अध्यायः 045
कृष्णेन युधिष्ठिरम् प्रति धर्मश्रवणाय भीष्मसमीपगमनचोदना ॥ 1 ॥ तथा युधिष्ठिरप्रार्थनया स्वस्यापि तत्र गमनाय दारुकेण रथसंयोजनम् ॥ 2 ॥
युधिष्ठिर उवाच 001
किमिदं परमाश्चर्यं ध्यायस्यमितविक्रम । 001a
कच्चिल्लोकत्रयस्यास्य स्वस्ति लोकपरायण ॥ 001c
'इन्द्रियाणि मनश्चैव बुद्धौ संवेशितानि ते ।' 002a
चतुर्थं ध्यानमार्गं त्वमालम्ब्य पुरुषर्षभ । 002c
अपक्रान्तो यतो जीवस्तेन मे विस्मितं मनः ॥ 002e
निगृहीतो हि वायुस्ते पञ्चकर्मा शरीरगः । 003a
इन्द्रियाणि च सर्वाणि मनसि स्थापितानि ते ॥ 003c
वाक्च सत्वं च गोविन्द बुद्धौ संवेशितानि ते । 004a
सर्वे चैव गुणा देवाः क्षेत्रज्ञे ते निवेशिताः ॥ 004c
नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस्तथा मनः । 005a
काष्ठकुड्यशिलाभूतो निरीहश्चासि माधव ॥ 005c
यथा दीपो निवातस्थो निरिङ्गो ज्वलतेऽच्युत । 006a
तथाऽसि भगवन्देव निश्चलो योगनिश्चयात् ॥ 006c
यदि श्रोतुमिहार्हामि न रहस्यं च ते यदि । 007a
छिन्धि मे संशयं देव प्रपन्नायाभियाचते ॥ 007c
त्वं हि कर्ता विकर्ता च त्वं क्षरश्चाक्षरश्च ह । 008a
अनादिनिधनो ह्याद्यस्त्वमेकः पुरुषोत्तम ॥ 008c
त्वं प्रपन्नाय भक्ताय शिरसा प्रणताय च । 009a
ध्यानस्यास्य यथातत्त्वं ब्रूहि धर्मभृतां वर ॥ 009c
ततः स्वगोचरे न्यस्य मनोबुद्धीन्द्रियाणि च । 010a
स्मितपूर्वमुवाचेदं भगवान्वासवानुजः ॥ 010c
वासुदेव उवाच 011
शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः । 011a
मां ध्याति पुरुषव्याघ्रस्ततो मे तद्गतं मनः ॥ 011c
यस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः । 012a
न सहेद्देवराजोऽपि तमस्मि मनसा गतः ॥ 012c
येनाभिजित्य तरसा समस्तं राजमण्डलम् । 013a
ऊढास्तिस्रः पुरा कन्यास्तमस्मि मनसा गतः ॥ 013c
त्रयोविंशतिरात्रं यो योधयामास भार्गवम् । 014a
न च रामेण निस्तीर्णस्तमस्मि मनसा गतः ॥ 014c
यं गङ्गा गर्भविधिना धारयामास भारतम् । 015a
वसिष्ठशिष्यं तं तात गतोऽस्मि मनसा नृप ॥ 015c
दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान् । 016a
साङ्गांश्च चतुरो वेदांस्तमस्मि मनसा गतः ॥ 016c
रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव । 017a
आधारं सर्वविद्यानां तमस्मि मनसा गतः ॥ 017c
'एकीकृत्येन्द्रियग्रामं मनः संयम्य मेधया । 018a
शरणं मामुपागच्छत्ततो मे तद्गतं मनः ॥' 018c
स हि भूतं भविष्यच्च भवच्च भरतर्षभ । 019a
वेत्ति धर्मविदां श्रेष्ठस्तमस्मि मनसा गतः ॥ 019c
तस्मिन्हि पुरुषव्याघ्रे शान्ते भीष्मे महात्मनि । 020a
भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी ॥ 020c
तद्युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम् । 021a
अभिगम्योपसङ्गृह्य पृच्छ यत्ते मनोगतम् ॥ 021c
चातुर्विद्यं चातुर्होत्रं चातुराश्रम्यमेव च । 022a
राजधर्मांश्च निखिलान्पृच्छैनं पृथिवीपते ॥ 022c
तस्मिन्नस्तमिते भीष्मे कौरवाणां धुरन्धरे । 023a
ज्ञानान्यल्पीभविष्यन्ति तस्मात्त्वां चोदयाम्यहम् ॥ 023c
तच्छ्रुत्वा वासुदेवस्य तथ्यं वचनमुत्तमम् । 024a
साश्रुकण्ठः स धर्मज्ञो जनार्दनमुवाच ह ॥ 024c
यद्भवानाह भीष्मस्य प्रभावं प्रति माधव । 025a
तथा तन्नात्र सन्देहो विद्यते मम माधव ॥ 025c
महाभाग्यं च भीष्मस्य प्रभावश्च महाद्युते । 026a
श्रुतं मया कथयतां ब्राह्मणानां महात्मनाम् ॥ 026c
भवांश्च कर्ता लोकानां यद्ब्रवीत्यरिसूदन । 027a
तथा तदनभिध्येयं वाक्यं यादवनन्दन ॥ 027c
यदि त्वनुग्रहवती बुद्धिस्ते मयि माधव । 028a
त्वामग्रतः पुरस्कृत्य भीष्मं यास्यामहे वयम् ॥ 028c
आवृत्ते भगवत्यर्के स हि लोकान्गमिष्यति । 029a
त्वद्दर्शनं महाबाहो तस्मादर्हति कौरवः ॥ 029c
तव ह्याद्यस्य देवस्य क्षरस्यैवाक्षरस्य च । 030a
दर्शनं त्वस्य लाभः स्यात्त्वं हि ब्रह्ममयो निधिः ॥ 030c
वैशम्पायन उवाच 031
श्रुत्वैवं धर्मराजस्य वचनं मधुसूदनः । 031a
पार्श्वस्थं सात्यकिं प्राह रथो मे युज्यतामिति ॥ 031c
सात्यकिस्त्वाशु निष्क्रम्य केशवस्य समीपतः । 032a
दारुकं प्राह कृष्णस्य युज्यतां रथ इत्युत ॥ 032c
स सात्यकेराशु वचो निशम्य रथोत्तमं काञ्चनभूषिताङ्गम् । 033a
मसारगल्वर्कमयैर्विभङ्गैर्विभूषितं हेमनिबद्धचक्रम् ॥ 033c
दिवाकरांशुप्रभमाशुगामिनं विचित्रनानामणिभूषितान्तरम् । 034a
नवोदितं सूर्यमिव प्रतापिनं विचित्रतार्क्ष्यध्वजिनं पताकिनम् ॥ 034c
सुग्रीवशैब्यप्रप्नुखैर्वराश्वैर्मनोजवैः काञ्चनभूषिताङ्गैः । 035a
संयुक्तमावेदयदच्युताय कृताञ्जलिर्दारुको राजसिंह ॥ 035c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥
12-45-2 चतुर्थं जाग्रत्स्वप्नसुषुप्तिभ्यः परम् । अपक्रान्तो यतो देव इति झ. पाठः ॥ 12-45-3 पञ्चकर्मा प्राणनादिकारी ॥ 12-45-4 सत्वं मनः । वागुपलक्षितानीन्द्रियाणि च बुद्धौ महत्तत्त्वे । गुणाः शब्दादिगुणभाजो देवाः श्रोत्रादीनि इन्द्रियाणि ॥ 12-45-5 नेङ्गन्ति न कम्पन्ते । निरीहो निश्चेष्टः ॥ 12-45-6 निरिङ्गः अचलः ॥ 12-45-10 गोचरे स्वस्वस्थाने ॥ 12-45-11 ध्याति ध्यायति ॥ 12-45-22 चतस्रो विद्याः धर्मार्थकाममोक्षविद्याः सर्ववर्णसाधारणाः चातुर्होत्रं त्रैवर्णिकानां विशेषधर्मो यज्ञादिः ॥ 12-45-27 अनभिध्येयम् अविचारणीयम् ॥ 12-45-33 मसारगल्वर्कमयैर्विभङ्गैः मसारो मरकतमणिः गलुश्चन्द्रकान्तः अर्कः सूर्यकान्तः तन्मयैः विभङ्गैः विस्तरैः ॥