अध्यायः 043

युधिष्ठिराज्ञया भीमादिभिश्चतुर्भिर्दुर्योधनादिगृहपरिग्रहः ॥ 1 ॥ वैशम्पायन उवाच 001
ततो विसर्जयामास सर्वास्ताः प्रकृतीर्नृपः । 001a
विविशुश्चाभ्यनुज्ञाता यथास्वानि गृहाणि ते ॥ 001c
ततो युधिष्ठिरो राजा भीमं भीमपराक्रमम् । 002a
सान्त्वयन्नब्रवीच्छ्रीमानर्जुनं यमजौ तथा ॥ 002c
शत्रुभिर्विविधैः शस्त्रैः क्षतदेहा महारणे । 003a
श्रान्ता भवन्तः सुभृशं तापिताः शोकमन्युभिः ॥ 003c
अरण्ये दुःखवसतिर्मत्कृते भरतर्षभाः । 004a
भवद्भिरनुभूता हि यथा कापुरुषैस्तथा ॥ 004c
यथासुखं यथाजोषं जयोऽयमनुभूयताम् । 005a
विश्रान्ताल्ँलब्धविश्वासाञ्श्वः समेताऽस्मि वः पुनः ॥ 005c
ततो दुर्योधनगृहं प्रासादैरुपशोभितम् । 006a
बहुरत्नसमाकीर्णं दासीदाससमाकुलम् ॥ 006c
धृतराष्ट्राभ्यनुज्ञातं भ्रात्रा दत्तं वृकोदरः । 007a
प्रतिपेदे महाबाहुर्मन्दिरं मघवानिव ॥ 007c
यथा दुर्योधनगृहं तथा दुःशासनस्य तु । 008a
प्रासादमालासंयुक्तं हेमतोरणभूषितम् ॥ 008c
दासीदाससुसम्पूर्णं प्रभूतधनधान्यवत् । 009a
प्रतिपेदे महाबाहुरर्जुनो राजशासनात् ॥ 009c
दुर्मर्षणस्य भवनं दुःशासनगृहाद्वरम् । 010a
कुबेरभवनप्रख्यं मणिहेमविभूषितम् ॥ 010c
नकुलाय वरार्हाय कर्शिताय महावने । 011a
ददौ प्रीतो महाराज धर्मपुत्रो युधिष्ठिरः ॥ 011c
दुर्मुखस्य च वेश्माग्र्यं श्रीमत्कनकभूषणम् । 012a
पूर्णपद्मदलाक्षीणां स्त्रीणां शयनसङ्कुलम् ॥ 012c
प्रददौ सहदेवाय सन्ततं प्रियकारिणे । 013a
मुमुदे तच्च लब्ध्वाऽसौ कैलासं धनदो यथा ॥ 013c
युयुत्सुर्विदुरश्चैव सञ्जयश्च विशाम्पते । 014a
सुधर्मा चैव धौम्यश्च यथा स्वाञ्जग्मुरालयान् ॥ 014c
सह सात्यकिना शौरिरर्जुनस्य निवेशनम् । 015a
विवेश पुरुषव्याघ्रो व्याघ्रो गिरिगुहामिव ॥ 015c
तत्र भक्ष्यान्नपानैस्ते मुदिताः सुसुखोषिताः । 016a
सुखप्रबुद्धा राजानमुपतस्थुर्युधिष्ठिरम् ॥ 016c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥