अध्यायः 040 युधिष्ठिरेण भीमार्जुनादीनां तत्तद्योग्ययौवराज्याद्यधिकारेषु नियोजनम् ॥ 1 ॥ वैशम्पायन उवाच 001
प्रकृतीनां च तद्वाक्यं देशकालोपबृंहितम् । 001a
श्रुत्वा युधिष्ठिरो राजाऽथोत्तरं प्रत्यभाषत ॥ 001c
धन्याः पाण्डुसुता नूनं येषां ब्राह्मणपुङ्गवाः । 002a
तथ्यान्वाप्यथवाऽतथ्यान्गुणानाहुः समागताः ॥ 002c
अनुग्राह्या वयं नूनं भवतामिति मे मतिः । 003a
यदेवं गुणसम्पन्नानस्मान्ब्रूथ विमत्सराः ॥ 003c
धृतराष्ट्रो महाराजः पिता नो दैवतं परम् । 004a
शासनेऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः ॥ 004c
एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत् । 005a
अस्य शुश्रूषणं कार्यं मया नित्यमतन्द्रिणा ॥ 005c
यदि चाहमनुग्राह्यो भवतां सुहृदां तथा । 006a
धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुमर्हथ ॥ 006c
एष नाथो हि जगतो भवतां च मया सह । 007a
अस्य प्रसादे पृथिवी पाण्डवाः सर्व एव च ॥ 007c
एतन्मनसि कर्तव्यं भवद्भिर्वचनं मम । 008a
अनुज्ञाप्याथ तान्राजा यथेष्टं गम्यतामिति ॥ 008c
पौरजानपदान्सर्वान्विसृज्य कुरुनन्दनः । 009a
यौवराज्येन कौन्तेयं भीमसेनमयोजयत् ॥ 009c
मन्त्रे च निश्चये चैव षाड्गुण्यस्य च चिन्तने । 010a
विदुरं बुद्धिसम्पन्नं प्रीतिमान्स समादिशत् ॥ 010c
कृताकृतपरिज्ञाने तथाऽऽयव्ययचिन्तने । 011a
सञ्जयं योजयामास वृद्धं सर्वगुणैर्युतम् ॥ 011c
बलस्य परिमाणे च भक्तवेतनयोस्तथा । 012a
नकुलं व्यादिशद्राजा कर्मणां चान्ववेक्षणे ॥ 012c
परचक्रोपरोधे च दृप्तानां चावमर्दने । 013a
युधिष्ठिरो महाराज फल्गुनं व्यादिदेश ह ॥ 013c
द्विजानां देवकार्येषु कार्येष्वन्येषु चैव ह । 014a
धौम्यं पुरोधसां श्रेष्ठं नित्यमेव समादिशत् ॥ 014c
सहदेवं समीपस्थं नित्यमेव समादिशत् । 015a
तने गोप्यो हि नृपतिः सर्वावस्थो विशाम्पते ॥ 015c
यान्यानमन्यद्योग्यांश्च येषु येष्विह कर्मसु । 016a
तांस्तांस्तेष्वेव युयुजे प्रीयमाणो महीपतिः ॥ 016c
विदुरं सञ्जयं चैव युयुत्सुं च महामतिम् । 017a
अब्रवीत्परवीरघ्नो धर्मात्मा धर्मवत्सलः ॥ 017c
उत्थायोत्थाय तत्कार्यमस्य राज्ञः पितुर्मम । 018a
सर्वं भवद्भिः कर्तव्यमप्रमत्तैर्यथा मम ॥ 018c
पौरजानपदानां च यानि कार्याणि नित्यशः । 019a
राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः ॥ 019c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥

12-40-18 यत् अस्य कार्यं तच्च भवद्भिः कर्तव्यमित्यर्थः । अप्रमत्तैस्तथामयेति ट. द. पाठः ॥ 12-40-19 तानि कार्याणि कर्तव्यानीत्यर्थः ॥