्रह्मात्मने नमः ॥ 107c
दानवांस्तु वशे कृत्वा पुनर्बुद्धत्वमागतः । 108a
सर्गस्य रक्षणार्थाय तस्मै बुद्धात्मने नमः ॥ 108c
हनिष्यति कलौ प्राप्ते म्लेच्छांस्तुरगवाहनः । 109a
धर्मसंस्थापको यस्तु तस्मै कल्क्यात्मने नमः ॥ 109c
तारान्वये कालनेमिं हत्वा दानवपुङ्गवम् । 110a
ददौ राज्यं महेन्द्राय तस्मै साङ्ख्यात्मने नमः ॥ 110c
यः सर्वप्राणिनां देहे साक्षिभूतो ह्यवस्थितः । 111a
अक्षरः क्षरमाणानां तस्मै साक्ष्यात्मने नमः ॥ 111c
नमोस्तु ते महादेव नमस्ते भक्तवत्सल । 112a
सुब्रह्मण्य नमस्तेऽस्तु प्रसीद परमेश्वर ॥ 112c
अव्यक्तव्यक्तरूपेण व्याप्तं सर्वं त्वया विभो । 113a
नारायणं सहस्राक्षं सर्वलोकमहेश्वरम् ॥ 113c
हिरण्यनाभं यज्ञाङ्गममृतं विश्वतोमुखम् । 114a
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ॥ 114c
येषां हृदिस्थो देवेशो मङ्गलायतनं हरिः । 115a
मङ्गलं भगवान्विष्णुर्मङ्गलं मधुसूदनः ॥ 115c
मङ्गलं पुण्डरीकाक्षो मङ्गलं गरुडध्वजः । 116a
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव ॥ 116c
अपवर्गस्थभूतानां पञ्चानां परमास्थित । 117a
नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु ॥ 117c
नमस्ते दिक्षु सर्वासु त्वं हि सर्वपरायणम् । 118a
नमस्ते भगवन्विष्णो लोकानां प्रभवाव्यय ॥ 118c
त्वं हि कर्ता हृषीकेशः संहर्ता चापराजितः । 119a
तेन पश्यामि ते दिव्यान्भावान्हि त्रिषुवर्त्मसु ॥ 119c
तच्च पश्यामि तत्वेन यत्ते रूपं सनातनम् । 120a
दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा । 120c
विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः ॥ 120e
[दिशो भुजा रविश्चक्षुर्वीर्ये शुक्रः प्रतिष्ठितः । 121a
सप्तमार्गा निरुद्धास्ते वायोरमिततेजसः ॥] 121c
व्यक्ताव्यक्तस्वरूपेण व्याप्तं सर्वं त्वया विभो । 122a
अव्यक्तं ब्राह्मणं रूपं व्यक्तमेतच्चराचरम् ॥ 122c
अतसीपुष्पसङ्काशं पीतवाससमच्युतम् । 123a
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ॥ 123c
[एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः । 124a
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥ 124c
कृष्णव्रताः कृष्णमनुस्मरन्तो रात्रौ च कृष्णं पुनरुत्थिता ये । 125a
ते कृष्णदेहाः प्रविशन्ति कृष्णमाज्यं यथा मन्त्रहुतं हुताशे ॥ 125c
नमो नरकसन्त्रासरक्षामण्डलकारिणे । 126a
संसारनिम्नगावर्ततरिकाष्ठाय विष्णवे ॥ 126c
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । 127a
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ॥ 127c
प्राणकान्तारपाथेयं संसारोच्छेदभेषजम् । 128a
दुःखशोकपरित्राणं हरिरित्यक्षरद्वयम् ॥] 128c
नारायणपरं ब्रह्म नारायणपरं तपः । 129a
नारायणपरं सत्यं नारायणपरं परम् ॥ 129c
यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः । 130a
तथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा ॥ 130c
तस्य यज्ञवराहस्य विष्णोरमिततेजसः । 131a
प्रणामं येऽपि कुर्वन्ति तेषामपि नमोनमः ॥ 131c
त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे । 132a
यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम ॥ 132c
इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः । 133a
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥ 133c
वैशम्पायन उवाच 134
एतावदुक्त्वा वचनं भीष्मस्तद्गतमानसः । 134a
नम इत्येव कृष्णाय प्रणाममकरोत्तदा ॥ 134c
तस्मिन्नुपरते वाक्ये ततस्ते ब्रह्मवादिनः । 135a
भीष्मं वाग्भिर्बाष्पगलास्तमानर्चुर्महाद्युतिम् ॥ 135c
तेऽस्तुवन्तश्च विप्रेन्द्राः केशवं पुरुषोत्तमम् । 136a
भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः ॥ 136c
अधिगम्य तु योगेन भक्तिं भीष्मस्य माधवः । 137a
त्रैलोक्यदर्शनं ज्ञानं दिव्यं दत्त्वा ययौ हरिः ॥ 137c
विदित्वा भक्तियोगं तं भीष्मस्य पुरुषोत्तमः । 138a
सहसोत्थाय तं हृष्टो यानमेवान्वपद्यत ॥ 138c
केशवः सात्यकिश्चैव रथेनकेन जग्मतुः । 139a
अपरेण महात्मानौ युधिष्ठिरधनञ्जयौ ॥ 139c
भीमसेनो यमौ चोभौ रथमेकं समास्थिताः । 140a
कृपो युयुत्सुः सूतश्च सञ्जयश्चापरं रथम् ॥ 140c
ते रथैर्नगराकारैः प्रयाताः पुरुषर्षभाः । 141a
नेमिघोषेण महता कम्पयन्ते वसुन्धराम् ॥ 141c
ततो गिरः पुरुषवरस्तवेरिता द्विजेरिताः पथिषु मनाक् स शुश्रुवे । 142a
कृताञ्जलिं प्रणतमथापरं जनं स केशिहा मुदितमनाभ्यनन्दत ॥ 142c
इति स्मरन्पठति च शार्ङ्गधन्वनः शृणोतु वा यदुकुलनन्दनस्तवम् । 143a
स चक्रभृत्प्रतिहतसर्वकिल्बिषो जनार्दनं प्रविशति देहसङ्क्षये ॥ 143c
यं योगिनः प्राणवियोगकाले यत्नेन चित्ते विनिवेशयन्ति । 144a
स तं पुरस्ताद्धरिमीक्षमाणः प्राणाञ्जहौ प्राप्तफलो हि भीष्मः ॥ 144c
स्ववराजः समाप्तोऽयं विष्णोरद्भुतकर्मणः । 145a
गाङ्गेयेन पुरा गीतो महापातकनाशनः ॥ 145c
इमं नरः स्तवराजं मुमुक्षुः पठञ्शुचिः कलुषितकल्मषापहम् । 146a
अतीत्य लोकान्मलिनः समागतान्पदं स गच्छत्यमृतं महात्मनः ॥ 146c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षट्चत्वारिंशोऽध्यायः ॥

12-46-17 जिगदिषामि वक्तुमिच्छामि । व्याससमासिन्या विस्तरसङ्क्षेपवत्या ॥ 12-46-25 सदसत्कार्यं कारणं च विश्वं कर्म यस्मात् ॥ 12-46-28 वाकेषु मन्त्रेषु सामान्यतः कर्मप्रकाशकेषु । अनुवाकेषु मन्त्रार्थविवरणभूतेषु ब्राह्मणवाक्येषु । निषत्सु कर्माङ्गाद्यवबद्धदेवतादिज्ञानवाक्येषु । उपनिषत्सु केवलात्मज्ञापकवाक्येषु गृणन्ति ध्यायन्ति । सत्यमबाधितम् । सत्येष्वबाधितार्थेषु । सामसु ज्येष्ठसामादिषु ॥ 12-46-29 चतुर्भिर्नामभिर्वासुदेवसङ्कर्षणप्रद्युम्रानिरुद्धरूपैः ॥ 12-46-30 नित्यं तपः स्वधर्मस्तद्यस्मिन् । यत्प्रीत्यर्थं तप्तं सद्यद्यस्मादङ्गेषु चित्तेष्वनुतिष्ठति उपतिष्ठति यश्च सर्वात्मा तं प्रपद्ये इति सर्वेषां यच्छब्दसम्बद्धानां प्रथमेनान्वयः । ईश्वलरार्थमनुष्ठितो धर्मः स्वचित्तशुद्धिद्वारास्वार्थएव भवतीति भावः ॥ 12-46-31 भौमं ब्रह्म वेदा ब्राह्मणा यज्ञाश्च ॥ 12-46-32 आत्मानं सर्वेश्वरमात्मनि हार्दाकाशे इष्ट्वा योगेन पश्यति । आनन्त्याय मोक्षाय ॥ 12-46-34 पुराणे अतीतकल्पादिविषये । पुरुषं पूर्णं सर्वमस्मिन्नतीतमस्त्येवेति योगात्पुरुष इति नाम । युगादिषु युगारम्भेषु । बृंहकत्वात्सृष्टेरेनं ब्रह्मेत्याहुः । क्षये सर्वस्य सम्यक्वर्षणादयं सङ्कर्षण इत्युक्तः ॥ 12-46-35 नान्यभक्ता अनन्यभक्ताः ॥ 12-46-39 हिरण्यगर्भमिति ड. थ. पाठः । जज्ञे जनयामास ॥ 12-46-43 उक्थे बह्वृचाः । अग्नौ चयनेऽध्वर्यवः ॥ 12-46-47 चतुर्भिरिति । आश्रावयेति चतुरक्षरम् अस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामहे इति पञ्चाक्षरं द्व्यक्षरो वषट्कार इति सप्तदशभिरक्षरैर्यो हूयते तस्मै होमात्मने नमः ॥ 12-46-49 यः सहस्रसमे सत्र इति झ. पाठः । तत्र सहस्रसमे सहस्रसंवत्सरे सत्रे इत्यर्थः ॥ 12-46-54 यं त्रिधात्मानमिति झ. पाठः ॥