अध्यायः 039
कृष्णादिभिर्युधिष्ठिरस्य राज्येऽभिषेचनम् ॥ 1 ॥
वैशम्पायन उवाच 001
ततः कुन्तीसुतो राजा गतमन्युर्गतज्वरः । 001a
काञ्चने प्राङ्मुखो हृष्टो न्यषीदत्परमासने ॥ 001c
तमेवाभिमुखौ पीठे प्रदीप्ते काञ्चने शुभे । 002a
सात्यकिर्वासुदेवश्च निषीदतुररिन्दमौ ॥ 002c
मध्ये कृत्वा तु राजानं भीमसेनार्जुनावुभौ । 003a
निषीदतुर्महात्मानौ श्लक्ष्णयोर्मणिपीठयोः ॥ 003c
दान्ते शय्यासने शुभ्रे जाम्बूनदविभूषिते । 004a
पृथाऽपि सहदेवेन सहास्ते नकुलेन च ॥ 004c
सुधर्मा विदुरो धौम्यो धृतराष्ट्रश्च कौरवः । 005a
निषेदुर्ज्वलनाकारेष्वासनेषु पृथक्पृथक् ॥ 005c
युयुत्सुः सञ्जयश्चैव गान्धारी च यशस्विनी । 006a
धृतराष्ट्रो यतो राजा ततः सर्वे समाविशन् ॥ 006c
तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसोऽस्पृशत् । 007a
स्वस्तिकानक्षतान्भूमिं सुवर्णं रजतं मणीन् ॥ 007c
ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम् । 008a
ददृशुर्धर्मराजानमादाय बहुमङ्गलम् ॥ 008c
पृथिवीं च सुवर्णं च रत्नानि विविधानि च । 009a
आभिषेचनिकं भाण्डं सर्वसम्भारसम्भृतम् ॥ 009c
काञ्चनौदुम्बरास्तत्र राजताः पृथिवीमयाः । 010a
पूर्णकुम्भाः सुमनसो लाजा बर्हींषि गोरसाः ॥ 010c
शमीपिप्पलपालाशसमिधो मधुसर्पिषी । 011a
स्रुव औदुम्बरः शङ्खस्तथा हेमविभूषितः ॥ 011c
दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्यः पुरोहितः । 012a
प्रागुदक्प्रवणे वेदीं लक्षणेनोपलिख्य च ॥ 012c
व्याघ्रचर्मोत्तरे शुक्ले सर्वतोभद्र आसने । 013a
दृढपादप्रतिष्ठाने हुताशनसमत्विषि ॥ 013c
उपवेश्य महात्मानं कृष्णां च द्रुपदात्मजाम् । 014a
जुहाव पावकं धीमान्विधिमन्त्रपुरस्कृतम् ॥ 014c
तत उत्थाय दाशार्हः शङ्खमादाय पूरितम् । 015a
अभ्यषिञ्चत्पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम् । 015c
धृतराष्ट्रश्च राजर्षिः सर्वाः प्रकृतयस्तथा ॥ 015e
अनुज्ञातोऽथ कृष्णेन भ्रातृभिः सह पाण्डवः । 016a
पाञ्चजन्याभिषिक्तश्च राजाऽमृतमुखोऽभवत् ॥ 016c
ततोऽनुवादयामासुः पणवानकदुन्दुभीन् ॥ 017ac
धर्मराजोऽपि तत्सर्वं प्रतिजग्राह धर्मतः । 018a
पूजयामास तांश्चापि विधिवद्भूरिदक्षिणः ॥ 018c
ततो निष्कसहस्रेण ब्राह्मणान्स्वस्त्यवाचयन् । 019a
वेदाध्ययनसम्पन्नान्धृतिशीलसमन्वितान् ॥ 019c
ते प्रीता ब्राह्मणा राजन्स्वस्त्यूचुर्जयमेव च । 020a
हंसा इव च नर्दन्तः प्रशशंसुर्युधिष्ठिरम् ॥ 020c
युधिष्ठिर महाबाहो दिष्ट्या जयसि पाण्डव । 021a
दिष्ट्या स्वधर्मं प्राप्तोऽसि विक्रमेण महाद्युते ॥ 021c
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः । 022a
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ ॥ 022c
मुक्ता वीरक्षयात्तस्मात्सङ्ग्रामाद्विजितद्विषः । 023a
क्षिप्रमुत्तरकार्याणि कुरु सर्वाणि भारत ॥ 023c
ततः प्रीत्याऽर्चितः सद्भिर्धर्मराजो युधिष्ठिरः । 024a
प्रतिपेदे महद्राज्यं सुहृद्भिः सह भारत ॥ 024c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥
12-39-1 गतमन्युर्वीतदैन्यः । गतज्वरो वीतशोकः ॥ 12-39-2 निषीदतुरिति निषेदतुरित्यर्थे आर्षम् ॥ 12-39-4 दान्ते गजदन्तमये ॥ 12-39-5 सुधर्मा दुर्योधनपुरोहितः ॥ 12-39-7 स्वस्तिकान्सर्वतोभद्राद्यङ्कितानि देवतापीठानि ॥ 12-39-9 भाण्डम् उपकरणम् ॥ 12-39-10 औदुम्बरास्ताम्रमयाः ॥ 12-39-11 उदुम्बरकाष्टमयः स्रुवः ॥ 12-39-16 अमृतमुखः अत्यन्तं दर्शनीयः ॥