अध्यायः 041

युधिष्ठिरेण ज्ञातिप्रभृतीनामौर्ध्वदैहिककरणपूर्वकं तदीयादीनां परिपालनम् ॥ 1 ॥ वैशम्पायन उवाच 001
ततो युधिष्ठिरो राजा ज्ञातीनां ये हता युधि । 001a
श्राद्धानि कारयामास तेषां पृथगुदारधीः ॥ 001c
धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम् । 002a
सर्वकामगुणोपेतमन्नं गाश्च धनानि च । 002c
रत्नानि च विचित्राणि महार्हाणि महायशाः ॥ 002e
युधिष्ठिरस्तु द्रोणस्य कर्णस्य च महात्मनः । 003a
धृष्टद्युम्नाभिमन्युभ्यां हेडिम्बस्य च रक्षसः ॥ 003c
विराटप्रभृतीनां च सुहृदामुपकारिणाम् । 004a
द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ ॥ 004c
ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन् । 005a
धनै रत्नैश्च गोभिश्च वस्त्रैश्च समतर्पयत् ॥ 005c
ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः । 006a
उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदेहिकम् ॥ 006c
सभाः प्रपाश्च विविधास्तटाकानि च पाण्डवः । 007a
सुहृदां कारयामास सर्वेषामौर्ध्वदेहिकम् ॥ 007c
स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम् । 008a
कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन् ॥ 008c
धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा । 009a
सर्वांश्च कौरवान्मान्यान्भृत्यांश्च समपूजयत् ॥ 009c
याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः | 010a
सर्वास्ताः कौरवो राजा सम्पूज्यापालायद्घृणी ॥ 010c
दीनान्धकृपणानां च गृहाच्छादनभोजनैः । 011a
आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः ॥ 011c
स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु । 012a
निःसपत्नः सुखी राजा विजहार युधिष्ठिरः ॥ 012c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकचत्वारिंशोऽध्यायः ॥ 41 ॥

12-41-10 सम्पूज्यापालयत्प्रजा इति ड. थ. पाठः ॥