अध्यायः 038 कृष्णेन युधिष्ठिरम् प्रति चार्वाकराक्षसस्य पूर्ववृत्तकथनम् ॥ 1 ॥ वैशम्पायन उवाच 001
ततस्तत्र तु राजानं तिष्ठन्ते भ्रातृभिः सह । 001a
उवाच देवकीपुत्रः सर्वदर्शी जनार्दनः ॥ 001c
वासुदेव उवाच 002
ब्राह्मणास्तात लोकेऽस्मिन्नर्चनीयाः सदा मम । 002a
एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः ॥ 002c
पुरा कृतयुगे राजंश्चार्वाको नाम राक्षसः । 003a
तपस्तेपे महाबाहो बदर्यां बहुवार्षिकम् ॥ 003c
वरेण च्छन्द्यमानश्च ब्रह्मणा च पुनः पुनः । 004a
अभयं सर्वभूतेभ्यो वरयामास भारत ॥ 004c
द्विजावमानादन्यत्र प्रादाद्वरमनुत्तमम् । 005a
अभयं सर्वभूतेभ्यो ददौ तस्मै जगत्पतिः ॥ 005c
स तु लब्धवरः पापो देवानमितविक्रमः । 006a
राक्षसस्तापयामास तीव्रकर्मा महाबलः ॥ 006c
ततो देवाः समेताश्च ब्रह्माणमिदमब्रुवन् । 007a
वधाय रक्षसस्तस्य बलविप्रकृतास्तदा ॥ 007c
तानुवाच ततो देवो विहितं तत्र वै मया । 008a
यथाऽस्य भविता मृत्युरचिरेणेति भारत ॥ 008c
राजा दुर्योधनो नाम सखाऽस्य भविता नृषु । 009a
तस्य स्नेहावबद्धोऽसौ ब्राह्मणानवमंस्यते ॥ 009c
तत्रैनं रुषिता विप्रा विप्रकारप्रधर्षिताः । 010a
धक्ष्यन्ति वाग्बलाः पापं ततो नाशं गमिष्यति ॥ 010c
स एष निहतः शेते ब्रह्मदण्डेन राक्षसः । 011a
चार्वाको नृपतिश्रेष्ठ मा शुचो भरतर्षभ ॥ 011c
हतास्ते क्षत्रधर्मेण ज्ञातयस्तव पार्थिव । 012a
स्वर्गताश्च महात्मानो वीराः क्षत्रियपुङ्गवाः ॥ 012c
स त्वमातिष्ठ कार्याणि मा ते भूद्बुद्धिरन्यथा । 013a
शत्रूञ्जहि प्रजा रक्ष द्विजांश्च परिपूजय ॥ 013c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥